________________
mawwwwwmumnama
देशकालमेदेऽप्यभिन्नता] द्वादशारनयचक्रम्
११६९ यत्रास्तित्वमित्यादि द्वितीयमनिष्टापादनसाधनं परेणोक्तं तदपीष्टमेवेति पूर्ववत्परिहार इति मन्यमानस्तथैव साधनं पूर्ववदित्यतिदिशति, तद्यथा-यत्रास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, ततोऽनन्तरत्वात् , यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वमस्तित्वेऽस्तिस्वतत्त्ववत्, एकत्वस्वतत्त्वञ्च सर्वस्मिन्नेकैकस्मिन् एकैकमस्त्येकत्वश्चेत्यतोऽस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः, के च ते ? घटादयः-घटपटादयः, एकश्च घटः तदनन्यदस्तित्वम्-एकघटादनन्यदस्तित्वं तस्मादेकघटाभ्यामनन्य- 5 स्मादस्तित्वादनन्ये सर्वभावाः, अत:-एकस्मादव्यतिरेकात्, सर्वमेव घटपटादि, संश्च घट इति सत्त्वेनैकत्वाव्यतिरेकद्वारेण पटैकत्वास्तित्वाभ्यां सर्वभावघटत्वं यथा एवं घटे सर्वसिद्धिः, अस्तित्वाव्यतिरेकादेकत्वाव्यतिरेकाञ्चेति घटे सर्वसिद्धिरुक्ता, तथा घटत्वमित्यादिना घटेऽस्तित्वैकत्वाव्यतिरेकादनन्तरत्वादिनाऽस्तित्वैकत्वाव्यतिरेकात् घटवत्सर्वः, पटादिरपि घटः तथाऽबादिः-उदकादिरपि घट एवं यावान् भावः, न मे कश्चिद्दोषो मत्पक्षसाधना एव ते हेतवः ।
10 तन्निदर्शनं देशभेदमात्रे तावत्
ऊर्द्धमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, बालकुमारादिभेदे स एवैको नरः, तथा सर्वभावाः, तथा च सर्वात्मकमेव वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे, अतोऽन्यथा प्रत्यक्षादिविरोधाः, एते चेन्नेष्यन्ते मदुक्तं सर्व घटोऽस्त्येक इति प्रतिपत्तव्यम् , घटानर्थान्तरत्वात् घटस्वात्मवदिति ।
15 __ (ऊर्द्धति) ऊर्द्धमध्यबुनदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, कालमात्रभेदेऽपि बालकुमारादिभेदे स एवैको नरः, तथा सर्वभावाः परस्परतो देशकालाकारादिमात्रभेदेऽप्येकभवनाविशिष्टत्वादत्रयाणामेकत्वादेव यत्रास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव-निरवशेषेणैव खतत्त्वेन भवितव्यम् , घटे ह्यस्तित्वं वर्त्तते तत्रैकत्वस्यापि निरवशेषेण परिपूर्णखभावेन सत्त्वं स्यात्, ततोऽनर्थान्तरत्वात् , यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वम् , यथा सति अस्तित्वस्वतत्त्वं ततोऽनन्तरत्वान्निष्कलमेव भवति तथाऽस्तित्ववति घटे एकत्वमपि निष्कलमेव भवितुमर्हति, एकत्वस्वत- 20 त्वच सर्वस्मिन्नेकैकस्मिन् वस्तुन्यस्तित्वमेकत्वं चास्ति, तस्मात् सर्वेषामेव वस्तूनामस्तित्वैकत्ववत्त्वादनन्यत्वमिति द्वितीय साधनं परोदितं पूर्ववदिति पदेनातिदिशति मूलकार इत्याह-द्वितीयमिति। वयमतिदिश्यमानग्रन्थमाह-तद्यथेति । अस्तित्वैकत्वाभ्यामनन्ये सर्वभावा इत्यस्य भावार्थमाह-के च त इति, एकत्वादनन्तरं घटः, ततश्चानान्तरमस्तित्वम् , एकत्वानर्थान्तरघटानर्थान्तरमस्तित्वम् , एकत्वाभिन्नघटाभिन्नास्तित्वस्यानन्यतया पटादिसर्वभावेषु सत्त्वात् तेषु निरवशेषेणैकत्वस्वतत्त्वं भवति, एवञ्च घटपटारेकत्वानर्थान्तरत्वात् सर्वात्मकत्वमिति भावः । अस्तित्वादनान्तरं घटः, तदनन्यदेकत्वम् , अस्तित्वानान्तरघटान- 25 र्थान्तरमेकत्वम्, अस्तित्वाभिन्नघटाभिन्नैकत्वस्य सर्वस्मिन्नेकैकस्मिन्ननन्यतया सत्त्वात् तत्र च निरवशेषेणास्तित्वखतत्त्वमपि भवतीति घटे सर्वभावसिद्धिः, पूर्वसाधनेन घटः सर्वमिति द्वितीयेन सर्वात्मकमिति च सिद्ध्यति, तथा च सर्वसर्वात्मकत्वसिद्धिरित्याहसंश्च घट इति । एवं घटस्य सर्वत्वसर्वभावात्मकत्वसिद्धौ पटादीनामपि तथात्वमादर्शयितुमाह-तथा घटत्वमित्यादिनेति, यत्र घटत्वं तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, तस्मादेकैको घटादिरबादिः सर्वो भेदेन सर्वात्मकः, एवञ्च घटपटकटरथादीनां 30 जलाग्निवायपृथिव्यादि सर्वमेकैकं घटो भवति-सर्वात्मकं भवतीति सर्वसर्वात्मकत्वं सिद्ध्यतीति भावः। त्वयोदितान्येतानि साधनानि मदनुकूलान्येव न प्रतिकूलानि सर्वसर्वात्मकत्वाद्वस्तुन इत्याशयेनाह-न में कश्चिदिति । अथ सर्वभावानामविशिष्टत्वमेकत्वं यत्साधितं तत्र देशमेदेऽपि कालभेदेऽपि चैकत्वे निदर्शनं क्रमेणादर्शयति-ऊर्ध्वमध्येति । घटस्य देशा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org