________________
खपरोभयभावसंयुक्तिः] द्वादशारनयचक्रम्
११६७ अनेनैव न्यायेन ह्रस्वसद्भावे दीर्घस्याभावो न भवति, तथेतरेतराश्रयत्वादसिद्धिरपि न, उक्तवत् अत एवाप्रतिद्वन्द्वित्वम् , विरुद्धाभिमतसर्वधर्माविरोधवृत्तत्वात् , एवमेव चेतरेतरयोगविचारानवकाश इति ।
(अनेनैवेति) अनेनैव-स्वगतनानारूप्यानतिक्रमात्त्वेकपुरुषपितृपुत्रत्ववत्तथानियमप्रवृत्तेर्हस्खत्वदीर्घत्वाव्याघात इति दोषपरिहारन्यायेन ह्रस्वसद्भावे दीर्घस्याभावो न भवतीति सहानवस्थानदोषपरिहारः । कृतो भवतीति, तस्मादेव हेतोरुक्तदृष्टान्तवत्, तथेतरेतराश्रयत्वादसिद्धिरित्येषोऽपि दोषो नास्त्युक्तवत् स्वाश्रयत्वादेव, अत एवाप्रतिद्वन्द्वित्वम् , विरुद्धाभिमतसर्वधर्माविरोधवृत्तत्वात् , तदित्थं साधनं-हखेऽपि च दीर्घत्वमिति पक्षः, द्वितीयो 'दीर्घऽपि ह्रस्वत्वमिति, एक एव हेतुरप्रतिद्वन्द्वित्वादिति, इष्टहस्वदीर्घस्वात्मवत् , इष्टो ह्रस्वस्खात्मा तेन-हस्वस्वात्मना ह्रस्वत्वेनाप्रतिद्वन्द्वित्वात् ह्रखे भवत्येवं ह्रखे दीर्घत्वं भवति, दीर्धेऽपि ह्रस्वत्वं' दीर्घखात्मवदिति विरोधदोषोऽपि परिहृतः, इत्यं योऽपि तदनन्तरमितरेतरयोगदोषोद्भावनाय विचारः कृतः, 10 तस्यानवतार एव, स्वपरोभयेभ्यो भवने सर्वभेदानां विरोधाभावप्रतिपादनादेव तद्गतदोषपरिहारस्यापि कृतवादत आह-एवमेव चेतरेतरयोगविचारानवकाश इति गतार्थः, एवं तावत् स्वपरोभयभावसंसिद्धिः सिद्धा ।
संयुक्तेरपि च स्वपरोभयभावः, इह भाव एव भावो नाभाव इति, स च भावः तदतदतीतानागतवर्तमानेष्वविशिष्ट एव, तद्भावे भावात् तदभावे चाभावात् , घटपांशुकार्पासतन्तुपटवत् सर्वसर्वैक्यमिति स्थितेऽस्मिन् न्याये तत्रास्त्येको घट इति त्रयाणामेकत्वे यत्रैकत्वं 15 तत्रास्तित्वस्यापि निष्कलेन स्वतत्त्वेन भवितव्यम् , अनर्थान्तरत्वात् , यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं, एकस्मिन्नेकत्वस्वतत्त्ववत्, अस्तित्वस्वतत्त्वञ्च सर्वभावा इति यदुक्तं तत् सर्वशक्त्यैकं वस्त्विच्छतो ममेष्टमेव । तदेव प्रतिपादयति-अनेनैवेति । व्याचष्टे-स्वगतेति, नैकविधपरिणामशक्तिमत्त्वेऽपि वस्तुनस्तेषां धर्माणां नियमेन व्यवस्थितत्वादेव ह्रखत्वसद्भावे दीर्घत्वस्य दीर्घत्वसद्भावे ह्रस्वत्वस्य सद्भावो नास्तीति निरस्तं वेदितव्यं तेन सहानवस्थानदोषो 20 नास्ति, एकपुरुषपितृपुत्रत्वादिवदेव तथानियमप्रवृत्तेरिति भावः । एवमेवेतराश्रयत्वादसिद्धिरपि नेत्याह-तथेतरेतरेति, ह्रखदीर्घत्वादीनां परापेक्षाणामप्यङ्गुल्यादेः खत एवाश्रयत्वादिति भावः । सर्वेषां धर्माणां ह्रखदीर्घस्थूलकृशत्वादीनां विरुद्धाभिमतानामप्यविरोधेन वर्तनादेव न प्रतिद्वन्द्वित्वमित्याह-अत एवेति, ह्रस्वत्वादेर्यथावस्तु स्वत एवाश्रयः तथैव दीर्घत्वादेरपीत्यस्माद्धेतोरित्यर्थः । सहावस्थानमेव प्रयोगतः साधयति-तदित्थमिति । ह्रस्वेऽपि चेति, ह्रखत्वविशिष्टे वस्तुनि दीर्घत्वं वर्ततेऽप्रतिद्वन्द्वित्वात् , एवं दीर्घत्वविशिष्टे वस्तुनि ह्रस्वत्वं वर्ततेऽप्रतिद्वन्द्वित्वादिति प्रयोगः दृष्टान्तो यथाक्रम हवखात्मवत् , 25 दीर्घखात्मवदिति। दृष्टान्तं घटयति-इष्ट इति । यथा इष्टेऽङ्गुल्यादिरूपे ह्रखे ह्रस्वखात्मा ह्रस्वत्वञ्चाविरोधेन वर्तते तथा ह्रखे दीर्घत्वमविरोधेन भवति, यथा वा दीर्घ दीर्घस्वात्मा दीर्घत्वञ्चाविरोधेन वर्त्तते तथा दीर्घ ह्रखत्वमप्यविरोधेन भवतीति भावः । एवं ह्रखे ह्रखत्वदीर्घत्वयोदीर्धेऽपि तयोवृत्तावितरत्रेतरस्य योगे किं खाश्रयादन्यत्र वर्तमाने दीर्घत्वे दीर्घ भवति ? उत दीर्घ एव वर्तमाने दीर्घत्वे दीर्घ भवतीति विकल्प्य यो विचारो विहितोऽनवतार एव तस्यात्र, सर्वेषां भावानां स्वतः परत उभयतश्च भवने विरोधाभावस्य प्रतिपादितत्वात् प्रोक्तविचारगतदोषस्य परिहारो भवत्येवेत्याह-इत्थं योऽपीति । तदेवं स्वपरोभयेभ्यो भावानां 30 मेदाभिमतानां सामान्यात्मतयैकीभावेन सद्भावलक्षणा संसिद्धिः सहभावसहनिर्वृत्तियुगपद्धृत्तिरूपा सिद्धेत्याह-एवं तावदिति।
१ सि.क्ष. डे. दीर्घत्वेऽपि । २ सि.क्ष. डे. इष्टस्य । ३ था० इष्टस्य । ४ सि.क्ष. छा. डे. हस्वात्मावदिति । द्वा० न० २२ (१४७)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org