________________
१९६६
न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् कस्माद्धेतो:
स्वगतनानारूप्यानतिक्रमात्तु एकपुरुषपितृपुत्रत्वादिवत् तथा तथानियमवृत्तेह्रस्वत्वदीर्घत्वाव्याघातः, आत्मगता एव हि तास्ताः सापेक्षनिरपेक्षाः परिणामशक्तयः पुद्गलानामन्येषाश्च ।
(खगतेति) स्वगतनानारूप्यानतिक्रमात्तु यस्मादात्मगता एव तास्ताः सापेक्षनिरपेक्षाः परिणाम। शक्तयः-हस्वदीर्घस्थूलकृशलघुगुरुनित्यानित्यमूर्त्तामूर्तचेतना[चेतनत्वा]दयः पुद्गलानाम् , अन्येषाञ्च-आका
शात्मकालादीनां खे वे परिणामाः, जैनेन्द्रदर्शनात् सर्वसर्वात्मकद्रव्यार्थनये वा विध्यादिभङ्गान्तरे, किमिव ? एकपुरुषपितृपुत्रत्वादिवत्-यथैवैकः पुरुषः स्वपुत्रापेक्षया पितृत्वेन परिणतः स्वपित्रपेक्षया च पुत्रत्वेन तथा मातुलभागिनेयभ्रातृश्वशुरपौत्रदौहित्रभ्रात्रीयप्राच्योदीच्यह्रस्वदीर्घपण्डितमूर्खस्वामिदासादिशक्तिभिः परिणमति, स्वान्यनिरपेक्षकैश्च ज्ञानदर्शनसुखदुःखक्रोधहर्षभयादिभिरुत्पादव्ययध्रौव्यलक्षणत्वा10 द्वस्तुत्वात् , न च ताः शक्तयस्तत्राविद्यमानाः सम्भाव्यन्ते खपुष्वादाविव, न च तासां शक्तीनां परस्पर विरोधो नाप्यनवस्था न च सङ्करः, वपुत्रापेक्षया पितृत्वस्य नियतत्वात् , एवं शेषाणामपीत्यत आह दार्टीन्तिकं-तथा तथा नियमवृत्तेह्रस्व[त्व]दीर्घत्वाव्याघात इत्येतद्विरोधाभावोपनयनम् , तथा सङ्करानवस्थादोषाभावोपनयनमपि द्रष्टव्यम् , एवं नेतरेतराभावेतरेतराश्रयासिद्धय इति ।
m
wwwmwmwww
दीघां दृष्ट्वा खगतेन ह्रस्वत्वपरिणामेन खयमेव परिणता त्वन्मतेन कस्माच्चिदपि दीर्घा न स्यात् , तथाऽनामिकापि मध्यमां दीर्घादृष्ट्वा 15 खगतेन ह्रखत्वपरिणामेन खयमेव परिणता दीर्घा न स्यादित्याह-यदीति हखत्वेनावष्टब्धत्वात् दीर्घत्वस्यानवकाशादिति, तस्माद्दीर्घस्वमपि स्वायत्तमिति भावः, अतिदिश्यमानपूर्वग्रन्थोऽयं संक्षेपेणाऽऽदर्शितः, अतिदेशस्तु, ह्रस्वत्वं ह्रस्व एव, अपरायतत्वात् , तद्धि हवत्वं मध्यमायाः स्वायत्तमेव, यदि खविषयमेवतत्-शक्रयष्टिदीर्घत्वापेक्षं मध्यमाया हस्वत्वं त्वन्मतेन स्यात् , न मध्यमाऽनामिकाहखतायामपि शक्रयष्टितो हवा स्यात् , स्वात्मन्यविद्यमानहखत्वात् खपुष्पवत्, अनामिकापेक्षदीर्घत्वात् भवति तु ह्रस्वापि,
तथाऽनामिका कनिष्ठिकाहवतायां कनिष्ठिकापेक्षदीर्घपरिणामात् हस्खा न स्यात्, भवति तु, तस्मान्मध्यमाया अनामिकायाश्च 20 शक्रयष्टयपेक्षाभिमतं ह्रस्वत्वं स्वायत्तमेव, ह्रस्वतरापेक्षे दीर्घत्वे संवृत्तेऽपि खतो दीर्घतरापेक्षया हखत्वस्यावस्थितत्वादिति ।
ननु हखत्वं दीर्घत्वञ्च स्वायत्तमेकत्र भवतीति कस्माद्धेतोरुच्यते तयोरेकत्र व्याघातादित्यत्राह-स्वगतेति, स्वगता या नानारूपता तदतिक्रमेण शक्त्यभ्युपगमे हि व्याघातः स्यान्न चैवमिति भावः। सापेक्षयोहखत्वदीर्घत्वयोर्वस्तुगतपरिणामशक्तितैवेत्याहयस्मादात्मगता एवेति, एक्शब्दात् परायत्तताव्यावृत्तिः, वस्तुनः परिणामभूताः शक्तयः सापेक्षा निरपेक्षाश्च, ह्रस्वदीर्घ
स्थूलकृशलघुगुरुत्वादयः सापेक्षाः परिणामशक्तयः, नित्यानित्यमूर्त्तामूर्तचेतनाचेतनत्वादयो निरपेक्षाः परिणामशक्तयः, ताश्च 25 यथासम्भवं पुद्गलानां तदितरेषामाकाशात्मकालादीनां परिणामशक्कयो जैनेन्द्रदर्शनाद्विज्ञेयाः, तथा सर्वसर्वात्मकद्रव्यार्थनयाद्विध्यादि
भङ्गादेति भावः। ननु कथं सापेक्षनिरपेक्षपरिणामशक्तिरूपेण स्वगतेन परिणमतीत्यत्र दृष्टान्तमाह-एकपुरुषेति । दृष्टान्तं सापेक्षपरिणामशक्तिभिर्घटयति-यथैवैक इति । खान्यनिरपेक्षपरिणामशक्तिभिर्घटयति-स्वान्येति । कथमेवमित्यत्र हेतुमाहउत्पादेति, वस्तुन उत्पादव्ययध्रौव्यात्मकत्वेनतथा तथापरिणामा भवन्ति प्रतिक्षणमिति भावः । ह्रखदीर्घत्वादिशक्तयो न
पुद्गलादिष्वविद्यमानाः परापेक्षया भवन्तीति सम्भाव्यन्ते, न वा तत्रैव सहानवस्थानलक्षणो विरोधो वा, अनवस्था वा सङ्करो 30 वा पितृत्वहखत्वादेः पुत्रत्वदीर्घत्वाद्यपेक्षयैव प्रतिनियतत्वादित्याह-न च ता इति । तदेवं स्वगतनानारूप्यतायामेकपुरुषपितृपुत्र
त्वादिदृष्टान्तं व्यावर्ण्य तथैव हस्वत्वदीर्घत्वयोरप्येकत्राङ्गल्यादौ प्रतिनियतापेक्षप्रतिनियतवृत्तित्वान्न विरोध इत्याह-तथातथेति । प्रतिनियतवृत्तित्वादेव नानवस्था न वा सङ्कर इत्याह-तथा सङ्करेति। एवमेकत्रैकधर्मसत्त्वेऽपरधर्मस्याभावः, एकधर्मसिद्धौ तदपेक्षापरधर्मसिद्धिः, अपरधर्मसिद्धौ च तदपेक्षकधर्मसिद्धिरितीतरेतराश्रयसिद्धिकत्वे चोभयोरप्यसिद्धिरित्यपि नेत्याह-एवमि
१ सि. क्ष. छा.डे. स्वमत्वनिरापेक्षकैश्च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org