________________
१९६८
न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादनयस्यान्तरम् (संयुक्तेरपि चेति) संयुक्तेरपि च स्वपरोभयभावः तद्भावयति-इह भाव एव भावो नाभाव इति-सर्वभेदशक्ति भवत्येव भवति वस्तु न न भवतीत्युक्तत्वात् , स चेत्यादि, स च भावः तदतदतीतानागतवर्तमानेषु-तस्मिन् अतस्मिंश्च वृत्ते वर्तमाने वस्य॑ति च, देशकालविशिष्टाभिमतेषु अविशिष्टः-एक एव,
कस्मात् ? [ तद्भावे भावात् , ] तदभावेऽभावात् तेषु तेषु स्वभेदेषु भवत्स्वेव भवति अ[भवत्सु न]भवत्यतः 5 तद्भावे भावात्तदभावे चाभावादविशिष्ट एव तेभ्यः एकः, किमिव ? घटपांशुकार्पासतन्तुपटवत्-यथा घटः कपालशकलादिक्रमेण पांशुभूतः पांशुम॑त् मृदि कार्पासबीजसम्बन्धात् कार्पासीभूतायां तन्तवः, तन्तुभ्यः पट इति क्रमेण घटपटैकत्ववत् सर्वसर्वैक्यमिति, स्थितेऽस्मिन् न्याये तत्रास्त्येको घट इति त्रयाणामेकत्वम् , एवं सति चैकत्वे यत्रैकत्वं तत्रास्तित्वस्यापि निष्कलेन स्वतत्त्वेन भवितव्यम् , कस्मात् ? अनर्थान्तरत्वात् , अस्य
हेतोः साध्येनान्वितत्वं प्रदर्श्यते-यत्र यस्येत्यादि यावत् स्वतत्त्वं भवतीति गतार्थम् , किमिव ? एकस्मिन्ने10 कत्वस्वतत्त्ववत्-यथैकस्मिन् वस्तुन्येकत्वस्वतत्त्वं ततोऽनन्तरत्वात् निष्कलमेव भवति, तथैकत्वेऽस्तित्वमपि निष्कलमेव भवितुमर्हतीति, अस्तित्वस्वतत्त्वञ्च सर्वभावा इति परेणानिष्टमापादयितुमुक्तम् , मम तु सर्वशक्ति एकं वस्त्विच्छत इष्टमेवेति न दोषः ।
किश्चान्यत्यत्रास्तित्वमित्यादि पूर्ववत् , न मे कश्चिद्दोषः, मत्पक्षसाधना एव ते हेतवः।
15 एवं स्वपरोभयभावसंयुक्ति निरूपयति-संयुक्तेरपि चेति । व्याख्याति-तद्भावयतीति, अत्र द्रव्यार्थवादे सर्व भवन
धर्मव न कश्चिदभावो नामास्ति, वस्तुनः सापेक्षनिरपेक्षनिखिलपरिणामशक्तियुक्तत्वात् तथा तथा भवदेव भवति वस्तु नाभवद्भवति, एकभाव एवापरभावो भवति, न त्वेकभावस्याभाव इति भावः । एकभावस्य नानाभावभवनं घटयतिसच भाव इति, सोऽयं भावस्तद्देशेऽन्यदेशे च भूते वर्तमाने भविष्यति चाविशिष्ट एव भवति, न तद्धंसपूर्वकोऽन्य
एव भवति, तस्य भावस्य सत्त्वे एवापरभावस्य भावात् , तस्य भावस्याभावे तदभावाच, न तु देशभेदेन तेषां भेदानां भेदो 20 न वा कालभेदेन, एवञ्च विलक्षगतयाऽभिमतभावेभ्यो भावोऽविशिष्ट एव-एक एवेति पक्षः । हेतुमाह-तद्भावे भावादिति ।
हेतुं व्याचष्टे-तेषु तेष्विति । दृष्टान्तमाह-घटपांश्विति घट एव क्रमेण पटो भवति यथा घटः कपालो भवति स च क्रमेण शकलो भवति स शर्करा भवति सा धूलिः सा पांशुः स मृत् तत्र च कार्पासबीजसम्बन्धादकरादिक्रमेण सैव कार्पासो भवति स तन्तुर्भवति सोऽपि पटो भवति, एवञ्च घट एव कपालादिमेदाः न ततो विशिष्टास्ते, घटः कपालादि सर्वभावात्मकः, पटोऽपि घटादिसर्वभावात्मक इत्यैक्यम् , घटायुक्तभावसद्भाव एव पटभावात् , तदभावेऽभावाच्च, घटकार्यत्वासत्तेषाम्, घटेन विनाऽभूतत्वात् स एव स इति भावः । एवमेव सर्व सर्वात्मकं भवति, तथा चास्त्येको घट इत्यत्रा. . स्त्येकघटानां त्रयाणामेकत्वं सिद्धमेव, एवञ्च यत्रैकत्वं तत्रास्तित्वमपि निष्कलेन खतत्त्वेन भवितव्यम् , अनन्तरत्वात् , यत्र
यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, घट इव घटखतत्त्वस्य, अस्तित्व खतत्त्वञ्च सर्वभावा इति सर्वभावानां घटत्वप्रसङ्ग इति त्रयाणामेकत्वे यो दोष उक्तः स सर्वशक्ति एक वस्त्विच्छतो मे नैव दोष इति प्रतिपादयति-स्थितेऽस्मिन् न्याय
इति । अत्र दृष्टान्तमाह-एकस्मिन्निति । तत्रास्येको घट इत्यारभ्य सर्वभावा इत्यन्तो ग्रन्थः परस्य सर्वभावानां घटत्वा30 पादनपरः, तदापादनं नास्माकमनिष्टमित्याह-इति परेणेति । एवं द्वितीयं साधनं-यत्रास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव
खतत्त्वेन भवितव्यम् , ततोऽनन्तरत्वात् , यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वम् , अस्तित्वेऽस्तिस्वतत्त्ववत् , एकत्वखतत्त्वञ्च सर्वत्रैवैकैकस्मिन् एकैकमस्त्येकत्वञ्चेति यदुक्तं तदपि मत्पक्षसाधनमेवेत्याह-यत्रास्तित्वमिति। अस्त्येकघटाना
१ सि.क्ष. छा. डे. सत्वेत्यादि सत्वभावः । २ सि.क्ष. छा. डे. वय॑ते च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org