________________
wwwm
नभादपि वस्तुसत्त्वम्] द्वादशारनयचक्रम्
११६१ षेण नास्तीत्युच्यते प्रापश्चादितरेतरासामर्थ्यासंयोगेभ्यः ततो ननु निर्वृत्ताध्वस्ततत्समर्थबहिःसम्बन्धास्तित्वमेव घटादेः प्रसज्यते ।
एवमपीत्यादि, विजानातीति विज्ञानमित्यविज्ञानात् स्वप्नौज्जाग्रद्विज्ञानं विशेष्यते त्वयैव, [विज्ञानमिति च स्वप्नो जाग्रद्विज्ञानात् , तथा विज्ञेयमित्यविज्ञेयात् स्वप्नविषयादर्थाभासाज्जाग्रद्विषयो रूपादि, अर्थ जाग्रद्विषयाञ्च विज्ञेयादविज्ञेयमिति स्वप्नविषयं वस्तु, तच्च भेदेनाभ्युपगम्यते ज्ञानवचनविषयतया । सद्वाद एवाभ्युपगतोऽत्र त्वया, नो चेत् विज्ञानविज्ञेयाविज्ञानाविज्ञेयज्ञानवचनविशेषणभेदाभावादभावाविशेपात्तूष्णीम्भावस्ते समाश्रयणीयः स्यात्, किञ्चान्यत्-तथाविज्ञानेत्यादि, विज्ञानमपि[न] विज्ञानं भवति, भावो भावो न भवतीत्यादिषु नयः का गतिः ? विचार्य त्वया वाच्यम् , किमत्र निश्चितं सत्त्वमसत्वं वा विज्ञानादेः ? किं प्रागादिविशेषेण नास्तीति ? उताविशेषेणैवेति निर्धार्य ब्रूहि, तत्र यदि 'विशेषेण] नास्तीत्युच्यते ततः प्रापश्चादितरेतरासामर्थ्यासंयोगेभ्यः यथा घटः प्राङ् नास्ति मृदाद्यवस्थायां, पश्चात् 10 कपालत्वे, इतरेतरतया पटत्वे, असामर्थे छिद्रबुध्नत्वे, असंयोगे गेहे नास्तीति ततो यथासंख्यं ननु निर्वृत्तेत्यादि, प्रागभावे निर्वृत्तोऽस्तीति तं विशेषयति, पश्चादभावेऽप्यध्वस्तोऽस्तीति, इतरेतराभावे सोऽस्ति, सामर्थ्याभावे समर्थोऽस्ति गेहसंयोगाभावे बहिःसंयोगोऽस्तीति, तस्मादस्तित्वमेव घटस्य नञ् विशेषयति ।
अथोच्येत नैवास्तीत्यविशेष्य वन्ध्यापुत्रादिवदुच्यते, अथ कथं पुनर्वन्ध्यापुत्रनास्तित्वमपि ? यदि न विषयो, निर्वृत्त्यादिसत्यागभावादिस्वभावेषु न संभवेत् सम्भवति तु स्वयं 15 समाधत्ते-एवमपीति। सद्वादाभ्युपगम स्फुटयति-विजानातीतीति, अविज्ञानरूपात् स्वप्नात् जाग्रद्विज्ञानं विजानातीति कृत्वा त्वया विज्ञानमुच्यते जाग्रद्विज्ञानाच्च वनविज्ञानं न विजानातीति कृत्वाऽविज्ञानमित्युच्यते, स्वप्नस्य जागरात, जागरस्य स्वप्राच्च विशेष्यते, एवं जाग्रद्विज्ञानविज्ञेयरूपादेः खानविषयोऽविज्ञेय इति स्वप्नविषयाविज्ञेयाज्जाग्रद्विषयो रूपादिविज्ञेय इति विशेष्यते, एवञ्च विज्ञानमविज्ञानं विज्ञेयोऽविज्ञेयश्च मेदेनाभ्युपगतः, तथा चेदृशविज्ञानविषयतया तथाविधवचनविषयतया च सद्वाद एवाभ्युपगतस्त्वयेति भावः । इत्थं भेदेन त्वया यदि नाभ्युपगम्यते तद्देषां ज्ञानवचनाभ्यां विशिष्यमाणानां विज्ञानविज्ञेयाविज्ञानाविज्ञेयानां भेदाभावाद-20 भावाविशेषात्त्वया तूष्णीम्भाव एव समाश्रयणीयः स्यादित्याह-नोचेदिति। ननु विज्ञानं विज्ञानं न भवति भावो भावो न भवती त्यादौ किं नया सविशेषमस्तित्वं विज्ञानादेविशेष्यते ? निर्विशेषमस्तित्वं वा विशेष्यते ? इत्यनुयुज्यते-विज्ञानमपीति । विज्ञानं विज्ञानं न भवतीत्यादौ ना किं विज्ञानादेः सत्त्वं निश्चितमसत्त्वं वा, सविशेषसत्त्वव्यावर्त्तने सत्त्वं निश्चितं भवति, निर्विशेषसत्त्वव्यावर्त्तनेऽत्यन्तासत्त्वं निश्चितं भवतीत्साशयेन पृच्छति-किमत्र निश्चितमिति । आशयमेव व्यनक्ति-किं प्रागादीति,प्राक् पश्चात् , इतरेतरतया, असामर्थ्यात् असंयोगादस्तित्वस्य निषेधः क्रियते किं वास्तित्वमात्रनिषेध इति प्रश्नार्थः । सविशेषनास्ति-26 त्वमुदाहृत्य दोषमाह-तत्र यदीति, मृदवस्थायां घटादेरस्तित्वनिषेधः प्राइनास्तित्वम् , कपाले घटास्तित्वनिषेधः पश्चान्नास्तित्वं पटादौ घटास्तित्वनिषेधः इतरेतरनास्तित्वम् , छिद्रबुनादौ घटसत्त्वनिषेधोऽसमर्थनास्तित्वं गृहादौ घटास्तित्वनिषेधोऽसंयोगनास्ति. त्वमेभ्यो निषेधेभ्यो यथासंख्यं घटः प्राङ् नास्तीत्युक्तौ निर्वृत्तोऽस्तीति, पश्चान्नास्तीत्युक्तावध्वस्तोऽस्तीति, इतरः स न भवतीत्युक्तौ सोऽस्तीति, असमर्थे नास्तीत्युक्तौ समर्थेऽस्तीति, असंयुक्ते नास्तीत्युक्तौ संयुक्त बाह्यदेशेऽस्तीति च प्रसज्यते, तत्तदस्तित्वानामेव ना विशेषणादिति भावः । दृष्टान्तयति-यथेति । अस्तित्वप्रसङ्गमाह-ततो यथासंख्यमिति । अथ निर्विशेषसत्त्व- 30 व्यावर्त्तनं ना क्रियत इति पक्षं निराकर्तुमाह-अथोच्यतेति। प्रोक्तनिर्वृत्तास्तित्वादिप्रसङ्गनिवारणाय प्रागादिविशेषपरित्यागेन
xx क्ष. छा.। २ सि. पगत्रोत्रत्वनोत्वेद्विज्ञा० क्ष. छा. ३. °पगमत्रोत्रत्वनोचेद्विज्ञा०। ३ सि.क्ष. छा. डे. भेदासादभावाविशेषा०। ५ सि.क्ष. छा. डे, विशेषना० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org