Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 287
________________ ___ w.mmmmwww manawwwwwwanm ११६४ न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् न्यायेनाविरुद्धं वन्ध्यापुत्रत्वम् , तत्साधयति-तदन्योऽन्यानुगतिमन्तरेण तदभावात् , यद्यदन्योन्यानुगतिम. न्तरेण न भवति तत्तस्यैव, तदेव वा, शरीरारम्भवत्-यथा शरीरं तेषाम् , पुद्गलानाद्यनन्तभवभाविपरिवर्त्तान्यथात्वादन्योन्यानुगतिमन्तरेणाभावाच्च तान्येव तानि जीवपुद्गलद्रव्याणि, तथा वन्ध्याया एव पुद्गलाः पुत्रपुद्गला इत्यविरुद्धं वन्ध्यापुत्रत्वम् , तस्मादस्ति वन्ध्यापुत्रः, तस्मात् सर्वमित्यादि, सर्वशून्यवादे साधनदूषणासम्भवात् प्रतिपाद्यप्रतिपादकव्यवहाराभावात् विज्ञानमात्रपक्षस्यापि सर्वेकज्ञपुरुषमात्रत्वाभ्युपगमापत्तेः स्वप्नवन्ध्यापुत्रादिदृष्टान्तानां च सर्वसर्वात्मकत्वेऽसत्यसिद्धेरिदं सर्वस्वभावमशून्यमिति प्रतिपत्तव्यम् , त्वदुक्तार्थविपर्ययेणाशून्यगृहवत्प्रवेष्ट्रस्थातृनिर्गन्तृकल्पैरुत्पादस्थितिविनाशैः सहितमेव सर्वमेकमनेकात्मकमङ्गुलिवक्रप्रगुणत्वादिवत् विचित्रवर्णकृकलासवद्वा व्यवहारेण प्रत्यक्तापरिकल्पिततदतदाकार खतः परत उभयतश्चास्त्येवं न नास्तीति प्राह्यमुक्तन्यायात् । 10 अत्राह अथ कथं स्वपरोभयभाव इति अत्र ब्रूमः संसिद्धिसंयुक्त्यनुत्पादसामग्रीदर्शनसदादर्शनेभ्यो हेतुभ्यः, संसिद्धिस्तदात्मभेदैकीभावेन सद्भावः, दीर्घत्वं दीर्घ एव, अपरायत्तत्वात् , तद्धि स्वायत्तमेव, यदि स्वविषयमेव तन्न स्यात् नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, स्वात्मन्यविद्यमानदीर्घत्वात्, खपुष्पवत्, भवति तु दीर्घापि स्वायत्तकनिष्ठि15 कापेक्षस्वगतदीर्घत्वपरिणामात्, तथा न च मध्यमा शक्रयष्टिदीर्घतायां अनामिकापेक्षात् भवति तु, एवं ह्रस्वत्वमपि । द्रव्यापेक्षया विविधपर्यायेषु जीवस्य पुद्गलस्य चानतिरिक्तत्वं साधयति-तदन्योऽन्येति, तत्तस्यैव, तदेव वेति पक्षः, पुत्रपुद्गलाः वन्ध्यापुद्गलानामेव, वन्ध्यापुद्गला एव वेति तदर्थः, वन्ध्यात्वभावापन्नपुद्गलानामन्योऽन्यानुगतिमन्तरेण पुत्रभावस्याभावादिति हेत्वर्थः। दृष्टान्तमाह-शरीरारम्भवदिति, शरीरमारभ्यते यैस्ते शरीरारम्भाः, तद्वत्-शरीरारम्भकपुद्गलवदित्यर्थः । दृष्टान्तं घटयति-यथा 20 शरीरं तेषामिति, शरीरं तदारम्भकपुद्गलानामेवेत्यर्थः, यथा पुद्गलद्रव्यं मूर्ताचेतनत्वापरित्यागेनानाद्यनन्तपरिवर्तान तथाऽन्यथ चानुभवति, तस्य परस्परानुगमनमन्तरेण चाभावाच्छरीरं पुद्गलानामेव, पुद्गलद्रव्यमेव वा, जीवोऽप्यनाद्यनन्तभवभाविपरिवर्त्ताननुभवति नरकतिर्यङ्नरामरान् , तेषां चेतनान्योन्यानुगमनमन्तरेणाभावात्त एव जीवद्रव्यमेवश्च वन्ध्यापुद्गलानां पुत्रपुद्गलत्वान्न वन्ध्यापुत्रास्तित्वं विरुद्धमिति भावः। एवञ्च बन्ध्यापुत्रवदत्यन्ताभाव इत्यसिद्ध्या भावानां प्रागादिविशेषणविशिष्टनास्तित्वनिर्वृत्तायस्ति त्वस्वभावताया जीवपुद्गलद्रव्याणामनाद्यनन्तभवभाविपरिवत्तोन्यथात्वादन्योन्यानुगतिमन्तरेणाभावाच सर्वस्वभावतेव सिध्यति न 25 निःस्वभावतेत्युपसंहरति-तस्मादिति । तस्मादित्यस्य भावार्थमाह-सर्वशून्यवाद इति, सर्व निःस्वभावमिति ज्ञानवचनशून्या शून्यत्वयोः साधनदूषणासम्भवात् प्रतिपाद्यप्रतिपादकव्यवहाराभावादभ्युपगमादिविरोधाच्च विज्ञानमात्राभ्युपगमे चतुरवस्थामात्रमेदभिन्नैकपुरुषवादापत्तेः स्वप्नवन्ध्यापुत्रादिदृष्टान्तेन च वास्तविकभयहर्षादेः सर्वशून्यत्वोक्त्या सर्वसत्त्वस्याविशेषनास्तित्वासिङ्ख्या प्रोक्तरीत्या सर्वसर्वात्मकत्वस्यैव सिद्धेश्च सर्वं सर्वस्वभावमशून्यञ्चेत्यभ्युपगन्तव्यमिति भावः । त्वदुक्तार्थेति, तैस्तैराकारैर्गृह्यमाणमपीदं घटपटादिसर्व शून्यमेव, ग्राहकाकारपरिप्लवेन ग्राह्याकारभ्रान्तेः शून्यगृहवत . यथा शून्यगृहे न प्रवेष्टा न स्थाता न निर्गन्ता कश्चिदस्ति 30 तथाऽत्रापि न सन्त्युत्पत्तिस्थितिविनाशसम्बधा इति यस्त्वदुक्तोऽर्थस्तद्विपरीतमेवेदं सर्वमशून्यगृहवत्प्रवेष्ट्रस्थातृनिर्गन्तृसदृशैरुत्पादस्थितिविनाशेः सहितमेवैकवरूपमनेकवरूपञ्चाङ्गुलेर्वकप्रगुणतादिवत् विचित्रवर्णकृकलासवद्वा व्यवहारेण प्रस्फुटखाभाविकतदतदाकारं स्वतः परतः उभयतश्चास्येव न तु नास्ति, उक्तन्यायादिति भावः। स्वपरोभयतस्तु कथमस्तित्वम् ? तत्र तावम इत्याह-अथ कथा १ सि.क्ष. डे, °वणैक्तक०। २ सि. क्ष, डे. छा. °स्तोवननास्ती । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364