Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 294
________________ सर्व रूपोपलम्भोक्तिः ] ११७१ (विपरीतेति ) विपरीतस्वभावबहुत्वाद्याशङ्कानवतार एव, अन्यत्वानभ्युपगमात्, सर्वशक्त्येकवस्तु तदात्मभेदेकीभावेन संसिद्धिसद्भावाभ्युपगमादप्रतिज्ञातस्यारोपणं तत्स्वमतिविलसितमात्रमेव ते, तस्मात्तद्विकल्पगतदोषा नास्मान् बाधन्त इति, अथोच्यते - नन्वन्यथा तावदित्यादि, इदं तावन्नास्तित्वं प्रत्यक्षादिप्रमाणसिद्धं घटाद्यन्यदन्येन प्रकारेण, उष्ट्राद्यप्यन्यदन्येन, घटोऽपि पटात्, उष्ट्रोऽपि गर्दभादन्यः अन्यथा प्रत्यक्षादिभिरुपलभ्यते नास्तीति, तद्यथा - घटः पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि, तद्भावयति - 5 घटो हीत्यादि, हिशब्दो यस्मादर्थे यस्माद्धटो घट एवोपलभ्यते न त्वसौ पटोऽपीत्युपलभ्यते, तस्मात् प्रत्यक्षत एव घट एव पटत्वे (न) नास्ति, अथ पुनस्त्वन्मतेन यदि तु सामान्ये घटस्य तस्यास्तित्वैकत्वे स्यातां ततस्त्वदुक्तन्यायेन सर्वरूप उपलभ्येत, घटः पटकटरथादिरूपो न तूपलभ्यते, तस्मान्नास्ति पटादित्वेनेति पररूपेणाभावः, तथास्वरूपेणाप्यभावः पररूपासत्त्वादिति प्राप्तः खपुष्पवदिति । द्वादशारनयचक्रम् अत्र ब्रूमः www. को वा ब्रवीति नोपलभ्यत इति, ननु भोः त्वं नाम सर्वात्मकमुपलभ्यमानमप्यपलप्य शून्यं कर्तुमिच्छसि न पुनरहमुपलभ्यमानमेव सर्वरूपं सन्तं कर्तुं शक्नोमीत्यहो साहसम्, घो हि मृत् मृन्मयत्वात् मृदः पृथिवीत्वं तदंशत्वात् पृथिव्या द्रव्यत्वं द्रुविकारत्वात्, द्रव्यस्य भव्यत्वात् भव्यस्य भवितृत्वात् भवितुः सर्वत्वात् सदस्ति भाव इति घटपटादिसर्व परस्परस्वरूपं हस्तवदिति न किञ्चिदेतत्, अन्यथा तावन्नास्त्येव घट इति । को वा ब्रवीतीत्यादि, सर्वरूप उपलभ्यत एव, नोपलभ्यत इति त्वन्मुखादेतच्छ्रयते, न[नु]भो इत्यादि, त्वं नाम सर्वात्मकमुपलभ्यमानमप्यपलप्य शून्यं कर्त्तुमिच्छसि न पुनरहमुपलभ्यमानमेव सर्वरूपं सन्तं कर्त्तुं शक्नोमीत्यहो ! साहसम् - उपलब्धिः सर्वलोक प्रत्यक्षा त्वयाऽपलप्यमाना पूर्वोक्तसर्वप्रमाणविरोधितां ते वचसः सम्पादयति, तस्मादयुक्तो भवतोऽभिप्राय इति ग्रन्थो गतार्थत्वान्न वित्रियते, तद्वस्तु घटाख्यं भवत् पत्वादिदोषारोपणं केत्रलं निजमतिविजृम्भगमेत्र प्रकाशयति नास्माकं काचन ततो बाधा भवतीति व्याचष्टे - सर्वेति । सर्व- 20 सर्वात्मकत्वे दोषमाशङ्कते - नन्वन्यथेति, घटादयो हि प्रत्यक्षादिभिरन्यप्रकारेण नास्तीत्युपलभ्यन्ते यथा घटादि तदन्यप्रकारेणान्यत्, उष्ट्राद्यपि तदन्य प्रकारेणान्यत्, घटः पटादन्यः, उष्ट्रो गर्दभादन्य इति प्रत्यक्षादिभिरुपलभ्यते तेन तस्यैकत्वं सामान्यं नास्तीति भावः । तस्यैवाऽऽशयमाह - तद्यथेति, घटः पटत्वेन नास्ति पटोऽपि घटत्वेन नास्तीति । एवं च घटस्य घटरूपयैवोपलम्भात् पटादिरूपतया चानुपलम्भात् प्रत्यक्षतो घटः पटत्वेन नास्ति, न तु पटादिसर्व भावात्मकतयास्तीति सामान्य मस्तित्वं नेति भावयतीत्याह-तद्भावयतीति, प्रत्यक्षादिभिर्वस्तुनोऽन्य प्रकारेण नास्तित्वोपलम्भं भावयतीत्यर्थः । यदि वस्तु तव मतेन सर्व सर्वात्मकं 25 अस्तित्वैकत्वयोः सामान्ययोर्घटेऽभ्युपगम्य न्यायस्योक्तत्वात्, तर्हि सर्वरूपो घट उपलभ्येत, न तु पटकटरथादिरूपतया घटस्यो - पलम्भोऽस्ति, तस्मान्नास्ति घटः पटत्वादिनेति पररूपेण तस्याभावः प्राप्तः, यश्च पररूपेण नास्ति स स्वरूपेणापि नास्त्येव खपुष्प - वदिति शून्यमेत्र वस्त्वित्याह-अथ पुनरिति । पररूपेणास्तित्वोपलम्भाभावं निराकुर्वन् समाधत्ते को वा ब्रवीतीति । सर्वात्मकत्वं पदार्थस्य सर्वैरुपलभ्यत एव नोपलभ्यत इति न कोऽपि वक्ति, अद्यैव त्वन्मुखादेव तथा मया श्रूयत इत्याह- सर्वरूप इति । नन्वहमुपलभ्यमानं सर्वरूपं वस्तु प्रमाणीकर्तुमुपपत्तिभिर्न शक्नोमीति मत्वैव त्वयोपलभ्यं तन्निह्वय शून्यतां प्रसाधयितु- 30 मिष्यते तदेतत्तव साहसमेवेत्याह-त्वं नामेति । व्याचष्टे - उपलब्धिरिति, सर्वरूपोपलब्धिर्नि खिलजनाध्यक्षा, सैव तन्निरा - करिष्णोस्त्वदीयवचनस्य पूर्वाभिहितसकलप्रमाणविरोधित्वं प्रकटयतीति छन्दस्तेऽयुक्त इति भावः । सर्वरूपोपलम्भप्रसाधनाय घटादिवस्तुनः सर्वरूपतां भावयती आह-तद्वस्त्विति । घट इति, घटो मृत् मृन्मयत्वात् मृद्विकारत्वान्मृत्प्राचुर्याद्वेत्यर्थः एतेन मृत्त्वं Jain Education International 2010_04 For Private & Personal Use Only 10 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364