________________
सर्व रूपोपलम्भोक्तिः ]
११७१
(विपरीतेति ) विपरीतस्वभावबहुत्वाद्याशङ्कानवतार एव, अन्यत्वानभ्युपगमात्, सर्वशक्त्येकवस्तु तदात्मभेदेकीभावेन संसिद्धिसद्भावाभ्युपगमादप्रतिज्ञातस्यारोपणं तत्स्वमतिविलसितमात्रमेव ते, तस्मात्तद्विकल्पगतदोषा नास्मान् बाधन्त इति, अथोच्यते - नन्वन्यथा तावदित्यादि, इदं तावन्नास्तित्वं प्रत्यक्षादिप्रमाणसिद्धं घटाद्यन्यदन्येन प्रकारेण, उष्ट्राद्यप्यन्यदन्येन, घटोऽपि पटात्, उष्ट्रोऽपि गर्दभादन्यः अन्यथा प्रत्यक्षादिभिरुपलभ्यते नास्तीति, तद्यथा - घटः पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि, तद्भावयति - 5 घटो हीत्यादि, हिशब्दो यस्मादर्थे यस्माद्धटो घट एवोपलभ्यते न त्वसौ पटोऽपीत्युपलभ्यते, तस्मात् प्रत्यक्षत एव घट एव पटत्वे (न) नास्ति, अथ पुनस्त्वन्मतेन यदि तु सामान्ये घटस्य तस्यास्तित्वैकत्वे स्यातां ततस्त्वदुक्तन्यायेन सर्वरूप उपलभ्येत, घटः पटकटरथादिरूपो न तूपलभ्यते, तस्मान्नास्ति पटादित्वेनेति पररूपेणाभावः, तथास्वरूपेणाप्यभावः पररूपासत्त्वादिति प्राप्तः खपुष्पवदिति ।
द्वादशारनयचक्रम्
अत्र ब्रूमः
www.
को वा ब्रवीति नोपलभ्यत इति, ननु भोः त्वं नाम सर्वात्मकमुपलभ्यमानमप्यपलप्य शून्यं कर्तुमिच्छसि न पुनरहमुपलभ्यमानमेव सर्वरूपं सन्तं कर्तुं शक्नोमीत्यहो साहसम्, घो हि मृत् मृन्मयत्वात् मृदः पृथिवीत्वं तदंशत्वात् पृथिव्या द्रव्यत्वं द्रुविकारत्वात्, द्रव्यस्य भव्यत्वात् भव्यस्य भवितृत्वात् भवितुः सर्वत्वात् सदस्ति भाव इति घटपटादिसर्व परस्परस्वरूपं हस्तवदिति न किञ्चिदेतत्, अन्यथा तावन्नास्त्येव घट इति ।
को वा ब्रवीतीत्यादि, सर्वरूप उपलभ्यत एव, नोपलभ्यत इति त्वन्मुखादेतच्छ्रयते, न[नु]भो इत्यादि, त्वं नाम सर्वात्मकमुपलभ्यमानमप्यपलप्य शून्यं कर्त्तुमिच्छसि न पुनरहमुपलभ्यमानमेव सर्वरूपं सन्तं कर्त्तुं शक्नोमीत्यहो ! साहसम् - उपलब्धिः सर्वलोक प्रत्यक्षा त्वयाऽपलप्यमाना पूर्वोक्तसर्वप्रमाणविरोधितां ते वचसः सम्पादयति, तस्मादयुक्तो भवतोऽभिप्राय इति ग्रन्थो गतार्थत्वान्न वित्रियते, तद्वस्तु घटाख्यं भवत् पत्वादिदोषारोपणं केत्रलं निजमतिविजृम्भगमेत्र प्रकाशयति नास्माकं काचन ततो बाधा भवतीति व्याचष्टे - सर्वेति । सर्व- 20 सर्वात्मकत्वे दोषमाशङ्कते - नन्वन्यथेति, घटादयो हि प्रत्यक्षादिभिरन्यप्रकारेण नास्तीत्युपलभ्यन्ते यथा घटादि तदन्यप्रकारेणान्यत्, उष्ट्राद्यपि तदन्य प्रकारेणान्यत्, घटः पटादन्यः, उष्ट्रो गर्दभादन्य इति प्रत्यक्षादिभिरुपलभ्यते तेन तस्यैकत्वं सामान्यं नास्तीति भावः । तस्यैवाऽऽशयमाह - तद्यथेति, घटः पटत्वेन नास्ति पटोऽपि घटत्वेन नास्तीति । एवं च घटस्य घटरूपयैवोपलम्भात् पटादिरूपतया चानुपलम्भात् प्रत्यक्षतो घटः पटत्वेन नास्ति, न तु पटादिसर्व भावात्मकतयास्तीति सामान्य मस्तित्वं नेति भावयतीत्याह-तद्भावयतीति, प्रत्यक्षादिभिर्वस्तुनोऽन्य प्रकारेण नास्तित्वोपलम्भं भावयतीत्यर्थः । यदि वस्तु तव मतेन सर्व सर्वात्मकं 25 अस्तित्वैकत्वयोः सामान्ययोर्घटेऽभ्युपगम्य न्यायस्योक्तत्वात्, तर्हि सर्वरूपो घट उपलभ्येत, न तु पटकटरथादिरूपतया घटस्यो - पलम्भोऽस्ति, तस्मान्नास्ति घटः पटत्वादिनेति पररूपेण तस्याभावः प्राप्तः, यश्च पररूपेण नास्ति स स्वरूपेणापि नास्त्येव खपुष्प - वदिति शून्यमेत्र वस्त्वित्याह-अथ पुनरिति । पररूपेणास्तित्वोपलम्भाभावं निराकुर्वन् समाधत्ते को वा ब्रवीतीति । सर्वात्मकत्वं पदार्थस्य सर्वैरुपलभ्यत एव नोपलभ्यत इति न कोऽपि वक्ति, अद्यैव त्वन्मुखादेव तथा मया श्रूयत इत्याह- सर्वरूप इति । नन्वहमुपलभ्यमानं सर्वरूपं वस्तु प्रमाणीकर्तुमुपपत्तिभिर्न शक्नोमीति मत्वैव त्वयोपलभ्यं तन्निह्वय शून्यतां प्रसाधयितु- 30 मिष्यते तदेतत्तव साहसमेवेत्याह-त्वं नामेति । व्याचष्टे - उपलब्धिरिति, सर्वरूपोपलब्धिर्नि खिलजनाध्यक्षा, सैव तन्निरा - करिष्णोस्त्वदीयवचनस्य पूर्वाभिहितसकलप्रमाणविरोधित्वं प्रकटयतीति छन्दस्तेऽयुक्त इति भावः । सर्वरूपोपलम्भप्रसाधनाय घटादिवस्तुनः सर्वरूपतां भावयती आह-तद्वस्त्विति । घट इति, घटो मृत् मृन्मयत्वात् मृद्विकारत्वान्मृत्प्राचुर्याद्वेत्यर्थः एतेन मृत्त्वं
Jain Education International 2010_04
For Private & Personal Use Only
10
15
www.jainelibrary.org