________________
संसिद्धयादिहेतवः ]
द्वादशारनयचक्रम्
११६५
wwwwwww
www.ww
अथ कथं स्वपरोभयभाव इति, अत्र ब्रूमः संसिद्धिसंयुक्त्यनुत्पाद सामग्रीदर्शनस दादर्शनेभ्यो हेतुभ्यः–संसिद्धिस्तावत् समित्येकीभावे, सर्वे भावा भेदाभिमताः सामान्यान्तर्भूताः परस्परमेकी - भूताः सिद्ध्यन्तीत्यत आह-संसिद्धिस्तदात्मभेदैकी भावेन सद्भावः, संसिद्धिः सहभावः, सहनिर्वृत्तिः, युगपद्वृत्तिरित्यनर्थान्तरम्, तद्भावयति दीर्घत्वे दीर्घ एव, अपरायत्तत्वात् - स्वायत्तत्वादेवेत्यर्थः, तद्धिं दीर्घत्वं स्वायत्तमेवानामिकायाः, यदि स्वविषयमे [व] तत् - कनिष्ठिकाह्रस्वत्वापेक्षमनामिकादीर्घत्वं त्वन्मतेन स्यात्, नाना- 6 मिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, - मध्यमां दीर्घं दृष्ट्वा स्वगतेन ह्रस्वत्वपरिणामेन ह्रस्वा सती दीर्घा पुनर्न स्यादेवार्थान्तरापेक्षयापि, स्वात्मन्यविद्यमानदीर्घत्वात् खपुष्पवत्, मध्यमायत्तह्रस्वत्वात् भवति तु दीर्घापि, स्वायत्तकनिष्ठिकापेक्षस्वगत दीर्घत्व परिणामात् तस्मात् स्वायत्तं दीर्घत्वमनामिकायाः, तथा न च मध्यमा शक्रयष्टिदीर्घतायां - शक्रयष्टयपेक्षमध्यमाह्रस्वपरिणामात्तस्मात् स्वगतात् ह्रस्वेति, न त्वनामिकापेक्षात् स्वदीर्घत्व परिणामात्, दीर्घा स्यादिति वर्त्तते, भवति तु, तस्मादनामिकाया मध्यमायाश्च कनिष्ठिकापेक्षाभिमतं 10 दीर्घत्वं स्वायत्तमेव, दीर्घतरापेक्षे ह्रस्वत्वे संवृत्तेऽपि स्वतो ह्रस्वतरापेक्षया दीर्घत्वस्यावस्थितत्वात् एवं ह्रस्वत्वमपीति, अनेनैव न्यायेन कनिष्ठिकाया ह्रस्वत्वमपि स्वायत्तमेवेत्यतिदिशति, यदि स्वविषयमेव तत् [ न ] स्यात् न कनिष्ठिकाऽनामिकादीर्घतायामपि सर्वावयवादिभ्यो दीर्घा स्यात्, न चानामिका मध्यमादीर्घतायामपीति ।
wwwwwww
"
समाधिमाह-अत्र ब्रूम इति, खपरोभयतः कथमस्तित्वमित्यत्र - ब्रूमः समाधिमित्यर्थः । नास्तित्वे वाद्युक्तासिद्ध्ययुक्तयादिहेतूनां विपर्ययात्मकान् हेतून् नास्तित्वविपर्ययसाधनाय दर्शयति-संसिद्धीति । संसिद्धिशब्दार्थमाह-संसिद्धिस्तावदिति, संसिद्धिरित्यत्र 15 समुपसर्ग एकीभावे - अनेकस्यैकभवनरूपेऽर्थे वर्त्तते, एकीभावेन सिद्धिः संसिद्धिः सर्वे भावा दीर्घत्वहस्वत्वादयो मेदाः सामान्यान्तभूताः - अङ्गुल्यन्तर्भूताः परस्परमविरोधेनैकीभावेनैव सिद्ध्यन्तीति भावार्थः । अमुमेवार्थं मूलकृदाह - तदात्मेति सामान्यात्मानो ये