________________
११६२
न्वायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् भवितृत्वेन तत्र चेतनत्यानाद्यनन्तकर्मपरिवर्तानुभाव्यनाद्यनन्तभवेषु स्वजात्यपरित्यागेनेतरद्रव्यवदन्यथाभवतो मनुष्यस्त्रीवन्ध्यात्वाभ्यां प्रत्यावृत्त्य जन्मान्तरे मनुष्यस्त्रीत्वोत्पत्ती पुत्रवत्त्वे द्रव्याथाभेदाद्वन्ध्या पुत्रवती जायते।
अथोच्येत नैवेत्यादि, अथ मा भूदेव निर्धत्तास्तित्वादिप्रसङ्ग इत्यविशेष्य नास्ति न 5 भवतीत्यादिपर्यायैरसिद्ध्यादिहेतुभ्यो वन्ध्यापुत्रादिवदविशेषा[द]त्यन्तं नास्तीत्युच्यते, एवं त्वं मन्यसे,
अत्रापि ब्रूमः-अथ कथं पुनरित्यादि, वन्ध्यापुत्रनास्तित्वमप्यत्यन्ताभावाभिमतमसिद्धमतो निर्वृत्ताध्वस्ततत्सामर्थ्यसम्बन्धप्रमाणादिविशेष[वाचकानां]प्रतिषेधवाचिनैव नत्रा सामानाधिकरण्याद्भवत्येवेति वयं सम्भावयामः, यदि न विषय इत्यादि-यदि वन्ध्यापुत्रोऽयन्ताभावः स्यात् निर्वृत्त्यादिसत्यागभावादिस्वभावेषु
न सम्भवेत् , सम्भवति तु स्वयं भवितृत्वेन, तस्मानात्यन्ताभावः, किं तर्हि ? सम्भवत्येवास्य निर्वृत्त्यादि. 10 भवितृत्वभावार्थेषु, तद्यथा-भवञ्च तत्सम्भाव्यते, द्रव्यं चेतनमचेतनञ्च द्विविधम्, तत्र चेतनस्येत्यादि, इदं हि चेतनमात्मद्रव्यमनाद्यनन्तभवेषु भवितुमुत्सहते, कुतः ? कर्मपरिवर्तीन्यथात्वात् , अनाद्यनन्तकर्मबन्धसन्तानस्य विपरिवर्तीः तिर्यङ्नरक[नर] मरभवाः, ते चानाद्यनन्ता भवशीला एव स्वजात्यपरित्यागेनान्यथाभवन्तः, इतरद्रव्यवत्-पुद्गलद्रव्यवत्, यथा पुद्गलद्रव्यं रूपरसगन्धस्पर्शलक्षणमूर्त्ताचैतन्यापरित्यागेन भूम्युदकवह्निपवनवनस्पतित्रसशरीरिशरीरशीतोष्णतमश्छायातपोद्योतादिपरिवर्त्तमैन्यथा
15 केवलमस्तित्वसामान्याभावभवनसामान्याभावादिपर्यायैर्विज्ञानभावावसिद्ध्यादिहेतुभिरुच्येते, तथा च वन्ध्यापुत्रादीनामत्यन्ताभाववदत्यन्तनास्तित्वं विज्ञानभावयोरुच्यत इत्याह-अथ मा भूदेवेति । वन्ध्यापुत्रादीनामप्यत्यन्तं नास्तित्वं नास्त्येव, तथा च प्रागादिविशेषणविशिष्टास्तित्वादीनामेव नजा व्यावत्तेनात् निवृत्तास्तित्वादिसिद्धिरेवेत्युत्तरयति-अथ कथमिति, वन्ध्यापुत्रस्यात्यन्ताभावाभिमतं नास्तित्वमसिद्धम् , निवृत्ताधस्तादिसत्त्ववाचकास्तिपदं प्रतिषेधवाचिना नञा समानाधिकरणं भवतीति विज्ञाना
दयो भवन्त्येव यथा निर्वत्तो घटः प्राडू नास्तीति नास्तिपदेन निवृत्तघटसत्त्वसमानाधिकरणेन तदेव बोधयतीति वन्ध्यापुत्रोऽपि 20 भवत्येवेति वयं सम्भावयाम इति भावः । यदि वन्ध्यापुत्रस्यास्तित्वं निर्वृत्ताध्वस्ताद्यस्तित्वप्रतिषेधविषयो न स्यात् सत्त्वसामान्य
प्रतिषेधविषय एव स्यात् तर्हि निर्वृत्ताध्वस्तादिसत्त्वप्रतिषेधस्वभावेषु न सम्भवेत् , सम्भवति च खयं भवितृत्वेन निवृत्ताध्वस्तादिसत्त्वप्रतिषेधविषय इत्याह-यदि न विषय इत्यादीति वन्ध्यापुत्रो नास्तीति प्रत्यय इतरेतरसत्त्वप्रतिषेधविषय एव, स्वयं भवितृत्वात् नात्यन्ताभावविषय इति भावः । सम्भवत्येवेति, वन्ध्यापुत्रस्यास्तित्व निर्वृत्तास्तित्वाध्वस्तास्तित्वादिभवितृत्वरूप
भावार्थेषु सम्भवत्येवेत्यर्थः। अस्य भवितृस्वभावतामेवादशेयति-तद्यथेति, वन्ध्यापुत्रास्तित्वं भवेदिति सम्भाव्यते, द्रव्यं हि 28 चेतनाचेतनभेदेन द्विविधम् , उभयमपि चानाद्यनन्तपरिवर्त्ताननुभवति, यतो हि चेतनद्रव्यमनाद्यनन्तकर्मबन्धपरिवर्तनाच्चतुर्गतिषु
चेतनत्वापरित्यागेनान्यथाऽन्यथा भवतीति भावः । अन्यथाभवनमाह-इदं हीति, चेतनमिदमनाद्यनन्तभवेषु भवितुमुत्सहत इति पक्षः, कर्मपरिवर्तान्यथात्वात् हेतुरयम्, इतरद्रव्यवदिति दृष्टान्तः, कर्मणां परिवत्ताः परिणामाः, अन्यथाभावोऽन्यथात्वं नानाप्रकारेण भवनम्, कर्मपरिवर्तानामन्यथात्वं तस्मादिति विग्रहः, तिर्यङ्नरकनरामरभवाः कर्मणां नानाविधाः परिणामाः, अनाद्य
नन्तकर्मप्रवाहबद्धो हि चेतनः कर्मपरिणामभूतेषु तिर्यङ्नरकनरामरभवेषु एकेन्द्रियादिनारकादिमनुष्यस्त्रीपुरुषादिसुरभवनपत्यादि30 रूपेण चेतनत्वापरित्यागेनान्यथाऽन्यथा भवतीति भावः । दृष्टान्तमाह-इतरद्रव्यवदिति, चेतनेतरद्रव्यवत्-पुद्गलद्रव्यवदित्यर्थः। दृष्टान्तं घटयति-यथेति, पुद्गलद्रव्यं खजात्यपरित्यागेन-वस्य जातिः मूर्त्तत्वमचेतनत्वं च मूर्तत्वञ्च रूपरसगन्धस्पर्शलक्षणम. तदजहदेव त्रसस्थावरप्राणिशरीररूपं शीतोष्णतमश्छायाऽऽतपोद्योतादिपरिवर्तश्चानुभवतीति भावः । दार्टान्तिक
सि.क्ष.छा. डे. सम्भवेत्येवास्य न निवृत्यादि भवितृत्वभा०। २ सि. क्ष. छा. डे. पुद्गलस्य द्र० । ३ x x क्ष. छा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org