Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 282
________________ निःस्वभावताप्रतिक्षेपः] द्वादशारंनयचक्रम् सदेव भयनिमित्तम् , विशुद्धि]स्य भयापगमोऽसत्त्वे स्वप्नसिंहस्य जाग्रत्सिंहदर्शनश्च साक्षान्मृत्युनिमित्तं सत्यमेव प्रीतिहेतुश्च जाग्रत्पुत्रदर्शनं स्वप्ने तदपेक्षाविशुद्धे प्रीत्यपगमात् नैतावित्यवगम्य जाप्रद्विज्ञानव्यतिरिक्तस्वप्नोदाहरणं युज्यते, तत्तु त्वत्पक्षे स्वप्नस्य जागरणाद्विशेषणं न-घटते, कस्मात् ? उभयोरप्यभावतुल्यत्वात् , खपुष्पस्य वन्ध्यासुतादिव, प्रतिपाद्यमत्यपेक्षयेति चेत्-स्यान्मतं साध्यदृष्टान्तयोः जागरणस्वप्नविज्ञानयोराभावतुल्यत्वं तथापि त्वत्प्रसिद्धाभावार्थेन स्वप्नेनैव जागरीभावार्थत्वप्रतिपादनं सुकरं त्वन्मत्यनुवृत्त्या क्रियते, अयं हि प्रतिपाद्यस्य मतेरनुरोधः-उपायः प्रतिपादयितुमभावतुल्यत्वेऽपीत्येतच्च न उभयोरप्यभावतुल्यत्वात्. मतेरप्यमतेर्भेदेन विशेषणं प्रतिपाद्यस्य प्रतिपादकादेरप्रतिपाद्याद्विशेषणमित्याद्यप्यभावतुल्यत्वान्न घ[टत] एव । किश्चान्यत् स्वप्नदृष्टान्तोऽपि खपुष्पव्युदसनेन च स्वप्नसिंहदर्शनवदिति वचनं घटते, स्वप्नदृष्टान्तव्याख्याने न च वृथाभयहर्षादिविशेषणमवृथाभयहर्षादिना विना ननु भवितुमर्हति, विज्ञानविषया चास्तिता 10 ननु स्थितैव, ततश्च सर्व निःस्वभावमित्येतन्मिथ्या, निर्भेदश्च नास्तित्वं नास्त्येव, कुतश्चित्सतो वस्तुनो विशेष्य सदेव शक्यं वक्तुं नास्तीति न शून्यत्वं सर्वस्य, सत्त्वमेव तत्तथा, स्वामविज्ञानसिंहादेरपि नास्तित्वमन्यास्तित्वं साधयति । __(खपुष्पेति) खपुष्पव्युदसनेन च स्वप्नसिंहदर्शनवदिति वचनं घटते-खपुष्पं न भवति सिंह इति, स्वप्नदृष्टान्तव्याख्याने न च वृथाभयहर्षादिविशेषणमवृथाभयहर्षादिना विना[ननु]भवितुमर्हति, 15 नन्वित्यनुज्ञापयति, किश्चान्यत्-विज्ञानविषया चास्तिता ननु स्थितैव-विज्ञानमात्रमिति ब्रुवता विज्ञानास्ति mmmmmmm तु प्रीत्यपगमः जाग्रत्पुत्रदर्शनासत्त्वे इति न भयहेतुप्रीतिहेतू इति भेदं विज्ञायैव जाग्रद्विज्ञाने खप्नोदाहरणं युज्यते कर्तुम् , विज्ञानमात्रपक्षे तूभयोः स्वप्नजागरयोः कल्पनामात्रत्वेनाभावतुल्यत्वाद्यथा खपुष्पस्य वन्ध्यासुताद्विलक्षणता न घटते तथा खप्रस्य जागरणाद्भदो न घटत इति भावः । सिंहदर्शन मिति, स्वप्ने प्रतिभासमानमसत्सिंहदर्शनं भयहेतुस्तस्माज्जागृतस्य तत्सिहदर्शनापगमात् भयापगमः, जाग्रद्दशायाञ्च सदेव सिंहदर्शनं मृत्युहेतुः पुत्रदर्शनं प्रीतिहेतुः जागरणात् स्वप्ने यदा जीवो याति तदा 20 जाग्रत्सिंहपुत्रदर्शनयोरभावेन भयप्रीत्योरपगमो भवतीति विशेषः । शङ्कते-प्रतिपाद्येति, विज्ञानवादी प्रतिपादकः, द्रव्यवादी प्रतिपाद्यः, यद्यपि प्रतिपादकस्य मे मतिर्जाग्रत्स्वप्नदर्शने कल्पनामात्रत्वादभावतुल्ये इति, तथापि प्रतिपाद्यस्य जाग्रदर्शनं सद्विषयं सत् स्वप्नदर्शनमसद्विषयमसदिति मतिः, तन्मतिं प्रसिद्धाभावार्थस्वप्नविषयिणीमनुसृत्य जाग्रति मयाऽभावार्थत्वं प्रतिपाद्यते, वस्तुतस्तयोरभावतुल्यत्वेऽपि प्रतिपाद्यमतेरेव प्रतिपादने उपायत्वादिति भावः। एवमेव व्याचष्टे-स्यान्मतमिति । प्रतिपाद्यमतेः कारणत्वमाह-अयं हीति। प्रतिपाद्यमत्यपेक्षयति त्वया वक्तुं न शक्यते, प्रतिपादकात् प्रतिपाद्यस्यामतेश्च मतेर्भेदाभावात् , प्रतिपाद्यप्रति-25 पादकमत्यमतीनां कल्पनामात्रतयाऽभावतुल्यत्वादित्युत्तरयति-उभयोरपीति,प्रतिपाद्यप्रतिपादकयोमत्यमत्योरपीत्यर्थः । खप्नदृष्टान्तोऽप्यत्यन्तासतो व्युदासे सति युज्यत इत्याह-खपुष्पेति । व्याचष्टे-खपुष्पं नेति, सिंहः खपुष्पं न भवतीति खपुष्पन्युदासेन सिंहदर्शनं स्वप्ने यदि स्यात्तदैव खप्नदृष्टान्तो घटते, अन्यथाऽत्यन्तासद्विषयत्वाद्धर्षभयादिनिमित्तं सिंहादिर्न स्यादिति भावः। खप्नदृष्टान्तस्य यद्याख्यानं कृतं तदपि यथार्थभयहर्षादिना विना वृथाभयहषोदेरसम्भवेन सत्येव प्रतिपक्षे युज्यत इत्याह-स्वप्नदृष्टान्तेति। सर्व निःस्वभावमिति यदुच्यते त्वया तदप्यसत् , विज्ञानमात्रं वस्त्विति ब्रुवता विज्ञानस्यास्तित्वस्वभावस्य स्वीकृतत्वा-30 दित्याह-विज्ञानविषया चेति, विज्ञानसत्त्वाभ्युपगमात् सखभावं विज्ञानमिति सिद्धम् , तथा च सर्व निःस्वभावमित्यसजल्पनं सि.क्ष. छा. डे. तदपेक्षं विशुद्ध । २ सि.क्ष. छा. हे. भाव्यदृष्टा० । ३ सि.क्ष. छा. डे. जागराणां भावार्थ । सि.क्ष. डे. छा. क्रियाव अयं । द्वा० न० २१ (१४६) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364