________________
११७०
न्यायागमानुसारिणीव्याख्यासमेतम्
[ द्वादशनयस्यान्तरम्
भिन्न एक एव भावो भिन्न इवाभाति, तथा चेत्यादि, एवमुक्तन्यायेन सर्वात्मकमेव अस्ति नित्यं सर्वगतं सर्वभेदस्वभावञ्च वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे, अतोऽन्यथा प्रत्यक्षादिविरोधाः - घटस्य मृत्कपालकार्पासतन्तु पत्रीह्युदकादिपरिवर्त्तस्य प्रत्यक्षदर्शनात् प्रत्यक्षविरोधः, तद्भावमेव सर्वात्मकमनिच्छतः तादृग्विधार्थानुमेयत्वादनुमानविरोधः, लोकागमाभ्युपगमस्ववचनविरोधाः, स्वपरलोकप्रसिद्धसाधनदूषणसंव्यव5 हाराभ्युपगमात्, अस्त्येकत्वाव्यतिरेकाच्च तेषाम् एते चेन्नेष्यन्ते - मा भूवन्नेते दोषा इति मदुक्तं यावत्कि - चित्तत्सर्वं घटोऽस्त्येक इति प्रतिपत्तव्यम्, कस्मात् ? घटानर्थान्तरत्वात्, घटस्वात्मवदिति साधनमुपसंहारार्थम् एवं तावत् त्रयाणामेकत्वे नास्ति दोषः ।
"
10
यः पुनरुक्तमस्त्येकघटानां त्रयाणां नानात्वे विपरीतस्वभावत्वं घटबहुत्वमभावत्वञ्च प्रायुरिति चिकल्पान्तरशङ्कया विचारान्तरं कृतं तत्र ब्रूमः -
"
विपरीतस्वभावबहुत्वाद्याशङ्कानवतार एवान्यत्वानभ्युपगमात् नन्वन्यथा तावत् प्रत्यक्षादिभिरुपलभ्यते नास्तीति, तद्यथा घटः पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि, घटो हि घट एवोपलभ्यते न त्वसौ पटोsपि, अथ पुनस्त्वन्मतेन सर्वरूप उपलभ्येत, न तूपलभ्यते तस्मान्नास्ति पटादित्वेनेति पररूपेणाभावः, तथा स्वरूपेणाप्यभावः पररूपासत्त्वात् खपुष्पवदिति ।
1
अवयवा ऊर्द्धमध्यबुग्रीवादयस्तेषां भेदेऽपि स घट एक एवास्त्येव चेति देशभेदेऽप्यभेदः, नरस्य कालोऽवस्था बाल्य15 कौमारयौवन वार्द्धक्यादयस्तेषां भेदेऽपि स नर एक एवास्ति, एवं सर्वभावा अपि देशकालाकारादिभेदेऽपि एक एव भावः, एकभवनाविशिष्टत्वादेकत्वाविशिष्टत्वादस्तित्वाविशिष्टत्वात् स एव देशकालाद्यपेक्षया भिन्न इव प्रतीयत इत्याह- ऊर्द्धमध्यबुध्रेति । फलितार्थमाह-एवमुक्तन्यायेनेति, ऊर्द्धादिभेदघटवत् बालादिभेदनरवत् सर्वभावा अविशिष्टाः सर्वात्मकाः, एवञ्च सर्वात्मकं वस्तु, भाव एव भावो भवति नाभावस्तस्मादस्तिस्वरूपं नित्यञ्चानर्थान्तरत्वात् सर्वगतं तथातथाभवन स्वभावत्वाच्च सर्वभेदस्वभावञ्च भवतीति भावः । एवमेव तद्वस्तु प्रमाणैरुपलभ्यत इति न त्वदुक्ताः प्रत्यक्षादिविरोधाः, दृश्यते हि घट एवं कपालशकलादिक्रमेण 20 पांश्वादिभूतः कार्पासादिवीजसम्बन्धात् क्रमेण कार्पासतन्तुपटो भवति पश्वादेः परतो त्रीहिबीजसम्बधादङ्कुरादिक्रमेण स एव व्रीहिर्भवति स एवोदकादिर्भवतीति, तस्मात् सर्वसर्वात्मकताऽस्वीकार एव प्रत्यक्षादिविरोधा भवेयुरित्याह- प्रत्यक्षादीति । सर्वा`त्मकं तद्भावमनिच्छतोऽनुमानतस्तथाविधार्थसिद्धेरनुमानविरोधः स्यादित्याह -तद्भावमेवेति, सर्वात्मकं सर्वरूपं भावमनिच्छत इत्यर्थः । लोकादिविरोधमाह - लोकागमेति, लोकविरोधागमविरोधाभ्युपगम विरोधख वचनविरोधाः, एतेषां प्रत्यक्षपूर्वकत्वात् प्रत्यक्षस्य सर्वसर्वात्मकत्वस्योक्तत्वात्तदनभ्युपगमे विरोधा एते स्युरिति भावः । उक्तन्यायस्य व्यापकत्वात् स्वस्य परस्य लोकस्य च 25 प्रसिद्धा ये हेतवः तद्भेदाः प्रतिज्ञादयः हेत्वाभासस्तद्भेदाः असिद्ध्यादयो दृष्टान्तस्तद्भेदा दृष्टान्ताभासाः स्ववचनविरोधादयश्र व्यवहारविषयाः, अभ्युपगम्यन्ते ते यदि तेषां सर्वसर्वात्मकत्वात् ततोऽन्यथाऽभ्युपगमे ते विरोधा भवन्त्येव अस्त्येकं साधनं, अस्त्येका प्रतिज्ञा, अस्त्येकं दूषणमित्येवमेकत्वं तेषां प्रतिज्ञाय यत्रास्तित्वमित्यादिन्यायेन सर्वसर्वात्मकत्वसाधनादित्याह - स्वपरेति । उक्ताः प्रत्यक्षादिविरोधा यदि नेष्यन्ते तर्हि प्रोक्तसाधनदूषणादि सर्वं घटोऽस्त्यकः घटानर्थान्तरत्वात्, घटघटखात्मवदिति सर्व घटो घटे सर्वभावा अभ्युपेया एवेति सर्वसर्वात्मकत्व प्रयोजकास्त्येकघटानां त्रयाणामेकत्वे न कोऽपि दोष इत्याह-एते चेनेष्यन्त 30 इति । एवं त्वयाऽस्त्येकघटानामर्थान्तरत्वे घटस्यास्त्येकत्वाभ्यां विपरीतत्वाद्धात्मस्वरूपादपि विपरीतता स्यात्, एकस्यैव च घटस्य बहुत्वं स्यात्, अस्त्यपि घटो भेदेन, एकोऽपि घटो भेदेन, घटोऽपि घटो भेदेनेति, अस्तित्वं सामान्यं विशेषश्चकत्वं घटादेर्भवति, तत्र यदि ते घटादेरर्थान्तरभूते तदा निःसामान्यत्वान्निर्विशेषत्वाच्च घटादेरसत्त्वमेव स्यात् खपुष्पवदिति ये दोषा उक्तास्ते न भवन्ति अस्त्येकघटाना मनर्थान्तरत्वेनान्यत्वानभ्युपगमादित्याह - विपरीतेति । सर्वपरिणामशत्तयेकं वस्तु, एकपुरुषपितृपुत्रत्वादिवदिति संसिद्ध्या तदात्मभेदैकीभावेन सद्भावलक्षणयाऽभ्युपगमात्, अस्त्येकघटानामर्थान्तरताया अप्रतिज्ञातत्वात् तत्प्रयुक्तविपरीत स्वरू
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org