Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 302
________________ सामग्रीदर्शनहेतुः] द्वादशारनयचक्रम् १९७९ इत्यस्मिन् पूर्वपक्षे स किं नित्योऽनित्य इत्यादि पर्यनुयोगः, विशेषस्त्वत्रान्तप्रत्यक्षप्रमाणीकरणाच्चारम्भक्रियमाणप्रत्यक्षद्वयपरित्यागः, तयोश्च दृष्टव्यभिचारमितरत्रैकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यत इति पुनरपि तद्धानिरिति वाच्य इत्यतिदेशफलम् , एवमनुत्पादात् सर्वभेदैक्यसिद्धिः। किञ्च सामग्रीदर्शनादपि सर्वास्तित्वसिद्धिः, तथा च तदेवैकं सर्वात्मकं स्वं परमुभयञ्च तमर्थ सम्पादयति, सा च सामग्री दृश्यते प्रत्यक्षतः, सामग्री अशेषभावानां भावान्तरं प्रति वृत्तिः यथा पृथिव्यादिसामग्री तं तमर्थ प्रति, वस्तुनोऽनेकशक्त्यात्मकस्यैकस्य व्यक्ताव्यक्तशक्त्यपेक्षत्वात् सर्वसर्वात्मकत्वात् , सामग्र्यामेवंदर्शनमेव संवादेन रूपादिपृथिव्यादिपरस्परसामग्रीघटपटादीति दृश्यते संज्ञायते प्रवर्तते चेतनं जगदिति ।। (सामग्रीति) सामग्रीदर्शनादपि-पुरुषनियतिकालस्वभावभावाद्यन्यतमकारणात्मकस्वावस्थादि- 10 भेदसामयामेवैवंदर्शनादपि हेतोः सर्वास्तित्वसिद्धिः, तथा च-तेन प्रकारेणोत्पत्तिविनाशाभावादिप्रोक्तकारणतया तदेवैकं सर्वात्मकं स्वं परमुभर्यञ्च तमर्थं सम्पादयति सामग्री, स्वावयवात्मकत्वात्तस्याः, सा च सामग्री दृश्यते प्रत्यक्षतः, किं लक्षणा सामग्रीति चेदुच्यते-सामग्यशेष[भावानां]भावान्तरं प्रति वृत्तिःएकैकस्मिन्नभिन्नैकात्मकवस्तुभेदमात्रे भावे भेदान्तरस्यैकैकस्य वृत्तिर्या सा सामग्रीत्युच्यते, तद्दर्शयतियथा पृथिव्यादिसामग्र्यादि-पृथिव्युदकवह्निपवनगगनात्मादिसर्वसमूहात्मकः कार्पासः तद्रूपादयः, तत्स-15 मूहोऽणुः अणुसमूहा[:]पक्ष्माणि तत् ]समूहास्तन्तवः तत्समूहः पट इति तं तमर्थं प्रति सामग्री पृथिव्युदिशति-अथोच्यतेति । विशेषमत्र पूर्वपक्षे दर्शयति-विशेषस्त्वत्रेति, आदिक्रियाप्रत्यक्षत्यागः अन्तमात्रप्रत्यक्षोक्तः, तस्मात्तयोः प्रत्यक्षयोरप्रमाणता ततो व्यभिचारः प्रत्यक्षदृश्यतायाः, तस्याश्चाप्रामाण्येन सहदर्शनादन्तप्रत्यक्षमपि न प्रमाणं स्यात्, ततश्च तत्प्रत्यक्षस्यापि हानिः स्यादिति विशेषो वाच्य इत्यतिदिश्यमानवाच्यशब्देन गम्यत इति भावः । अनुत्पादहेतुं निगमयतिएवमिति । अथ सामग्रीदर्शनात् सर्वसिद्धिमाह-सामग्रीदर्शनादपीति । अवस्थामेदरूपा या सामग्री तस्या एव भावान्त- 20 रसम्पादकत्वदर्शनादवस्थामेदानाचावस्थावत्पुरुषाद्यात्मकत्वात् , सर्वास्तित्वसिद्धिरित्याह-पुरुषेति, अवस्थाभेदाः पुरुषाद्यात्मकाः, पुरुषादिकारणमात्रस्य विजुभितत्वादवस्थामेदानाम् , ते चावस्थाभेदाः तथा तथा विपरिवर्तन्ते पुरुषादेरवयवत्वात् , तस्मादवस्थामेदसामग्र्या एव तत्तदर्थसम्पादकतया दर्शनात् पुरुषादौ सर्वात्मकत्वं सिद्ध्यति, पुरुषादयो हि व्यक्तशक्तिमव्यक्तशक्तिं वापेक्ष्य सर्वसर्वात्मका इति भावः । उत्पादविनाशाभ्युपगमे सर्वशून्यताप्रसङ्गादनुत्पन्ना विनष्टनिर्भदैकवरूपकारणमात्रत्वात् पुरुषादेयंकाव्यक्तात्मकतच्छक्तिरूपा सामग्री पुरुषादौ खं परमुभयञ्च तं तमर्थ सम्पादयतीत्याह-तथा चेति, सामग्री तदेवेकं सर्वात्मकं 25 खं परमुभयञ्च तमर्थ सम्पादयतीति प्रेरकप्रयोगः, सम्पादयति-अधिगमयतीत्यर्थः । हेतुमाह-स्वावयवेति, शक्तिरूपा हि सामग्री पुरुषादेरवयवरूपैव, व्यक्ताव्यक्तशक्तिर्हि पुरुषादिः, सा च सामग्री प्रत्यक्षतो दृश्यत इति भावः । सामग्री लक्षयति-साम ग्रीति, कार्पासादिभावान्तरं प्रति भावानामशेषाणां पृथ्व्युदकज्वलनपवनगगनात्मादीनां वर्त्तनं प्रवर्तनमेव सामग्री, तदपि वर्तनं कार्पासादिभावान्तरं नातिरिक्तावयविरूपं किन्तु समूहात्मकमेवेति भावः । न च सामग्रीभावान्तरयोरैक्यं समुदायात्मकत्वात्तयोरिति वाच्यम् , सामग्र्याः समुदायानात्मकत्वादित्याशयेनाह-एकैकस्मिन्निति, कार्पासादिरूपे निर्भिन्नैकस्वरूपवस्त्व- 30 वस्थात्मके कारणकूटघटकस्यैकैकस्य भावान्तरस्य पृथिव्यादेयद्वर्त्तनं सा सामग्रीत्यर्थः, तस्मान्नैक्यमिति भावः । सामग्रीमेव दर्शयति-यथा पृथिव्यादीति, पृथिव्युदकज्वलनानिलगगनात्मरूपा सामग्री तत्समूहरूपस्य कार्यासस्य, पृथिव्यादेरेव रूपरसगन्धा १ सि. न. छा, डे. सामप्रयायैवैवं । २ सि. क्ष. छा. डे. मुभयञ्चेत्यतसमर्थे । wwmanam Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364