________________
वन्ध्यापुत्रभवनम् ]
१९६३
तथा चानुभवति तथा चेतनात्म [नः] कर्मपरिवर्त्तानुभाविमनुष्यस्त्रीवन्ध्यात्वाभ्यां प्रत्यावृत्य जन्मान्तरे मनुष्यत्वोत्पत्तौ स्त्रीत्वोत्पत्तौ वा पुत्रवत्त्वे द्रव्यार्थी [ []भेदात् सैव वन्ध्या पुत्रवती जायत इति ।
अत्र वन्ध्यापुत्र इत्येनमर्थं दण्डकेन दर्शयति
अनन्तरभववन्ध्याभावानतिरिक्तत्वात् सकर्मा चेतनोऽवन्ध्यात्वेऽपि तद्वत् बालकुमारवद्वा एक एव, अनाद्यनन्तकर्मप्रबन्धात्मकत्वात् ।
5
अनन्तरभववन्ध्येत्यादिना यावत् प्रबन्धात्मकत्वात्, अवन्ध्यात्वेऽपि कस्मात् ? तद्भावानतिरि - क्तत्वात् तस्मात् पूर्वस्माद्भावाद्नतिरिक्तः सकर्मा चेतनः, तद्वत् - पूर्ववन्ध्यात्ववत् पुत्रवत्त्वपर्यायसम्भूतावपि, बालकुमारवद्वेति दृष्टान्तान्तरं लोकसिद्धं - यथा बालः कुमारो युवेत्यादिपर्यायेष्वपि स एव भवति तथा ध्यापुत्रवत्त्वावस्थयोरेक एव जीव इति, एवं तावच्चेतनस्यानाद्यनन्तभवभावित्वात् तद्भावानतिरिक्तत्वाच्च तत्त्वे वन्ध्यापुत्रास्तित्वमुक्तम् ।
www
अचेतनस्यापि ब्रूमः, तद्यथा
द्वादशारनयचक्रम्
वन्ध्याशरीरगतानां पुद्गलानामुत्सृष्टानां मृत्त्वव्रीह्यादित्वसम्भूतौ वन्ध्यया स्त्रिया पुंसा - वाssहारितानां पुत्रत्वेनोत्पत्तावपि वन्ध्यापुत्रास्तित्वमविरुद्धम्, तदन्योऽन्यानुगतिमन्तरेण तदभावात्तत्तस्यैव तदेव वा शरीरारम्भवत्, तस्मात् सर्वमिदं सर्वस्वभावमशून्यमुत्पत्तिस्थितिविनाशसहितमेकमनेकात्मकं स्वपरोभयतोऽस्त्येवेति प्रतिपत्तव्यम्, उक्तन्यायात् ।
wwwww
( वन्ध्येति ) वन्ध्याशरीरगतानां पुद्गलानामुत्सृष्टानां - केशनखदन्तमूत्रशकृत्स्वेदरसरुधिरमांसादीनां मृत्त्वीयादित्वसम्भूतौ वन्ध्यया स्त्रिया पुंसा वाऽऽहारितानां रक्तशुक्रत्वादिभावेन चोपात्तानां पुत्रत्वेनोत्पत्तावपि वन्ध्यापुत्रास्तित्वम्, तद्भावानतिरिक्तत्वात्, अनाद्यनन्तविपरिवर्त्तान्यथात्वादित्यादिना
Jain Education International 2010_04
For Private & Personal Use Only
10
घटयति तथा चेतनात्मन इति, एवं चेतनोऽपि कर्मणां परिवर्त्ताननुभवन् मनुष्यभवे स्त्रीत्वेन वन्ध्यात्वेन च भवन् पुनस्तत्परित्यज्य जन्मान्तरे मनुष्यभव एव स्त्रीत्वेनोत्पद्य यदा पुत्रवान् भवति तदा वन्ध्यात्वपुत्रवत्त्वपर्यायानुभाविचेतनस्य द्रव्यार्थामेदेनै- 20 कत्वात् वन्ध्याभावमापन्नश्चेतन एव पुत्रवान् जात इति वन्ध्यापुत्रास्तित्वं सम्भाव्यत इति भावः । द्रव्यार्थाभेदाद्वन्ध्या पुत्रवती जायत इत्येनमर्थमेव प्रकाशयति-अनन्तरभवेति, अव्यवहितपूर्वभवेत्यर्थः । व्याचष्टे - अवन्ध्यात्वेऽपीति, पुत्रवत्त्व पर्यायेऽपीत्यर्थः । अनन्तरभवे - पुत्रवत्त्व पर्यायानुभाविभवात् पूर्वस्मिन् भवे यो भावः - पर्यायो वन्ध्यात्वरूपः तदनतिरिक्तत्वाच्चेतन पूर्ववं ध्यात्वपर्यायसम्भूतिवत् यूनि चेतने पूर्वबाल्यकौमारपर्यायसम्भूतिवद्वा पुत्रवत्त्व पर्यायसम्भूतावपि द्वयोरप्यवस्थापर्याययोः स एवैकः चेतनो भवति न त्वन्यान्यः, तस्य चेतनस्यानाद्यनन्तकर्मप्रबन्धात्मकत्वादिति भावः । एक एव चेतनोऽनादितोऽनन्तेषु भवेषु भवति, उत्तरोत्तरभा- 25 वोत्पत्तावपि पूर्वपूर्वभावेभ्योऽनतिरिक्तत्वात् पुत्रवत्त्वभावोत्पत्तौ वन्ध्यैव पुत्रवती जातेति वन्धापुत्रास्तित्वं समर्थितमित्युपसंहरतिएवं तावदिति । तदेवं चेतनद्रव्याश्रयेण वन्ध्यापुत्रास्तित्वं प्रसाध्याचेतनद्रव्याश्रयेण तदस्तित्वं प्रसाधयति-वंध्याशरीरगतानामिति । वन्ध्याभावानुभाविचेतनेनोपभुज्य मुक्ता ये वंध्याशरीरगताः पुद्गलाः केशदन्तनखमूत्रपुरीषादिरूपाः परिणमन्तः मृद्रीत्यादिभावमापन्ना यदा वन्ध्यास्त्रियोपभुक्ताः सन्तः शोणितभावं प्राप्य पुत्रत्वेनोत्पद्यन्ते यदा वा पुरुषेणोपभुक्ताः शुक्रभावमासाद्य पुत्रत्वेनोत्पद्यन्ते तदा द्रव्यार्थाभेदात् वन्ध्यापुद्गला एव पुत्रपुद्गला इति कृत्वा वन्ध्यापुत्रास्तित्वं सम्भवतीत्याशयेन व्याचष्टे - वन्ध्या- 30 शरीरेति । इमे पुद्गला एवानाद्यनन्तपरिवर्त्तेषु भवितुमुत्सहन्ते, अनाद्यनन्तपरिवर्त्तान्यथात्वात्, इतरद्रव्यवत् पुत्रपुद्गला एव वन्ध्यापुद्गलाः पूर्वभावानतिरिक्तत्वात् बालकुमारादिवदितेि पूर्वोदितन्याय मतिदिशति-तद्भावेति, पूर्ववन्ध्याभावेत्यर्थः । द्विविध
15
www.jainelibrary.org