Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 266
________________ आदिरनित्य इति दूषणम्] द्वादशानियचक्रम् अनिवृत्तघटवत् , अनिष्ठितश्चासन् , असत्त्वादक", अकर्तृत्वाच्च खपुष्पवन्न नितिष्ठति, नोभयमुक्तवत् , अन्तेऽपि किं विनष्टो विनश्यति, किं वाऽविनष्टः ? यदि विनष्टो विनश्यतीतीष्यते ततोऽनुत्पाद एव विनष्टत्वात् विनष्टघटवत् , नाविनष्टोऽक्षतघटवदभूतविनश्यद्भावत्वादाकाशवदिति वा, अस्यानुगमं कृत्वा प्रसङ्गः नोभयमुक्तवदिति नोत्पत्तिस्थितिभङ्गाः सिद्ध्यन्ति ततश्च खपुष्पवदभाव एव स्याद्वस्तु । अथ[]नित्यत्व इत्यादि, आदेर्नित्यत्वे दोषं दृष्ट्वा तत्परिहारार्थमादिरनित्य इतीष्यते तत्र त्रयी गतिः-जातस्य, अजातस्य, जाताजातस्य वा, किं जातः ? किमजातः ? इति विकल्पद्वयप्रश्नादेव तत्संयोगस्य तृतीयस्य विकल्पस्य सिद्धेः, यदि जात इत्यादिना द्वयोराद्यविकल्पयोरुत्पादाभावोऽनुत्पन्नत्वादसदिति गतार्थम् , जाताजातश्चेदिति तृतीयविकल्पस्य विरोधादसम्भवः, किञ्चोभयदोष[स]म्बन्धाच-यो जातत्वे दोषो यश्चाजातत्वे ताभ्यां युक्तो जाताजातत्वपक्षोऽतस्त्याज्यः, एवमुत्पादे दोषाः, निष्ठायामपीत्यादि, किं 10 निष्ठितोऽनिष्ठितो निष्ठितानिष्ठितो वेति त एव विकल्पाः, तेष्वपि त्रिषु दोषा उत्पादवदुक्तन्यायेन नीता एव यावन्नोभयमुक्तवदिति, अनिष्ठितोऽसन्नसत्त्वादकर्ता, अकर्तृत्वाच्च खपुष्पवन्न नितिष्ठतीति विशेषो गतार्थः, अन्तेऽपीत्यादि, विनाशेऽपि किं विनष्टो विनश्यति ? अविनष्टः ? विनष्टाविनष्टो वा ? यदि विनष्टो विनश्यतीतीष्यते इत्युपक्रम्य त्रिष्वपि विकल्पेषु यावन्नोभयमुक्तवदिति, नाविनष्टोऽक्षतघटवदित्यस्य व्याख्यानं-अभूतविनश्यद्भावत्वात्-अभूतोऽनुत्पन्नो विनश्यद्भावोऽस्येत्यभूतविनश्यद्भावः, तस्मादभूतविन- 15 श्यद्भावत्वात्, अक्षतघटवदिति, आकाशवदिति वा, अभूतविनश्यद्भावत्वादित्यस्यैव हेतोदृष्टान्तान्तरम् , अस्यानुगमं कृत्वा प्रसङ्गः, कोऽर्थः ? शुद्धपदवाच्यत्वादित्यादि यावद्विज्ञानमात्रार्थतेत्यादि, नोभयमुक्तवत्-न आदेर्नित्यत्व इति, आदिः प्रधानादिकारणमनित्य उत्पत्तिमदिति पक्षे त्रिधा शङ्का स्यात्, किमुत्पन्नस्वभावः किं वाऽनुत्पन्न खभावः किमुतोत्पन्नानुत्पन्नखभाव उत्पद्यत इत्याह-तत्र त्रयीगतिरिति । तदेव स्फुटयति-किं जात इति। तृतीयो विकल्पो मूलेऽनुक्तोऽपि ग्राह्य इत्याह-विकल्पद्वयेति । जातखभावस्याजातखभावस्य वोत्पादासम्भवः निर्वृत्तानिवृत्तघटवत् , अनुत्पन्न- 20 त्वाचासत्त्वमिति दर्शयति-यदि जात इत्यादिनेति । तृतीयपक्षस्तु परस्परविरोधान सम्भवति, सम्भवे वा पक्षद्वयोदितदोषसङ्कम इत्याह-जाताजातश्चेदितीति । उभयदोषसम्बन्धं प्रकाशयति-यो जातत्व इति । एवमुत्पादे दोषमभिधाय निष्ठानपक्षे दोषमाह-निष्ठायामपीत्यादीति । अत्रापि गतित्रयमाशङ्कय प्रागुदितन्यायेनैवासत्त्वमापाद्यमिति दर्शयति-किं निष्ठित मानो न नितिष्ठते न वाऽविद्यमानो नाप्यभयरूपो वा. सर्वत्रानुत्पादादसत्त्वमेव दोष इति भावः । अनिष्ठितत्वे दोष.. विशेषमाह-अनिष्ठित इति । अथ विनाशपक्षेऽपि तथैव विकल्प्य दोषमाह-अन्तेऽपीत्यादीति । अविनष्टपक्षे विशेषमाह-25 नाविनष्ट इति । अभूतेति, यस्य घटस्याकाशस्य वा विनश्यत्ता नोत्पन्ना तथाविधत्वान्नाविनष्टो विनश्यतीति भावः । एवमविनष्टत्वादाकाशस्यासत्त्वसिद्धौ प्राग्वत् नन्वाकाशं शुद्धपदवाच्यत्वानिवृत्त निष्ठित सदेव प्रमाणज्ञानवदित्येवमनुगमं विधाय कुतोऽस्य शुद्धपदतेत्यादि यावद्विज्ञानमात्रार्थतेति ग्रन्थोक्तप्रसङ्गोऽत्रापि कार्य इत्याह-अस्यानुगममिति । विनष्टाविनष्टपक्षे दोषमाहनोभयमिति । व्याचष्टे-नेति । माध्यमिककारिका अत्र भाव्याः 'निरुध्यमानस्योत्पत्तिने भावस्योपपद्यते। यश्चानिरुध्यमानस्तु . स भावो नोपपद्यते ॥ स्थितिनिरुध्यमानस्य न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ निरुध्यते नानिरुद्धं न 30 निरुद्ध निरुध्यते। तथा निरुध्यमानञ्च ॥ उत्पत्तिस्थितिभङ्गानामसिद्धर्नास्ति संस्कृतम् । संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्य द्वा० म० १९ (१४४) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364