________________
दोषदिक्प्रदर्शनम्] न्यायागमानुसारिणीव्याख्यासमेतम्
११५७ अनन्तरोक्तसस्वभावत्वे विज्ञानवचसोरिति स्मारयत्येवंशब्दः, कस्मात् सद्भटादीति चेत् उच्यते-व्यवहार वृत्तत्वात् तद्वाक्यवत्-असिद्ध्ययुक्त्यनुत्पादसामग्रीदर्शनादर्शनपक्षपरायत्तोभयविरोधादिविकल्पहेतुखपुष्पादिदृष्टान्तबुद्धिवचसा सस्वभावत्ववद्धटादीनां व्यवहारवृत्तानां सस्वभावत्वं स्यादिति, [उ]भय-विरोधादिविकल्पता:], तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः-तस्य तस्य वचनस्य श्रोत्रेन्द्रियप्रत्यक्षस्य पक्षाद्यवयवविभोगस्य घटादिप्रतिपाद्यार्थसहितस्य तद्विज्ञानस्य च तव मम च स्वसंवेद्यस्य शून्यत्वे प्रत्यक्षादि- 5 विरोधाः सस्वभावमनिच्छतः, इच्छतोऽभ्युपगमस्ववचनविरोधावुक्तावेव, आदिग्रहणादनुमानागमविरोधौ, अर्हद्धकपिलकणादब्रह्मादिप्रोक्तैरागमैः सह विरोधित्वात् , लोकविरोधस्तु प्रसौवोपात्तस्त्वया घटादयो बाह्यार्था ज्ञानवचने च सन्तीति प्रपन्नं सर्वलोकमवमत्य शून्याः सर्वभावा इति प्रवृत्तत्वात् , एवं ज्ञानवचनशून्याशून्यत्वयोरभ्युपगमविरोधादिसर्वदोषाः सामान्यत उक्ताः । दोषदिक्प्रदर्शनार्थं तयैव दिशाऽऽह
10 सर्वशून्यवादगतपक्षधर्माद्यभावाच्च न साध्यः, विज्ञानाभ्युपगमाच्च पुरुष एवेदं सर्व चतुरवस्थामात्रभेदमभिन्नमस्तीत्यभ्युपगतं भवति सतो विज्ञानलक्षणत्वात् तस्य च सर्वत्वात् सर्वमेव चेद्विज्ञानमात्रं स च पुरुष एव ज्ञः, तन्मयञ्चेदमिति, ननु विज्ञानशब्देनोत्प्रेक्षामात्रमुच्यते, नार्थवत्त्वं विज्ञानस्य, स्वप्नमुदाहरद्भिः कल्पनामात्रत्वस्य प्रतिपादितत्वादिति, एतदप्ययुक्तम् , जागरितव्यतिरिक्तस्वनोदाहरणादेव विज्ञानमात्रत्वव्यावर्त्तनात् ।
(.सर्वेति) सर्वशून्यवादगतपक्षधर्माद्यभावाच्च-न साध्योऽसिद्ध्यादिपक्षासिद्धौ परायत्तत्वादिहेतवो न सिद्ध्यन्त्येवानयोक्तदिशेति स्फुटत्वान्नात्राभिनिविशामहे, अपि च विज्ञानाभ्युपगमादित्यादि यावत् माह-अनन्तरेति । घटादीनां सत्त्वे साध्ये हेतुमाह-व्यवहारवृत्तत्वादिति, व्यवहारप्रवृत्तत्वादित्यर्थः। तद्वाक्यवदिति दृष्टान्तघटकतच्छब्दपरामृश्यमाह-असिद्धीति, असिङ्ख्ययुक्त्यनुत्पादसामग्रीदर्शनादर्शनानि निःखभावानि परायत्तत्वादुभयविरोधादिविकल्पात् खपुष्पादिवदिति योऽनुमानविकल्पो यच्च तथाविधं वचनं तदुभयोयेथा सखभावत्वं तथा व्यवहारप्रवृत्तानां घट-20 पटादीनामपि सस्वभावत्वं स्यादिति भावः। प्रोक्तहेतुबलेन पक्षहेतुदृष्टान्तादीनामुक्तानां शून्यत्वेऽभ्युपगम्यमाने च प्रत्यक्षादिविरोधाः स्युः, तत्तद्वचनानां पक्षाद्यवयवप्रतिपादकानां श्रोत्रेन्द्रियप्रत्यक्षग्राह्यत्वादित्याह-उभयविरोधादीति । प्रत्यक्षादिविरोधमादर्शयतितस्य तस्येति, सार्थकपक्षहेत्वादिवचनस्य तज्जन्यविज्ञानस्योभाभ्यां वसंवेद्यस्य शून्यत्वेऽभ्युपगम्यमाने विरोध इति भावः । सखभावत्वेष्टौ तु सर्व निःस्वभावमित्यभ्युपगमखवचनादिविरोधदोष इत्याह-इच्छत इति । एवमनुमानागमविरोधावपि स्त इत्याहआदिग्रहणादिति, प्रत्यक्षादीत्यत्रादिग्रहणादित्यर्थः । आगमविरोधमादर्शयति-अर्हदिति । लोकविरोधमाह-लोकेति, सर्वो हि 38 लोको घटादिबाह्य वस्तु विज्ञानं वचनं च प्रतिपद्यते, तमिमं लोकमवमत्य त्वया प्रसदैव निःस्वभावो भावो गृहीतः सर्वभावानां शून्यत्वप्रतिपादने प्रवृत्तत्वादित्यर्थः। तदेवं विज्ञानस्य वचनस्य शून्यत्वे-निःस्वभावत्वे सर्ववस्तुनः खाभाव्यव्यावर्त्तनदोषः, अशन्यत्वे सस्वभावत्वे सर्वनिःस्वभावताभ्युपगमविरोधः खवचनविरोधोऽनुमानागमलोकविरोधश्च दोष इति सामान्यत उक्तमित्याह-एवं मानवचनेति । अथ दोषा विशेषेणोच्यन्ते-सर्वशन्येति।सर्वशून्यवादे पक्षधर्मादेरभावात् साध्यसिद्धिने भवति, असिद्ध्ययुक्त्यनुत्पादसामग्रीदर्शनादर्शनानि पक्षतयाऽभिमतान्यसिद्धानि सर्वशून्यत्वादेव, परायत्तत्वादिहेतवोऽपि न सिध्यन्ति, एवमेव दृष्टान्तादीनामपि so असिद्धता स्फुटवेत्याह-सर्वेति। विज्ञानमेवेदं सर्वमित्यभ्युपगच्छतस्तव परमतप्रवेशापत्तिरित्याह-अपि चेति, बाह्यवस्तुनोऽभाव
१ सि. तत्त्वन्यत्वे । २ सि.क्ष. छा. डे. विभाविभागस्य । ३ सि.क्ष. छा. डे. °युक्तं चैव भादि०। ४ सि.क्ष. छा.डे. सिद्ध्यन्ते वा। ५ सि.क्ष. छा. डे. निर्विशामहो। ६ सि.क्ष. छा. डे. यासतो।
15
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org