________________
११५६
10
[ द्वादशनयस्यान्तरम्
M
निःस्वभावमित्युक्तत्वात्, विज्ञानतत्त्वाच्चातिप्रसक्तविज्ञानवचसी निःस्वभावे इत्येतद्वरमनिष्टञ्चैतद्विज्ञा नवचसोरप्रत्यायनप्रसङ्गात् यदा हि विज्ञानमसत् तदा निःस्वभावमिदं सर्वमित्यनिश्चितं स्वयमनिश्चित्यास्मान् प्रतिपि - पादयिषतस्ते पक्षादिसाधनवचनासत्त्वञ्च, तस्मात् परप्रत्यायनमयुक्तम्, विज्ञानवच सोर्निश्चितपक्षादित्वेनाभूतत्वादुन्मत्तप्रलापविज्ञानवदिति निःस्वभावविकल्पो ज्ञानवचसो: सर्ववस्तुनैः स्वाभाव्यं व्यावर्त्तयतीति दोषः, 5 अथ मा भूदित्यादि, एतदोषभयात् सस्वभावे विज्ञानवचसी त्वदीये एव [म] भ्युपगच्छसि सर्वं निःस्वभावमित्यस्याभ्युपगमस्य विरोध[ : ] केन ? ज्ञानवचनस्वभावत्वाभ्युपगमेनेत्यभ्युपगमविरोधः प्रतिज्ञादोषः, न केवलमभ्युपगमविरोध एव, ज्ञानविषर्यवचसोऽपि पक्षादिलक्षणस्यै ते [न] स्वभाव
wwwwww
प्रागुक्तं तन्न तर्हि सर्वं निःस्वभावम् इदानीं सस्वभावत्वाभ्युपगमादिति, स्ववचनविरोधश्च दोषः, इति शब्दस्य हेत्वर्थत्वात् ।
इत्थं साधनदूषणप्रतिपाद्यप्रतिपादनव्यवहारमार्गानुपातिनः सतस्तेऽनुमानलोकविरोधा[ व ] पीत्यत
आह
न्यायागमानुसारिणीव्याख्यासमेतम्
एवञ्च घटाद्यपि सत्, व्यवहारवृत्तत्वात्, तद्वाक्यवत्, उभयविरोधादिविकल्पतस्तच्छ्रन्यत्वे तु प्रत्यक्षादिविरोधाः, लोकविरोधस्तु सर्वलोकमवमत्य प्रवृत्तत्वात् ।
( एवञ्चेति ) एवञ्च घटाद्यपि सदिति प्रतिज्ञायते त्वां प्रत्यसिद्धत्वात् सर्वलोकप्रसिद्धमपि,
www
15 च लाभात् तयोरपि विज्ञानवचसोः सर्वान्तर्गतत्वम्, सर्वं निःस्वभावमित्यविशेष्य व्यावर्त्तनम विधायोक्तत्वादिति भावः । तयोः सर्वान्तःपातित्वादेव विज्ञानतत्त्वव्यतिरिक्ते विज्ञानवचसी निःस्वभावे न्याय्ये, तयोश्च निःस्वाभाव्येऽर्थप्रत्यायकत्वं न स्यादित्यनिष्टञ्च भवेदि - त्याह-विज्ञानतत्त्वाच्चेति, त्वदभ्युपगतविज्ञानतत्त्वात्तयोः रूपादिवदतिप्रसक्तत्वादित्यर्थः । अप्रत्यायनमेव तावदाह-यदा हीति सर्वनिःस्वभावताविषयविज्ञानस्य सर्वान्तर्गतत्वेन निःस्वभावत्वादसत्त्वेन त्वया सर्वं निःस्वभावमिति न निश्चितम् स्वयमनिश्चिन् भवान् कथमस्मान् प्रतिपिपादयिषति, तथापि खपक्षप्रतिपादनार्थं सर्वमिदं निःखभावमिति यदि ब्रूयात्, तदपि वचनं सर्वान्तः20 पातित्वेन निःखभावतयाऽसत्त्वादप्रत्यायकमेवेति परप्रत्यायनमसम्भवीति भावः । हेतुमाह - विज्ञानवचसोरिति, एतयोर्निःस्वभावत्वेन निश्चितपक्षादिविषयत्वेनाभूतत्वम्, उन्मत्तस्य वचनविज्ञानयोरिवेति भावः । अप्रत्यायकत्वे को दोष इत्यत्राह - निःस्वभावविकल्प इति, निःस्वभावमिदं सर्वमिति विज्ञानवचसोर्निःस्वभावता सर्वेषां वस्तूनां घटपटादिरूपादीनां निःस्वभावतां दूरीकरोतीत्येष दोष इति भावः । प्रोक्तदोषपरिहाराय विज्ञानवचनयोः सस्वभावत्वाभ्युपगमेऽनेनैवाभ्युपगमेन सर्व निःस्वभावमित्यभ्युपगमस्य विरोधः, सर्वस्य निःस्वभावत्वाभावात् तव प्रतिज्ञायां विरोधः प्राप्त इत्याह- एतद्दोषभयादिति। अभ्युपगममात्रमत्र 25 न दोषोऽपि तु स्ववचनादिविरोधोऽपीत्याह-न केवलमिति, सर्वं निःखभावमिति सर्वनिःस्वभावताविषयक बोधजनकप्रतिज्ञावाक्यस्य पक्षादिलक्षणस्य सस्वभावत्वे सर्वं निःस्वभावमिति यत् प्राग्व्यावर्णितं तन्न स्यात्, इदानीं सस्वभावत्वाभ्युपगमात् हेतोरस्मात् स्ववचनविरोध इति भावः । एवं सर्वनिःस्वभावतासाधनाय तद्व्यतिरिक्तताबाधनाय च साधनदूषणवाच्यवाचकादिव्यवहारमनुवर्त्तमानस्य तवानुमानलोकविरोधावपि स्त इत्याह-एवश्चेति, विज्ञानवचसोः प्रागुक्तयोः सस्वभावत्वाभ्युपगमे चेत्यर्थः । ननु घटादीनां सत्त्वं लोकप्रसिद्धं तत् किमिति प्रतिज्ञायते सिद्धसाधनतापत्तेरित्याशङ्कायामाह त्वां प्रतीति । एवंशब्दाभिधेय
१ सि.क्ष. छा. डे. इत्येतद्वरोनिष्टञ्चतद्वि० । २ सि. क्ष. डे. छा. विषयोवचसोऽपि । ३ सि. क्ष. डे. छा. 'स्याते सस्व० । ४ सि. क्ष. छा. डे. लोकेविरोधापीत्य ताह ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org