Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 293
________________ ११७० न्यायागमानुसारिणीव्याख्यासमेतम् [ द्वादशनयस्यान्तरम् भिन्न एक एव भावो भिन्न इवाभाति, तथा चेत्यादि, एवमुक्तन्यायेन सर्वात्मकमेव अस्ति नित्यं सर्वगतं सर्वभेदस्वभावञ्च वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे, अतोऽन्यथा प्रत्यक्षादिविरोधाः - घटस्य मृत्कपालकार्पासतन्तु पत्रीह्युदकादिपरिवर्त्तस्य प्रत्यक्षदर्शनात् प्रत्यक्षविरोधः, तद्भावमेव सर्वात्मकमनिच्छतः तादृग्विधार्थानुमेयत्वादनुमानविरोधः, लोकागमाभ्युपगमस्ववचनविरोधाः, स्वपरलोकप्रसिद्धसाधनदूषणसंव्यव5 हाराभ्युपगमात्, अस्त्येकत्वाव्यतिरेकाच्च तेषाम् एते चेन्नेष्यन्ते - मा भूवन्नेते दोषा इति मदुक्तं यावत्कि - चित्तत्सर्वं घटोऽस्त्येक इति प्रतिपत्तव्यम्, कस्मात् ? घटानर्थान्तरत्वात्, घटस्वात्मवदिति साधनमुपसंहारार्थम् एवं तावत् त्रयाणामेकत्वे नास्ति दोषः । " 10 यः पुनरुक्तमस्त्येकघटानां त्रयाणां नानात्वे विपरीतस्वभावत्वं घटबहुत्वमभावत्वञ्च प्रायुरिति चिकल्पान्तरशङ्कया विचारान्तरं कृतं तत्र ब्रूमः - " विपरीतस्वभावबहुत्वाद्याशङ्कानवतार एवान्यत्वानभ्युपगमात् नन्वन्यथा तावत् प्रत्यक्षादिभिरुपलभ्यते नास्तीति, तद्यथा घटः पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि, घटो हि घट एवोपलभ्यते न त्वसौ पटोsपि, अथ पुनस्त्वन्मतेन सर्वरूप उपलभ्येत, न तूपलभ्यते तस्मान्नास्ति पटादित्वेनेति पररूपेणाभावः, तथा स्वरूपेणाप्यभावः पररूपासत्त्वात् खपुष्पवदिति । 1 अवयवा ऊर्द्धमध्यबुग्रीवादयस्तेषां भेदेऽपि स घट एक एवास्त्येव चेति देशभेदेऽप्यभेदः, नरस्य कालोऽवस्था बाल्य15 कौमारयौवन वार्द्धक्यादयस्तेषां भेदेऽपि स नर एक एवास्ति, एवं सर्वभावा अपि देशकालाकारादिभेदेऽपि एक एव भावः, एकभवनाविशिष्टत्वादेकत्वाविशिष्टत्वादस्तित्वाविशिष्टत्वात् स एव देशकालाद्यपेक्षया भिन्न इव प्रतीयत इत्याह- ऊर्द्धमध्यबुध्रेति । फलितार्थमाह-एवमुक्तन्यायेनेति, ऊर्द्धादिभेदघटवत् बालादिभेदनरवत् सर्वभावा अविशिष्टाः सर्वात्मकाः, एवञ्च सर्वात्मकं वस्तु, भाव एव भावो भवति नाभावस्तस्मादस्तिस्वरूपं नित्यञ्चानर्थान्तरत्वात् सर्वगतं तथातथाभवन स्वभावत्वाच्च सर्वभेदस्वभावञ्च भवतीति भावः । एवमेव तद्वस्तु प्रमाणैरुपलभ्यत इति न त्वदुक्ताः प्रत्यक्षादिविरोधाः, दृश्यते हि घट एवं कपालशकलादिक्रमेण 20 पांश्वादिभूतः कार्पासादिवीजसम्बन्धात् क्रमेण कार्पासतन्तुपटो भवति पश्वादेः परतो त्रीहिबीजसम्बधादङ्कुरादिक्रमेण स एव व्रीहिर्भवति स एवोदकादिर्भवतीति, तस्मात् सर्वसर्वात्मकताऽस्वीकार एव प्रत्यक्षादिविरोधा भवेयुरित्याह- प्रत्यक्षादीति । सर्वा`त्मकं तद्भावमनिच्छतोऽनुमानतस्तथाविधार्थसिद्धेरनुमानविरोधः स्यादित्याह -तद्भावमेवेति, सर्वात्मकं सर्वरूपं भावमनिच्छत इत्यर्थः । लोकादिविरोधमाह - लोकागमेति, लोकविरोधागमविरोधाभ्युपगम विरोधख वचनविरोधाः, एतेषां प्रत्यक्षपूर्वकत्वात् प्रत्यक्षस्य सर्वसर्वात्मकत्वस्योक्तत्वात्तदनभ्युपगमे विरोधा एते स्युरिति भावः । उक्तन्यायस्य व्यापकत्वात् स्वस्य परस्य लोकस्य च 25 प्रसिद्धा ये हेतवः तद्भेदाः प्रतिज्ञादयः हेत्वाभासस्तद्भेदाः असिद्ध्यादयो दृष्टान्तस्तद्भेदा दृष्टान्ताभासाः स्ववचनविरोधादयश्र व्यवहारविषयाः, अभ्युपगम्यन्ते ते यदि तेषां सर्वसर्वात्मकत्वात् ततोऽन्यथाऽभ्युपगमे ते विरोधा भवन्त्येव अस्त्येकं साधनं, अस्त्येका प्रतिज्ञा, अस्त्येकं दूषणमित्येवमेकत्वं तेषां प्रतिज्ञाय यत्रास्तित्वमित्यादिन्यायेन सर्वसर्वात्मकत्वसाधनादित्याह - स्वपरेति । उक्ताः प्रत्यक्षादिविरोधा यदि नेष्यन्ते तर्हि प्रोक्तसाधनदूषणादि सर्वं घटोऽस्त्यकः घटानर्थान्तरत्वात्, घटघटखात्मवदिति सर्व घटो घटे सर्वभावा अभ्युपेया एवेति सर्वसर्वात्मकत्व प्रयोजकास्त्येकघटानां त्रयाणामेकत्वे न कोऽपि दोष इत्याह-एते चेनेष्यन्त 30 इति । एवं त्वयाऽस्त्येकघटानामर्थान्तरत्वे घटस्यास्त्येकत्वाभ्यां विपरीतत्वाद्धात्मस्वरूपादपि विपरीतता स्यात्, एकस्यैव च घटस्य बहुत्वं स्यात्, अस्त्यपि घटो भेदेन, एकोऽपि घटो भेदेन, घटोऽपि घटो भेदेनेति, अस्तित्वं सामान्यं विशेषश्चकत्वं घटादेर्भवति, तत्र यदि ते घटादेरर्थान्तरभूते तदा निःसामान्यत्वान्निर्विशेषत्वाच्च घटादेरसत्त्वमेव स्यात् खपुष्पवदिति ये दोषा उक्तास्ते न भवन्ति अस्त्येकघटाना मनर्थान्तरत्वेनान्यत्वानभ्युपगमादित्याह - विपरीतेति । सर्वपरिणामशत्तयेकं वस्तु, एकपुरुषपितृपुत्रत्वादिवदिति संसिद्ध्या तदात्मभेदैकीभावेन सद्भावलक्षणयाऽभ्युपगमात्, अस्त्येकघटानामर्थान्तरताया अप्रतिज्ञातत्वात् तत्प्रयुक्तविपरीत स्वरू Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364