________________
___
w.mmmmwww
manawwwwwwanm
११६४
न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् न्यायेनाविरुद्धं वन्ध्यापुत्रत्वम् , तत्साधयति-तदन्योऽन्यानुगतिमन्तरेण तदभावात् , यद्यदन्योन्यानुगतिम. न्तरेण न भवति तत्तस्यैव, तदेव वा, शरीरारम्भवत्-यथा शरीरं तेषाम् , पुद्गलानाद्यनन्तभवभाविपरिवर्त्तान्यथात्वादन्योन्यानुगतिमन्तरेणाभावाच्च तान्येव तानि जीवपुद्गलद्रव्याणि, तथा वन्ध्याया एव पुद्गलाः पुत्रपुद्गला इत्यविरुद्धं वन्ध्यापुत्रत्वम् , तस्मादस्ति वन्ध्यापुत्रः, तस्मात् सर्वमित्यादि, सर्वशून्यवादे साधनदूषणासम्भवात् प्रतिपाद्यप्रतिपादकव्यवहाराभावात् विज्ञानमात्रपक्षस्यापि सर्वेकज्ञपुरुषमात्रत्वाभ्युपगमापत्तेः स्वप्नवन्ध्यापुत्रादिदृष्टान्तानां च सर्वसर्वात्मकत्वेऽसत्यसिद्धेरिदं सर्वस्वभावमशून्यमिति प्रतिपत्तव्यम् , त्वदुक्तार्थविपर्ययेणाशून्यगृहवत्प्रवेष्ट्रस्थातृनिर्गन्तृकल्पैरुत्पादस्थितिविनाशैः सहितमेव सर्वमेकमनेकात्मकमङ्गुलिवक्रप्रगुणत्वादिवत् विचित्रवर्णकृकलासवद्वा व्यवहारेण प्रत्यक्तापरिकल्पिततदतदाकार
खतः परत उभयतश्चास्त्येवं न नास्तीति प्राह्यमुक्तन्यायात् । 10 अत्राह
अथ कथं स्वपरोभयभाव इति अत्र ब्रूमः संसिद्धिसंयुक्त्यनुत्पादसामग्रीदर्शनसदादर्शनेभ्यो हेतुभ्यः, संसिद्धिस्तदात्मभेदैकीभावेन सद्भावः, दीर्घत्वं दीर्घ एव, अपरायत्तत्वात् , तद्धि स्वायत्तमेव, यदि स्वविषयमेव तन्न स्यात् नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, स्वात्मन्यविद्यमानदीर्घत्वात्, खपुष्पवत्, भवति तु दीर्घापि स्वायत्तकनिष्ठि15 कापेक्षस्वगतदीर्घत्वपरिणामात्, तथा न च मध्यमा शक्रयष्टिदीर्घतायां अनामिकापेक्षात् भवति तु, एवं ह्रस्वत्वमपि ।
द्रव्यापेक्षया विविधपर्यायेषु जीवस्य पुद्गलस्य चानतिरिक्तत्वं साधयति-तदन्योऽन्येति, तत्तस्यैव, तदेव वेति पक्षः, पुत्रपुद्गलाः वन्ध्यापुद्गलानामेव, वन्ध्यापुद्गला एव वेति तदर्थः, वन्ध्यात्वभावापन्नपुद्गलानामन्योऽन्यानुगतिमन्तरेण पुत्रभावस्याभावादिति हेत्वर्थः। दृष्टान्तमाह-शरीरारम्भवदिति, शरीरमारभ्यते यैस्ते शरीरारम्भाः, तद्वत्-शरीरारम्भकपुद्गलवदित्यर्थः । दृष्टान्तं घटयति-यथा 20 शरीरं तेषामिति, शरीरं तदारम्भकपुद्गलानामेवेत्यर्थः, यथा पुद्गलद्रव्यं मूर्ताचेतनत्वापरित्यागेनानाद्यनन्तपरिवर्तान तथाऽन्यथ
चानुभवति, तस्य परस्परानुगमनमन्तरेण चाभावाच्छरीरं पुद्गलानामेव, पुद्गलद्रव्यमेव वा, जीवोऽप्यनाद्यनन्तभवभाविपरिवर्त्ताननुभवति नरकतिर्यङ्नरामरान् , तेषां चेतनान्योन्यानुगमनमन्तरेणाभावात्त एव जीवद्रव्यमेवश्च वन्ध्यापुद्गलानां पुत्रपुद्गलत्वान्न वन्ध्यापुत्रास्तित्वं विरुद्धमिति भावः। एवञ्च बन्ध्यापुत्रवदत्यन्ताभाव इत्यसिद्ध्या भावानां प्रागादिविशेषणविशिष्टनास्तित्वनिर्वृत्तायस्ति
त्वस्वभावताया जीवपुद्गलद्रव्याणामनाद्यनन्तभवभाविपरिवत्तोन्यथात्वादन्योन्यानुगतिमन्तरेणाभावाच सर्वस्वभावतेव सिध्यति न 25 निःस्वभावतेत्युपसंहरति-तस्मादिति । तस्मादित्यस्य भावार्थमाह-सर्वशून्यवाद इति, सर्व निःस्वभावमिति ज्ञानवचनशून्या
शून्यत्वयोः साधनदूषणासम्भवात् प्रतिपाद्यप्रतिपादकव्यवहाराभावादभ्युपगमादिविरोधाच्च विज्ञानमात्राभ्युपगमे चतुरवस्थामात्रमेदभिन्नैकपुरुषवादापत्तेः स्वप्नवन्ध्यापुत्रादिदृष्टान्तेन च वास्तविकभयहर्षादेः सर्वशून्यत्वोक्त्या सर्वसत्त्वस्याविशेषनास्तित्वासिङ्ख्या प्रोक्तरीत्या सर्वसर्वात्मकत्वस्यैव सिद्धेश्च सर्वं सर्वस्वभावमशून्यञ्चेत्यभ्युपगन्तव्यमिति भावः । त्वदुक्तार्थेति, तैस्तैराकारैर्गृह्यमाणमपीदं
घटपटादिसर्व शून्यमेव, ग्राहकाकारपरिप्लवेन ग्राह्याकारभ्रान्तेः शून्यगृहवत . यथा शून्यगृहे न प्रवेष्टा न स्थाता न निर्गन्ता कश्चिदस्ति 30 तथाऽत्रापि न सन्त्युत्पत्तिस्थितिविनाशसम्बधा इति यस्त्वदुक्तोऽर्थस्तद्विपरीतमेवेदं सर्वमशून्यगृहवत्प्रवेष्ट्रस्थातृनिर्गन्तृसदृशैरुत्पादस्थितिविनाशेः सहितमेवैकवरूपमनेकवरूपञ्चाङ्गुलेर्वकप्रगुणतादिवत् विचित्रवर्णकृकलासवद्वा व्यवहारेण प्रस्फुटखाभाविकतदतदाकारं स्वतः परतः उभयतश्चास्येव न तु नास्ति, उक्तन्यायादिति भावः। स्वपरोभयतस्तु कथमस्तित्वम् ? तत्र तावम इत्याह-अथ कथा
१ सि.क्ष. डे, °वणैक्तक०।
२ सि. क्ष, डे. छा. °स्तोवननास्ती ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org