________________
प्रत्यक्षविरोधपरिहारः] द्वादशारनयचक्रम्
११७३ रत्वादिति यस्त्वयोक्तः, आत्मलाभेऽभिन्नप्रकारत्वादिति स वक्तव्यः, एकवदिति दृष्टान्तः, यथैको घटः पटो वा भवन्नूर्झदिनवादिदेशकालप्रकारेण भिन्न इत्यभिमतोऽप्यभिन्न एव, अस्तित्वैकत्वघटत्वाभेदात्, एवं घटादिस्तथा सर्वभावा अभिन्नप्रकारात्मलाभात् स्युः, मा मंस्था असिद्धो हेतुरित्यत आह-न हि ताभ्यामस्तित्वैकत्वाभ्यां घटस्यान्यत्वमस्ति, स त्वेक एव घटो यस्मात् घटा[त्] सर्वभेदभाजः तयोरस्तित्वैकत्वयोरन्यत्वं, न हीति वर्त्तते,-सर्वान् पटकटरथादीन भेदान् स्वगतानूोदिनवादीन् भजमाना[त्]घटादस्ति- 5 त्वैकत्वयोरनानात्वम् , ततः किं ? त[त]स्तदनन्यत्वे-घटास्तित्वैकत्वानन्यत्वेऽभिहितन्यायेन सिद्धे सर्वभावा घटादयोऽपि ततोऽनन्ये, तदस्तित्वैकत्वाभ्यामनन्तरत्वात् , घटवदित्युक्तत्वात् , अत आह-तेषामपि घटात्मकत्वं पटादीनाम् ,तदनर्थान्तरत्वात् घटस्वात्मवदिति भावितार्थोऽयमतीतार्थोपसंहारः।
अत्राह
नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यत इति, ननु तत् सर्वसिद्धान्तेष्वपि, प्रत्यक्ष-10 सिद्धमन्यथा मत्वा मोक्षायाऽऽयत्यत इति न वा पुनरन्या विमतिः कार्या।
(नन्विति) नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यत इति-इत्थं सर्वमेकं सर्वात्मकमिति ब्रुवतस्ते प्रत्यक्षदृष्टं भेदेनाशनायितभुक्त्यनन्तरा तृप्तिर्बुभुक्षाविरोधिनी तदनन्तरभावि च सुखं दुःखविरोधीत्येवमादि विरुध्यते, न हि प्रत्यक्षविरुद्ध प्रतिज्ञातुं योग्यमित्यत्र ब्रूमः-ननु तत्सर्वसिद्धान्तेष्वपि, प्रत्यक्षसिद्धमन्यथा मत्वा मोक्षायाऽऽयत्यत इति-ननु विषयसुखानामतथात्वात् दुःखप्रतीकारमात्रत्वात् 15 दुःखसम्मिश्रत्वात् दुःखभूयिष्ठत्वात् नात्यन्तिकत्वाच्च दुःखत्वमेव, तृप्तेरपि गृङ्ख्यभिलाषजननहेतुत्वादतृप्तित्वमेवेति मत्वा निराबाधमपराधीनमात्यन्तिकमैकान्तिकं विषयसुखविपरीतं कथं नाम मुक्तिसुखं निर्द्वन्द्वं प्राप्नुयामेति शास्त्रप्रामाण्यात् सर्वसिद्धान्तप्रसिद्धप्रवृत्तित्वात् , न वा पुनरन्या विमतिः कार्येति संयुक्तेरपि सर्वभावाः सन्तीति ग्राह्याः ।
व्यावर्णयति-यथैक इति। ऊर्द्धमध्यादिभेदभिन्नाभिमतोऽप्येकः-घटः पटः कटो रथोऽस्तित्वैकत्वघटत्वैरभिन्नप्रकारत्वादभिन्न 20 एव, तथा सर्वे घटपटादयो भावा अभिन्ना एवेति भावः । साधितमेव हि यत्रैकत्वमस्तित्वं घटत्वं वा तत्रास्तित्वैकत्वयोनिष्कलेनैव खतत्त्वेन भवितव्यमनर्थान्तरत्वादिति, तस्मात् सर्वभावानां सिद्धान्येवाभिन्नानि प्रकाराण्यस्तित्वैकत्वघटत्वानीत्याह-मा मंस्था इति। न हीति, अस्तित्वैकत्वाभ्यां घटस्य सर्वभेदभाजो घटाद्वाऽस्तित्वैकत्वयोरर्थान्तरता नहि वर्तत इति भावः । एवञ्च घटादस्तित्वैकत्वयोरनन्यत्वे सिद्ध सर्वभावेभ्योऽपि तयोरनन्यत्वं, तदस्तित्वैकत्वाभ्यामनन्तरत्वात् घटखात्मवदित्युक्तमेवेत्याह-तदनन्यत्व इति, सर्वसर्वात्मकत्वसाधनोपसंहारग्रन्थोऽयमिति भावः। नन्वेवं सर्वसर्वात्मकत्वप्रतिज्ञेयं तृप्तिसुखादेर्बुभुक्षादुःखादिविरोधि-25 त्वेन प्रकाशकेन प्रत्यक्षेण विरुद्धेत्याशंक्य समाधत्ते-नन्वेकत्व इति। व्याचष्टे-इत्थमिति, एकस्य सर्वात्मकत्वमभिदधानस्य भवतो बुभुक्षाविषयीभूतपदार्थभुक्त्यनन्तरं या तृप्तिः सा बुभुक्षाविरोधिनी तृप्यनन्तरं यत्सुखं तद्दुःखविरोधीति पार्थक्येन प्रत्यक्षतो दृष्टं विरुध्यते, न हि प्रत्यक्षविरुद्ध वस्तु प्रतिज्ञातुं योग्यमित्यर्थः । समाधत्ते-नन्विति, ननु तत् प्रत्यक्षविरुद्धार्थप्रतिज्ञानं सर्वेष्वपि सिद्धान्तेषु दृश्यत एव, तथाप्रतिज्ञानञ्च मोक्षमार्गप्रवृत्त्यर्थमिति भावः । प्रत्यक्षसिद्धस्यान्यथामननमेवादर्शयति-ननु विषय- . सुखानामिति । प्रत्यक्षसिद्धमपि विषयसुखमसुखं मन्यते, न हि तद्वास्तविकं सुखं, विरज्याभावप्रसङ्गात् , शास्त्रवैयर्थ्यप्रसङ्गाच, 30 किन्तु तद्विषयाणामलामे यदुःखं भावि तत्प्रतीकारमात्रमेव, दुःखसमानाधिकरणमपि, अत एव तदुःखभूयिष्ठं खसमानाधिकरणदुःखप्रागभावसमानकालीनञ्चेति दुःखमेव, जातायामपि हि तृप्तौ महती लालसा जायते, तन्नाशात् , ततोऽधिकतमतृप्तिप्रेप्साया
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org