________________
न्यायागमानुसारिणीव्याख्यासमेतम् द्वादशनयस्यान्तरम् सतो विज्ञानलक्षणत्वादिति त्वयैवाभ्युपग[त]मसिद्ध्यादिहेतुभिर्बाह्यार्थनैःस्वाभाव्यमापाद्य विज्ञानमात्रमेवेदं सर्व स्वप्रसिंहादिवत् जाग्रत्सिंहदर्शनपुत्रजन्मादिभयहर्षसुखदुःखादि विज्ञानमपीत्यतः सर्वस्य विज्ञानलक्षणस्यैव सत्त्वात् तस्य च सर्वत्वात् सर्वमेव चेत् विज्ञानमात्रं स च पुरुष एव ज्ञः, तन्मयञ्चेदमतीतानागताभिमतमपि वर्तमानमेव, स्तिमितसरःसलिलतरङ्गबुद्बुदाद्यवस्थावत् सुप्त[सुषुप्त]जागरिततुरीयाख्यचतुरवस्था5 मात्रभेदमभिन्नमेवास्तीत्यभ्युपगतं भवति, यथोक्तं विधिविधिनयारभङ्गे प्राक् पुरुष एवेदं सर्वमित्यादि, एतत् पुरुषसूक्तं व्याख्यातं तत्रैवेति न पुनर्वित्रियते, अत्राह-ननु विज्ञानशब्देनोत्प्रेक्षामात्रमुच्यते, नार्थवत्त्वं विज्ञानस्य, स्वप्नसिंहदर्शनभयादिवदित्युदाहृत्य कल्पनामात्रत्वस्य प्रतिपादितत्वाबाह्य[]भावः, ग्राह्याभावे ग्राहकत्वस्याभावः, यथोक्तं तदभावे तदप्यसत्' इति, प्रत्युच्चारणमेव तदर्थं यावत् स्वप्नमुदाहर
द्भिरिति, अत्रोच्यते-एतदप्ययुक्तं जागरितव्यतिरिक्तस्वप्नोदाहरणादेव विज्ञानमात्रत्वव्यावर्त्तनात् सप्रतिपक्ष10 त्वाच्च भावानां प्रमाणप्रमाणाभासत्व[व] त् साध्यदृष्टान्तभेदाभ्युपगमोऽवश्यम्भावी ।
यदि तन्मात्रं किं स्वमस्य जागरणाद्विशेषणं घटते ? उभयोरप्यभावतुल्यत्वात् खपुष्पस्य वन्ध्यासुतादिव, प्रतिपाद्यमत्यपेक्षया इति चेन्न, उभयोरप्यभावतुल्यत्वात् ।
यदि तन्मात्रं किमित्यादि, यदि विज्ञानमेव-स्वप्नोऽस्वप्नो न भवति तस्मिन् स्वप्ने सिंहदर्शनम
Mamme
मसिध्धयुक्त्यादिभिरुपपाद्य सर्वमिदं विज्ञानमात्रमेव, जाग्रदवस्थायां सिंहदर्शनाद्भीतेः पुत्रजन्मादितो हर्षस्य सुखदुःखादेश्च विज्ञानस्य 15 खमे सिंहदर्शनपुत्रजन्मादिभयहर्षादिसुखदुःखादिविज्ञानवत्कल्पनामात्रत्वादेवञ्च विज्ञानमेव सत्, एवञ्च यत् सत्तद्विज्ञानमिति
ज्ञानव्याप्यत्वात् सत्त्वस्य सर्व विज्ञानमेव, अन्यथा सत्त्वासम्भव एव स्यात् , एवञ्च सर्व यदि विज्ञानमेव तर्हि ज्ञानमयः पुरुष एव ज्ञवभावो विज्ञानं भवेत् तन्मयच्चेदं वर्तमानं, अतीतानागताभिमतमपि वर्तमानमेव, निश्चलकासारकीलालस्य तरङ्गबुद्धदादेरवस्थाविशेषवत् तस्यैव पुरुषस्य सुप्तसुषुप्तजाग्रत्तुरीयाख्याश्चतस्रोऽवस्थाः तन्मात्रभेदभिन्नमभिन्नमेव विज्ञानाख्यं पुरुषतत्त्वमभ्युपगतं