मेदास्तेषामेकीभावेन सद्भावः संसिद्धिरित्यर्थः, तदात्ममेदानां सहभावः सहोत्पत्तिर्युगपद्वृत्तिरिति समानार्था इति भावः । अङ्गुलिनामिका दीर्घा, कनिष्ठिका हस्वा, तयोरनामिकाया यद्दीर्घत्वं तत् स्वात्मन्येव दीर्घायामनामिकायामस्ति स्वायत्तत्वादित्याहदीर्घत्वमिति अनामिकाया दीर्घत्वस्य परायत्तत्वाभावात्, अनामिकायत्तत्वात् परायत्तत्वे हि स्वात्मन्यसिद्धस्य दीर्घत्वस्य 20 परतोऽपि सिद्धिर्न स्यादित्यर्थः । अनामिकाया दीर्घत्वं यदि स्वविषयमेव त्वन्मते कनिष्ठा काहखत्वापेक्षमनामिकादीर्घत्वं न स्यात्तर्हि नानामिका दीर्घा स्यादित्याह तद्धि दीर्घत्वमिति । अनामिका दीर्घा न स्यादर्थान्तरापेक्षयापि खात्मन्यविद्यमानदीर्घत्वात्, खपुष्पवत्, स्वात्मनि दीर्घत्वस्य विद्यमानत्वश्च मध्यमां दीर्घा दृष्ट्वाऽनामिकाया ह्रस्वत्वपरिणामेन परिणतस्वात् ह्रस्वदीर्घत्वयोः प्रतिद्वन्द्वित्वेन कनिष्ठिकापेक्ष दीर्घत्वस्याप्यभावादित्याह - नानामि केति, मध्यमादीर्घतायामपि - मध्यमाया दीर्घतायां सत्यामपीत्यर्थः, अनामिकोक्तन्यायेन मध्यमाया अपि दीर्घत्वं वस्तुनो न सिद्ध्यति तथापि तत्र तत्सत्त्वमभ्युपगम्यापीति 25 अपिना सूच्यते व्याचष्टे - मध्यमामिति । न चेष्टापत्तिः शक्या विधातुमित्याह - भवति त्विति, कनिष्ठिकां हस्वां दृष्ट्वा स्वगतेन दीर्घत्वेन स्वयमेव परिणतत्वादनामिका दीर्घा भवति, तस्मात्तस्या दीर्घत्वं स्वायत्तमेवेति भावः । अनामिकायाः स्वायत्तदीर्घत्ववन्मध्य. माया अपि हस्वत्वं शक्रयष्टेर्दीर्घत्वं दृष्ट्वा तदपेक्षस्वगतहस्वत्वेन स्वयमेव परिणतत्वात् तस्मान्मध्यमा हस्खेत्याह तथा न चेति । न तु मध्यमा अनामिकापेक्ष दीर्घत्वपरिणामात् दीर्घा स्यात् परापेक्षत्वे स्वात्मन्यविद्यमान दीर्घत्वादित्याह-न त्वनामिकेति । भवति तु मध्यमा दीर्घाऽनामिका च तस्मात् कनिष्ठिकापेक्षतयाभिमतं तयोर्दीर्घत्वं स्वायत्तमेव न परायत्तमित्याह - भव तित्विति । 30 दीर्घत्वस्य स्वायत्तत्वादेव शक्रयष्ट्रया दिदीर्घतरापेक्षहस्वत्वसत्त्वेऽपि तत्र दीर्घत्वमवस्थितमेवेत्याह- दीर्घतरापेक्ष इति । इत्थमेव स्वत्वस्यापि स्वायत्तत्वं भाव्यमित्याह एवं ह्रस्वत्वमपीति । कनिष्ठिकाया दीर्घत्वं यदि स्वविषयमेव तन्न स्यात् अनामिकां
१ x x सि० ।
Jain Education International 2010_04
२ ० डे० छा० दीर्घस्तवा ।
For Private & Personal Use Only
www.jainelibrary.org