________________
'Aname
न्यायागमानुसारिणीव्याख्यासमेतम् द्विादशनयस्यान्तरम् त्वमभ्युपगतमेव त्वया, ततश्च सर्व निःस्वभावमित्येतन्मिथ्या, किश्च-निर्भेदश्च नास्तित्वं नास्त्येव, कुतश्चित् सतो वस्तुनो विशेष्य सदेव शक्यं वक्तुं नास्तीति खस्य पुष्पं नास्ति, नाशोकस्येति नाविशेष्य, तस्मान्न शून्यत्वं सर्वस्य, सर्वमिति सत्त्वमेव तत् तथा तेन प्रकारेण, स्वप्नविज्ञानसिंहादेरपि नास्तित्वमन्यास्तित्वं साधयतीति ।
अथोच्येत विज्ञानास्तित्वमपि कः प्रतिपद्यते ? कल्पनामात्रत्वात् , विज्ञानाद्धि विज्ञानम्, तद्विज्ञेयाभावे कुतः ? स्वप्ने तत्कारणविज्ञेयस्याभावाद्विबुद्धेऽप्येवमेव ।
अथोच्यतेत्यादि, विज्ञानास्तित्वमपि कः प्रतिपद्यते ? कल्पनामात्रत्वात्-असिद्ध्यादिहेतुभ्य एव स्वप्नवन्नास्ति विज्ञानमपि, विजानातीति हि विज्ञानं स्यात् , सा च विज्ञानक्रिया कर्त्तत्वं वा विज्ञानस्य नास्ति, विज्ञेयकर्माभावात् , स्वप्ने तत्प्रदर्शयन्नाह-विज्ञानाद्विज्ञानं तद्विज्ञेयाभावे कुतः, १-तद्विजानातीति 10 विज्ञानस्य विज्ञानत्वं स्यात् तद्विज्ञेये कर्मण्यसति कुतः ? नास्ति कुत श्चित् कारणात् , स्वप्ने तत्कारणविज्ञेयस्याभावाद्विबुद्धेऽप्येवमेवेति-जामद्विज्ञानस्यापि स्वप्नविज्ञानवद्विज्ञेयाभावे विज्ञानत्वाभावात् का विज्ञानास्तित्वाशा ? इति ।
अत्रोच्यते
एवमपि विज्ञानविज्ञेयाविज्ञानाविज्ञेयज्ञानवचनविशेषणभेदाभ्युपगमात् सद्वाद एवाभ्यु15 पगतोऽत्र त्वया, नो चेदभावाविशेषातूष्णीम्भावस्ते समाश्रयणीयः स्यात् , तथाऽविज्ञानाभावादिषु च नञः का गतिः ? किं प्रागादिविशेषेण नास्तीति ? उताविशेषेणैवेति ? तत्र यदि विशे
wwwm
wwww
स्यात्, सर्वान्तःपातिविज्ञानस्य निःस्वभावत्वाभावादिति भावः । एवं सर्वेषां शून्यत्वं-नास्तित्वं वक्तुमशक्यं निर्भेदनास्तिताया अभावात्-निष्प्रतियोगिकनास्तिताया अप्रसिद्धत्वादित्याह-निर्मेदश्नति, निर्गतो मेदो-विशेषो यस्मात्तनिर्भेदं निर्विशिष्टमित्यर्थः ।
तर्हि कीदृशं नास्तित्वमस्तीत्यत्राह-कुतश्चिदिति, कस्माञ्चित् सद्भताद्वस्तुनः कुटजकेतक्यादेविशेष्य पृथकृत्य सदेव पुष्पादि 30 नास्तीति वक्तुं शक्यं खस्य पुष्पं नास्तीति न त्वाम्रस्य पुष्पं नास्तीति, अन्यस्य कस्यापि पुष्पेण भवितव्यं तदैव पुष्पममुकस्य नास्तीति वक्तुं शक्यं न त्वप्रसिद्धौ सत्याम् , एवञ्च कथं सर्वस्य शून्यत्वम् ? निष्प्रतियोगिकत्वात् , कस्याप्यस्तित्वाभावाच्च,अस्तित्वमेव सर्वस्य, नास्तित्वव्यावाभावात् सर्वस्य नास्तित्वासिद्धेरिति भावः। एवं स्वप्नसिंहादेर्नास्तित्वमपि व्यावय॑मन्यस्य सत्त्वं साधयति, अन्यथाऽस्तित्वव्यावृत्तेः कर्तुमशक्यत्वादित्याह-स्वप्नेति। ननु वयं विज्ञानस्याप्यस्तित्वं नाभ्युपगच्छामः, उत्प्रेक्षामात्रत्वात्,
तस्माद्यथाऽसिद्ध्यादिहेतुभ्यः स्वप्नविज्ञानं नास्ति तथा विज्ञानमपि नास्तीति सर्वनिःस्वभावता ध्रुवैवेत्साह-अथोच्येतेति । व्याचष्टे25 विज्ञानास्तित्वमपीति । विजानातीति हि विज्ञानम् , विज्ञानक्रियातकर्तृत्वाभ्यां विज्ञानस्य विज्ञानता स्यात् , ते अपि विज्ञेये
कर्मणि सत्येव, एवञ्चासिध्यादिभ्यो विज्ञेयकर्माभावे ते कुतः स्तः? तदभावाच्च कुतो वा विज्ञानम् ? यत्र यत्र विज्ञानता तत्र तत्र विज्ञान क्रियातकर्तृत्वे, यत्र च विज्ञानक्रियातकर्तृत्वाभावस्तत्र विज्ञानताभाव इति व्याप्तिं स्वप्नदृष्टान्ते प्रदर्शयति-विज्ञानाद्विज्ञानमिति, विजानातीति विज्ञानं, कर्तरि ल्युट्प्रत्ययः, विजानातीति विज्ञानं स्यादित्यर्थः, तद्विज्ञानमसति विज्ञेये कुतः स्यात्, विज्ञानक्रियातकर्तृत्वाभावादिति भावः । नास्ति विज्ञानस्य विज्ञानत्वं कुतश्चित्कारणादित्याह-नास्तीति । स्वप्ने यथा विज्ञान30 कारणीभूतविज्ञेयस्याभावात् स्वप्नस्य न विज्ञानत्वं तथैव जाग्रद्विज्ञानस्यापि विज्ञेयाभावात् विज्ञानत्वं न भवतीति विज्ञानस्यास्तित्वमसिद्धमेवेत्साह-स्वप्ने तत्कारणेति। नन्वेवं विज्ञानस्य नास्तित्वं प्रतिपत्तुं न शक्यते, अत्र हि त्वया सद्वादोऽभ्युपगत इति
सि.क्ष. छा. डे. खपुष्पस्य पुष्पं । २ सि.क्ष. छा. डे. विज्ञाननास्ति। ३ सि.क्ष. डे. विज्ञानाद्विज्ञानतदिशेया ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org