________________
w
१९७२
न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् सर्वरूपं भवतीत्येतद्भावयितुमाह-घटो मृत् , मृन्मयत्वात् , मृत्त्वं घटस्य सिद्धं मृदः पृथिवीत्वं तदंशत्वात् पृथिव्या द्रव्यत्वं द्रुविकारत्वात्-सत्त्वविकारत्वात् , द्रव्यस्य भव्यत्वात् भव्यस्य भवितृत्वात् भवितुः सर्वत्वात् सर्वं हि भवद्भवति तच्च सदस्ति भाव इति घटपटादि सर्वं परस्परस्वरूपं तस्मात् सर्वस्य सर्वत्वात् सर्वरूपो घट उपलभ्यते, किमिव ? हस्तवत्-यथा हस्तोऽङ्गुलिपर्वसन्धिरेखादिसर्वरूप उपलभ्यते, सदेकाङ्गुल्याद्यात्म5 कत्वात् तथा घटोऽपि सदेकात्मकपटादिरूप उपलभ्यत एवेति न किञ्चिदेतत् , अन्यथा तावन्नास्त्येव घट इति, अन्यथा तथापि च घटस्य सत्त्वादन्यथाऽसिद्धेरिति । ___अथोच्यते भिन्न एवासावर्थो भिन्नप्रकारत्वात्, वादिप्रतिवादिमतिवचनवदित्येतच्च न तुल्यत्वात् , येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामिति सर्वोऽप्यभिन्नोऽसावर्थः,
आत्मलाभेऽभिन्नप्रकारत्वात् , एकवत्, न हि ताभ्यामस्तित्वैकत्वाभ्यां घटस्यान्यत्वमस्ति, 10 घटात् सर्वभेदभाजस्तयोरन्यत्वम् , तदनन्यत्वे तेषामपि घटात्मकत्वं तदनन्तरत्वात् , घटस्वात्मवदिति।
(अथोच्यत इति) अथोच्यते अन्यत्वं तर्हि साधयामि-भिन्न एवासावर्थो घटः पटादिभ्यो भिन्नप्रकारत्वात्, वादिप्रतिवादिमतिवचनवत्, वर्णसंस्थानप्रयोजनादिप्रकारभेददर्शनाच्च नासिद्धिहेतोः
अतोऽन्यत्वे सिद्धे तदुपलब्धिरपि भिन्नप्रकारैवेति न स्यात् सर्वरूपोपलब्धिरिति, एतच्च न तुल्यत्वात्15 नैतदुत्तरं तुल्यत्वादस्य हेतोरस्मत्पक्षसाधनत्वेन, तद्भावना-येन प्रकारेणैकस्यात्मलाभो घटस्य तेन प्रकारेणास्तित्वैकत्वादिना सर्वभावानामप्यात्मलाभो देशकालभेदाभिमतो मध्याधोभागनवयुवमध्यपुराणादिना, [भिन्नानां ] अतः प्रतिज्ञायते सर्वोऽप्यभिन्नोऽसावर्थ इति, नसहितः स एव हेतु:-आत्मलाभे भिन्नप्रका
घटस्य सिद्धम् , सा च मृत् पृथिव्यवयवत्वात् पृथिवीविशेषत्वाद्वा पृथिवी सापि पृथिवी द्रव्यम् , दुः गतिस्तद्विकारत्वात् गतिर्भवन
मस्तित्वं सत्त्वं तद्विकारत्वात् , द्रव्यस्य भव्यत्वादिष्टप्राप्तियोग्यत्वात् , भव्यस्य भवितृत्वात् चेतनाचेतनादिविभिन्नरूपव्याप्तेः, भवितुश्च 20 सर्वत्वादित्यर्थः । एवञ्च घटपटादि निखिलं वस्तु सत् अस्ति भाव इति अन्योऽन्यस्वरूपत्वात् सर्वरूपं सर्वम् , तस्मात् सर्वरूपो घट उपलभ्यत इत्याह-सर्व हीति। निदर्शनमाह-हस्तवदिति । अङ्गुलिपर्वादिनिखिलरूपो, हस्तः, यथाऽस्येकाङ्गुलिः अस्त्येक पर्व अस्त्येका सन्धिः अस्त्यका रेखा, इत्यादौ त्रयाणामेकत्वं प्रतिज्ञाय यत्रैकत्वमित्यादिन्यायेन सर्वसर्वात्मकत्वसिद्धेः सर्वरूपतयोपलभ्यते हस्तः, तथा घटोऽपि सदेकात्मकपटकटरथादिरूप उपलभ्यत एवेति नोपलभ्यत इति कथनं न किञ्चित् , निरर्थकमिति भावः । उक्तप्रकारादन्यथा घटो नास्त्येव, अन्यथा त्वस्यैवासिद्धेः, घटादेस्तत्तदन्यप्रकारैः सद्भावादित्याह-अन्यथेति । ननु देशकालाकारादि25 निमित्तभेदेन वस्तूनां प्रत्येकमसाधारणरूपतया घटपटादयो भिन्नार्था एव, न हि वादिप्रतिवादिबुद्धिवचनानामेकार्थता, तथात्वे साधन
दूषणाभ्यां वादिबुद्धिवचननिराकरणप्रवृत्त्यसम्भवात् , तस्माद्वस्तूनामुत्पत्तौ देशकालादिभिन्न प्रकारत्वात् व्यावृत्तात्मस्वरूपत्वात् भिन्ना एवार्था इत्याशङ्कते-अथोच्यत इति। अनुमानप्रयोगतो वस्तूनां भिन्नत्वं साधयति-भिन्न एवासाविति, घटो भिन्न एव पटा. दिभ्यः भिन्नप्रकारत्वात् वादिप्रतिवादिमतिवचनवदिति मानम्। भिन्नप्रकारत्वं दर्शयति-वणेति, घटस्य वर्णो रक्तः पटस्य शुक्लः,
संस्थानं पृथुबुनादि, पटस्यातानवितानादि, घटस्य प्रयोजनं जलाहरणादि, पटस्य शीतापहरणादि, तदेवं वस्तूनां वैलक्षण्याद्भिन्नप्रकारत्वं 30 नासिद्धं ततः सिद्धमेवान्यथात्वं तस्माच्च भिन्नत्वं भिन्नत्वाचासर्वरूपता असर्वरूपत्वाच्च सर्वरूपोपलब्धिर्वाधितेति भावः। त्वदीयं साधनं न
मत्पक्षप्रतिकूलम्, नसा युक्तं तदेव मत्पक्षं साधयतीत्याह-एतच्चन तल्यत्वादिति। अस्तित्वैकत्वादिना सर्वेषामात्मलाभः समानो देशकालाकारादिभेदेऽपि तस्माद्धटोऽभिन्न एव पदादिभ्यः, आत्मलामेऽभिन्न प्रकारत्वादेकवदित्याह-येन प्रकारेणेति । दृष्टान्तं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org