Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 296
________________ प्रत्यक्षविरोधपरिहारः] द्वादशारनयचक्रम् ११७३ रत्वादिति यस्त्वयोक्तः, आत्मलाभेऽभिन्नप्रकारत्वादिति स वक्तव्यः, एकवदिति दृष्टान्तः, यथैको घटः पटो वा भवन्नूर्झदिनवादिदेशकालप्रकारेण भिन्न इत्यभिमतोऽप्यभिन्न एव, अस्तित्वैकत्वघटत्वाभेदात्, एवं घटादिस्तथा सर्वभावा अभिन्नप्रकारात्मलाभात् स्युः, मा मंस्था असिद्धो हेतुरित्यत आह-न हि ताभ्यामस्तित्वैकत्वाभ्यां घटस्यान्यत्वमस्ति, स त्वेक एव घटो यस्मात् घटा[त्] सर्वभेदभाजः तयोरस्तित्वैकत्वयोरन्यत्वं, न हीति वर्त्तते,-सर्वान् पटकटरथादीन भेदान् स्वगतानूोदिनवादीन् भजमाना[त्]घटादस्ति- 5 त्वैकत्वयोरनानात्वम् , ततः किं ? त[त]स्तदनन्यत्वे-घटास्तित्वैकत्वानन्यत्वेऽभिहितन्यायेन सिद्धे सर्वभावा घटादयोऽपि ततोऽनन्ये, तदस्तित्वैकत्वाभ्यामनन्तरत्वात् , घटवदित्युक्तत्वात् , अत आह-तेषामपि घटात्मकत्वं पटादीनाम् ,तदनर्थान्तरत्वात् घटस्वात्मवदिति भावितार्थोऽयमतीतार्थोपसंहारः। अत्राह नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यत इति, ननु तत् सर्वसिद्धान्तेष्वपि, प्रत्यक्ष-10 सिद्धमन्यथा मत्वा मोक्षायाऽऽयत्यत इति न वा पुनरन्या विमतिः कार्या। (नन्विति) नन्वेकत्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यत इति-इत्थं सर्वमेकं सर्वात्मकमिति ब्रुवतस्ते प्रत्यक्षदृष्टं भेदेनाशनायितभुक्त्यनन्तरा तृप्तिर्बुभुक्षाविरोधिनी तदनन्तरभावि च सुखं दुःखविरोधीत्येवमादि विरुध्यते, न हि प्रत्यक्षविरुद्ध प्रतिज्ञातुं योग्यमित्यत्र ब्रूमः-ननु तत्सर्वसिद्धान्तेष्वपि, प्रत्यक्षसिद्धमन्यथा मत्वा मोक्षायाऽऽयत्यत इति-ननु विषयसुखानामतथात्वात् दुःखप्रतीकारमात्रत्वात् 15 दुःखसम्मिश्रत्वात् दुःखभूयिष्ठत्वात् नात्यन्तिकत्वाच्च दुःखत्वमेव, तृप्तेरपि गृङ्ख्यभिलाषजननहेतुत्वादतृप्तित्वमेवेति मत्वा निराबाधमपराधीनमात्यन्तिकमैकान्तिकं विषयसुखविपरीतं कथं नाम मुक्तिसुखं निर्द्वन्द्वं प्राप्नुयामेति शास्त्रप्रामाण्यात् सर्वसिद्धान्तप्रसिद्धप्रवृत्तित्वात् , न वा पुनरन्या विमतिः कार्येति संयुक्तेरपि सर्वभावाः सन्तीति ग्राह्याः । व्यावर्णयति-यथैक इति। ऊर्द्धमध्यादिभेदभिन्नाभिमतोऽप्येकः-घटः पटः कटो रथोऽस्तित्वैकत्वघटत्वैरभिन्नप्रकारत्वादभिन्न 20 एव, तथा सर्वे घटपटादयो भावा अभिन्ना एवेति भावः । साधितमेव हि यत्रैकत्वमस्तित्वं घटत्वं वा तत्रास्तित्वैकत्वयोनिष्कलेनैव खतत्त्वेन भवितव्यमनर्थान्तरत्वादिति, तस्मात् सर्वभावानां सिद्धान्येवाभिन्नानि प्रकाराण्यस्तित्वैकत्वघटत्वानीत्याह-मा मंस्था इति। न हीति, अस्तित्वैकत्वाभ्यां घटस्य सर्वभेदभाजो घटाद्वाऽस्तित्वैकत्वयोरर्थान्तरता नहि वर्तत इति भावः । एवञ्च घटादस्तित्वैकत्वयोरनन्यत्वे सिद्ध सर्वभावेभ्योऽपि तयोरनन्यत्वं, तदस्तित्वैकत्वाभ्यामनन्तरत्वात् घटखात्मवदित्युक्तमेवेत्याह-तदनन्यत्व इति, सर्वसर्वात्मकत्वसाधनोपसंहारग्रन्थोऽयमिति भावः। नन्वेवं सर्वसर्वात्मकत्वप्रतिज्ञेयं तृप्तिसुखादेर्बुभुक्षादुःखादिविरोधि-25 त्वेन प्रकाशकेन प्रत्यक्षेण विरुद्धेत्याशंक्य समाधत्ते-नन्वेकत्व इति। व्याचष्टे-इत्थमिति, एकस्य सर्वात्मकत्वमभिदधानस्य भवतो बुभुक्षाविषयीभूतपदार्थभुक्त्यनन्तरं या तृप्तिः सा बुभुक्षाविरोधिनी तृप्यनन्तरं यत्सुखं तद्दुःखविरोधीति पार्थक्येन प्रत्यक्षतो दृष्टं विरुध्यते, न हि प्रत्यक्षविरुद्ध वस्तु प्रतिज्ञातुं योग्यमित्यर्थः । समाधत्ते-नन्विति, ननु तत् प्रत्यक्षविरुद्धार्थप्रतिज्ञानं सर्वेष्वपि सिद्धान्तेषु दृश्यत एव, तथाप्रतिज्ञानञ्च मोक्षमार्गप्रवृत्त्यर्थमिति भावः । प्रत्यक्षसिद्धस्यान्यथामननमेवादर्शयति-ननु विषय- . सुखानामिति । प्रत्यक्षसिद्धमपि विषयसुखमसुखं मन्यते, न हि तद्वास्तविकं सुखं, विरज्याभावप्रसङ्गात् , शास्त्रवैयर्थ्यप्रसङ्गाच, 30 किन्तु तद्विषयाणामलामे यदुःखं भावि तत्प्रतीकारमात्रमेव, दुःखसमानाधिकरणमपि, अत एव तदुःखभूयिष्ठं खसमानाधिकरणदुःखप्रागभावसमानकालीनञ्चेति दुःखमेव, जातायामपि हि तृप्तौ महती लालसा जायते, तन्नाशात् , ततोऽधिकतमतृप्तिप्रेप्साया _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364