भवतीति भावः । पुरुष एवेदं सर्वमित्येतत् विधिविधिभङ्गे पुरुषवादे निरूपितं नेह पुनर्निरूप्यत इत्याह-यथोक्तमिति । ननु 20 पुरुष एव सर्वमिदमित्यपि न युक्तमिदंशब्दवाच्यजाग्रदादिविज्ञानस्य कल्पनामात्रत्वस्योक्तत्वात्तत् केवलं विज्ञानशब्देनोत्प्रेक्ष्यते,
यतस्तद्वाह्यस्य सिंहपुत्रभयहर्षादेनिःस्वभावत्वेनासत्त्वात्तद्वाहकस्यापि तद्विज्ञानस्याभावात् , केवलं यदि स्वाप्नविज्ञानवत्तत् स्यात्तर्हि विज्ञानमेव स्यादित्युत्प्रेक्ष्यते, तस्मान्न पुरुषवादप्रसङ्गः तत्रावस्थावस्थावतोः सत्त्वादित्याशङ्कते-ननु विज्ञानशब्देनेति । ग्राह्याभाव इति, खव्यतिरिक्तस्य पृथिव्यादेाह्यस्याभावोऽसियादिभिरुक्तः, सन्तानस्यापि ग्राह्यरूपेणाभावः, ग्राह्याकारशून्य
तदपेक्ष्य विज्ञानस्य विजानातीति विज्ञानमिति प्राहकाकारता प्रकल्पिता यदा च ग्राह्यरूपेण सन्तानस्याभावस्तदा विज्ञानस्य 25 यद्दाहकत्वं-ग्राहकाकारस्तच्छून्यत्वमेव न तु विज्ञानखलक्षणस्यापीति भावः । तत्र प्रमाणमाह-तदभाव इति प्राह्यरूपेण
प्राथाभावे तदपि ग्राहकत्वमपि प्राहकाकारोऽपि ग्राहकाकारतया वा ग्राहकमप्यसदित्यर्थः । समाधत्ते-एतदपीति, यदि विज्ञानमेव सर्व तर्हि स्वप्नस्योदाहरणत्वेनोपदर्शनमयुक्तं तस्यापि सर्वान्तर्गतत्वेन दृष्टान्तत्वासम्भवात्, पक्षाभिन्नत्वात्, यदि सर्वपदेन जापद्विज्ञानमेव गृह्यते तर्हि तथ्यतिरिक्तस्वनोदाहरणात् तत्रैव जाग्रद्विज्ञाने विज्ञानमात्रत्वं सेत्स्यति, स्वप्नस्य तद्व्यतिरिक्तत्वाद्विशानमात्रतायाः व्यावृत्तिरिति भावः। ननु स्वप्नोऽपि विज्ञानमेवेत्यत्राह-सप्रतिपक्षत्वाच्चेति, भावमात्रं प्रतिपक्षव्याप्यम् , यथा 30 प्रमाणे प्रतिपक्षभूतेन प्रमाणाभासेन भावोऽभावेन घटोऽघटेन साध्यं दृष्टान्तेन च व्याप्यमतो जाग्रतो विज्ञानत्वं स्वप्नस्य च तत्प्रतिपक्षत्वं विज्ञानाभासत्वमतो न विज्ञानमात्रतासिद्धिरिति भावः। यदि विज्ञानमात्रमेव तर्हि स्वप्नजागरयोविशिष्टता न स्यादित्याहयदि तन्मात्रमिति । व्याचष्टे-स्वप्न इति । यदि विज्ञानमात्रमेव तर्हि स्वप्नजागरणयोर्भेदो न स्यात्, स्वप्नो हि जागरणादिरूपोऽखमो न भवतीति प्रसिद्धम् , यतः स्वप्नेऽसदेव सिंहदर्शनं भयहेतुर्भवति तस्माजागृतस्य पुरुषस्य खप्नसिंहदर्शनासत्त्वे भयमपगच्छति, तथा जाग्रत्सिंहदर्शन सत्यमेव मृत्युनिमित्तं भवति जाग्रत्पुत्रदर्शनमपि सदेव प्रीतिहेतुर्भवति, जाग्रदपेक्षयाऽविशुद्धे खप्ने
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org