________________
निःस्वभावताप्रतिक्षेपः] द्वादशारंनयचक्रम् सदेव भयनिमित्तम् , विशुद्धि]स्य भयापगमोऽसत्त्वे स्वप्नसिंहस्य जाग्रत्सिंहदर्शनश्च साक्षान्मृत्युनिमित्तं सत्यमेव प्रीतिहेतुश्च जाग्रत्पुत्रदर्शनं स्वप्ने तदपेक्षाविशुद्धे प्रीत्यपगमात् नैतावित्यवगम्य जाप्रद्विज्ञानव्यतिरिक्तस्वप्नोदाहरणं युज्यते, तत्तु त्वत्पक्षे स्वप्नस्य जागरणाद्विशेषणं न-घटते, कस्मात् ? उभयोरप्यभावतुल्यत्वात् , खपुष्पस्य वन्ध्यासुतादिव, प्रतिपाद्यमत्यपेक्षयेति चेत्-स्यान्मतं साध्यदृष्टान्तयोः जागरणस्वप्नविज्ञानयोराभावतुल्यत्वं तथापि त्वत्प्रसिद्धाभावार्थेन स्वप्नेनैव जागरीभावार्थत्वप्रतिपादनं सुकरं त्वन्मत्यनुवृत्त्या क्रियते, अयं हि प्रतिपाद्यस्य मतेरनुरोधः-उपायः प्रतिपादयितुमभावतुल्यत्वेऽपीत्येतच्च न उभयोरप्यभावतुल्यत्वात्. मतेरप्यमतेर्भेदेन विशेषणं प्रतिपाद्यस्य प्रतिपादकादेरप्रतिपाद्याद्विशेषणमित्याद्यप्यभावतुल्यत्वान्न घ[टत] एव ।
किश्चान्यत् स्वप्नदृष्टान्तोऽपि
खपुष्पव्युदसनेन च स्वप्नसिंहदर्शनवदिति वचनं घटते, स्वप्नदृष्टान्तव्याख्याने न च वृथाभयहर्षादिविशेषणमवृथाभयहर्षादिना विना ननु भवितुमर्हति, विज्ञानविषया चास्तिता 10 ननु स्थितैव, ततश्च सर्व निःस्वभावमित्येतन्मिथ्या, निर्भेदश्च नास्तित्वं नास्त्येव, कुतश्चित्सतो वस्तुनो विशेष्य सदेव शक्यं वक्तुं नास्तीति न शून्यत्वं सर्वस्य, सत्त्वमेव तत्तथा, स्वामविज्ञानसिंहादेरपि नास्तित्वमन्यास्तित्वं साधयति । __(खपुष्पेति) खपुष्पव्युदसनेन च स्वप्नसिंहदर्शनवदिति वचनं घटते-खपुष्पं न भवति सिंह इति, स्वप्नदृष्टान्तव्याख्याने न च वृथाभयहर्षादिविशेषणमवृथाभयहर्षादिना विना[ननु]भवितुमर्हति, 15 नन्वित्यनुज्ञापयति, किश्चान्यत्-विज्ञानविषया चास्तिता ननु स्थितैव-विज्ञानमात्रमिति ब्रुवता विज्ञानास्ति
mmmmmmm
तु प्रीत्यपगमः जाग्रत्पुत्रदर्शनासत्त्वे इति न भयहेतुप्रीतिहेतू इति भेदं विज्ञायैव जाग्रद्विज्ञाने खप्नोदाहरणं युज्यते कर्तुम् , विज्ञानमात्रपक्षे तूभयोः स्वप्नजागरयोः कल्पनामात्रत्वेनाभावतुल्यत्वाद्यथा खपुष्पस्य वन्ध्यासुताद्विलक्षणता न घटते तथा खप्रस्य जागरणाद्भदो न घटत इति भावः । सिंहदर्शन मिति, स्वप्ने प्रतिभासमानमसत्सिंहदर्शनं भयहेतुस्तस्माज्जागृतस्य तत्सिहदर्शनापगमात् भयापगमः, जाग्रद्दशायाञ्च सदेव सिंहदर्शनं मृत्युहेतुः पुत्रदर्शनं प्रीतिहेतुः जागरणात् स्वप्ने यदा जीवो याति तदा 20 जाग्रत्सिंहपुत्रदर्शनयोरभावेन भयप्रीत्योरपगमो भवतीति विशेषः । शङ्कते-प्रतिपाद्येति, विज्ञानवादी प्रतिपादकः, द्रव्यवादी प्रतिपाद्यः, यद्यपि प्रतिपादकस्य मे मतिर्जाग्रत्स्वप्नदर्शने कल्पनामात्रत्वादभावतुल्ये इति, तथापि प्रतिपाद्यस्य जाग्रदर्शनं सद्विषयं सत् स्वप्नदर्शनमसद्विषयमसदिति मतिः, तन्मतिं प्रसिद्धाभावार्थस्वप्नविषयिणीमनुसृत्य जाग्रति मयाऽभावार्थत्वं प्रतिपाद्यते, वस्तुतस्तयोरभावतुल्यत्वेऽपि प्रतिपाद्यमतेरेव प्रतिपादने उपायत्वादिति भावः। एवमेव व्याचष्टे-स्यान्मतमिति । प्रतिपाद्यमतेः कारणत्वमाह-अयं हीति। प्रतिपाद्यमत्यपेक्षयति त्वया वक्तुं न शक्यते, प्रतिपादकात् प्रतिपाद्यस्यामतेश्च मतेर्भेदाभावात् , प्रतिपाद्यप्रति-25 पादकमत्यमतीनां कल्पनामात्रतयाऽभावतुल्यत्वादित्युत्तरयति-उभयोरपीति,प्रतिपाद्यप्रतिपादकयोमत्यमत्योरपीत्यर्थः । खप्नदृष्टान्तोऽप्यत्यन्तासतो व्युदासे सति युज्यत इत्याह-खपुष्पेति । व्याचष्टे-खपुष्पं नेति, सिंहः खपुष्पं न भवतीति खपुष्पन्युदासेन सिंहदर्शनं स्वप्ने यदि स्यात्तदैव खप्नदृष्टान्तो घटते, अन्यथाऽत्यन्तासद्विषयत्वाद्धर्षभयादिनिमित्तं सिंहादिर्न स्यादिति भावः। खप्नदृष्टान्तस्य यद्याख्यानं कृतं तदपि यथार्थभयहर्षादिना विना वृथाभयहषोदेरसम्भवेन सत्येव प्रतिपक्षे युज्यत इत्याह-स्वप्नदृष्टान्तेति। सर्व निःस्वभावमिति यदुच्यते त्वया तदप्यसत् , विज्ञानमात्रं वस्त्विति ब्रुवता विज्ञानस्यास्तित्वस्वभावस्य स्वीकृतत्वा-30 दित्याह-विज्ञानविषया चेति, विज्ञानसत्त्वाभ्युपगमात् सखभावं विज्ञानमिति सिद्धम् , तथा च सर्व निःस्वभावमित्यसजल्पनं
सि.क्ष. छा. डे. तदपेक्षं विशुद्ध । २ सि.क्ष. छा. हे. भाव्यदृष्टा० । ३ सि.क्ष. छा. डे. जागराणां भावार्थ । सि.क्ष. डे. छा. क्रियाव अयं ।
द्वा० न० २१ (१४६) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org