Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 292
________________ mawwwwwmumnama देशकालमेदेऽप्यभिन्नता] द्वादशारनयचक्रम् ११६९ यत्रास्तित्वमित्यादि द्वितीयमनिष्टापादनसाधनं परेणोक्तं तदपीष्टमेवेति पूर्ववत्परिहार इति मन्यमानस्तथैव साधनं पूर्ववदित्यतिदिशति, तद्यथा-यत्रास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, ततोऽनन्तरत्वात् , यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वमस्तित्वेऽस्तिस्वतत्त्ववत्, एकत्वस्वतत्त्वञ्च सर्वस्मिन्नेकैकस्मिन् एकैकमस्त्येकत्वश्चेत्यतोऽस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः, के च ते ? घटादयः-घटपटादयः, एकश्च घटः तदनन्यदस्तित्वम्-एकघटादनन्यदस्तित्वं तस्मादेकघटाभ्यामनन्य- 5 स्मादस्तित्वादनन्ये सर्वभावाः, अत:-एकस्मादव्यतिरेकात्, सर्वमेव घटपटादि, संश्च घट इति सत्त्वेनैकत्वाव्यतिरेकद्वारेण पटैकत्वास्तित्वाभ्यां सर्वभावघटत्वं यथा एवं घटे सर्वसिद्धिः, अस्तित्वाव्यतिरेकादेकत्वाव्यतिरेकाञ्चेति घटे सर्वसिद्धिरुक्ता, तथा घटत्वमित्यादिना घटेऽस्तित्वैकत्वाव्यतिरेकादनन्तरत्वादिनाऽस्तित्वैकत्वाव्यतिरेकात् घटवत्सर्वः, पटादिरपि घटः तथाऽबादिः-उदकादिरपि घट एवं यावान् भावः, न मे कश्चिद्दोषो मत्पक्षसाधना एव ते हेतवः । 10 तन्निदर्शनं देशभेदमात्रे तावत् ऊर्द्धमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, बालकुमारादिभेदे स एवैको नरः, तथा सर्वभावाः, तथा च सर्वात्मकमेव वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे, अतोऽन्यथा प्रत्यक्षादिविरोधाः, एते चेन्नेष्यन्ते मदुक्तं सर्व घटोऽस्त्येक इति प्रतिपत्तव्यम् , घटानर्थान्तरत्वात् घटस्वात्मवदिति । 15 __ (ऊर्द्धति) ऊर्द्धमध्यबुनदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, कालमात्रभेदेऽपि बालकुमारादिभेदे स एवैको नरः, तथा सर्वभावाः परस्परतो देशकालाकारादिमात्रभेदेऽप्येकभवनाविशिष्टत्वादत्रयाणामेकत्वादेव यत्रास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव-निरवशेषेणैव खतत्त्वेन भवितव्यम् , घटे ह्यस्तित्वं वर्त्तते तत्रैकत्वस्यापि निरवशेषेण परिपूर्णखभावेन सत्त्वं स्यात्, ततोऽनर्थान्तरत्वात् , यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वम् , यथा सति अस्तित्वस्वतत्त्वं ततोऽनन्तरत्वान्निष्कलमेव भवति तथाऽस्तित्ववति घटे एकत्वमपि निष्कलमेव भवितुमर्हति, एकत्वस्वत- 20 त्वच सर्वस्मिन्नेकैकस्मिन् वस्तुन्यस्तित्वमेकत्वं चास्ति, तस्मात् सर्वेषामेव वस्तूनामस्तित्वैकत्ववत्त्वादनन्यत्वमिति द्वितीय साधनं परोदितं पूर्ववदिति पदेनातिदिशति मूलकार इत्याह-द्वितीयमिति। वयमतिदिश्यमानग्रन्थमाह-तद्यथेति । अस्तित्वैकत्वाभ्यामनन्ये सर्वभावा इत्यस्य भावार्थमाह-के च त इति, एकत्वादनन्तरं घटः, ततश्चानान्तरमस्तित्वम् , एकत्वानर्थान्तरघटानर्थान्तरमस्तित्वम् , एकत्वाभिन्नघटाभिन्नास्तित्वस्यानन्यतया पटादिसर्वभावेषु सत्त्वात् तेषु निरवशेषेणैकत्वस्वतत्त्वं भवति, एवञ्च घटपटारेकत्वानर्थान्तरत्वात् सर्वात्मकत्वमिति भावः । अस्तित्वादनान्तरं घटः, तदनन्यदेकत्वम् , अस्तित्वानान्तरघटान- 25 र्थान्तरमेकत्वम्, अस्तित्वाभिन्नघटाभिन्नैकत्वस्य सर्वस्मिन्नेकैकस्मिन्ननन्यतया सत्त्वात् तत्र च निरवशेषेणास्तित्वखतत्त्वमपि भवतीति घटे सर्वभावसिद्धिः, पूर्वसाधनेन घटः सर्वमिति द्वितीयेन सर्वात्मकमिति च सिद्ध्यति, तथा च सर्वसर्वात्मकत्वसिद्धिरित्याहसंश्च घट इति । एवं घटस्य सर्वत्वसर्वभावात्मकत्वसिद्धौ पटादीनामपि तथात्वमादर्शयितुमाह-तथा घटत्वमित्यादिनेति, यत्र घटत्वं तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति, तस्मादेकैको घटादिरबादिः सर्वो भेदेन सर्वात्मकः, एवञ्च घटपटकटरथादीनां 30 जलाग्निवायपृथिव्यादि सर्वमेकैकं घटो भवति-सर्वात्मकं भवतीति सर्वसर्वात्मकत्वं सिद्ध्यतीति भावः। त्वयोदितान्येतानि साधनानि मदनुकूलान्येव न प्रतिकूलानि सर्वसर्वात्मकत्वाद्वस्तुन इत्याशयेनाह-न में कश्चिदिति । अथ सर्वभावानामविशिष्टत्वमेकत्वं यत्साधितं तत्र देशमेदेऽपि कालभेदेऽपि चैकत्वे निदर्शनं क्रमेणादर्शयति-ऊर्ध्वमध्येति । घटस्य देशा Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364