Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 281
________________ न्यायागमानुसारिणीव्याख्यासमेतम् द्वादशनयस्यान्तरम् सतो विज्ञानलक्षणत्वादिति त्वयैवाभ्युपग[त]मसिद्ध्यादिहेतुभिर्बाह्यार्थनैःस्वाभाव्यमापाद्य विज्ञानमात्रमेवेदं सर्व स्वप्रसिंहादिवत् जाग्रत्सिंहदर्शनपुत्रजन्मादिभयहर्षसुखदुःखादि विज्ञानमपीत्यतः सर्वस्य विज्ञानलक्षणस्यैव सत्त्वात् तस्य च सर्वत्वात् सर्वमेव चेत् विज्ञानमात्रं स च पुरुष एव ज्ञः, तन्मयञ्चेदमतीतानागताभिमतमपि वर्तमानमेव, स्तिमितसरःसलिलतरङ्गबुद्बुदाद्यवस्थावत् सुप्त[सुषुप्त]जागरिततुरीयाख्यचतुरवस्था5 मात्रभेदमभिन्नमेवास्तीत्यभ्युपगतं भवति, यथोक्तं विधिविधिनयारभङ्गे प्राक् पुरुष एवेदं सर्वमित्यादि, एतत् पुरुषसूक्तं व्याख्यातं तत्रैवेति न पुनर्वित्रियते, अत्राह-ननु विज्ञानशब्देनोत्प्रेक्षामात्रमुच्यते, नार्थवत्त्वं विज्ञानस्य, स्वप्नसिंहदर्शनभयादिवदित्युदाहृत्य कल्पनामात्रत्वस्य प्रतिपादितत्वाबाह्य[]भावः, ग्राह्याभावे ग्राहकत्वस्याभावः, यथोक्तं तदभावे तदप्यसत्' इति, प्रत्युच्चारणमेव तदर्थं यावत् स्वप्नमुदाहर द्भिरिति, अत्रोच्यते-एतदप्ययुक्तं जागरितव्यतिरिक्तस्वप्नोदाहरणादेव विज्ञानमात्रत्वव्यावर्त्तनात् सप्रतिपक्ष10 त्वाच्च भावानां प्रमाणप्रमाणाभासत्व[व] त् साध्यदृष्टान्तभेदाभ्युपगमोऽवश्यम्भावी । यदि तन्मात्रं किं स्वमस्य जागरणाद्विशेषणं घटते ? उभयोरप्यभावतुल्यत्वात् खपुष्पस्य वन्ध्यासुतादिव, प्रतिपाद्यमत्यपेक्षया इति चेन्न, उभयोरप्यभावतुल्यत्वात् । यदि तन्मात्रं किमित्यादि, यदि विज्ञानमेव-स्वप्नोऽस्वप्नो न भवति तस्मिन् स्वप्ने सिंहदर्शनम Mamme मसिध्धयुक्त्यादिभिरुपपाद्य सर्वमिदं विज्ञानमात्रमेव, जाग्रदवस्थायां सिंहदर्शनाद्भीतेः पुत्रजन्मादितो हर्षस्य सुखदुःखादेश्च विज्ञानस्य 15 खमे सिंहदर्शनपुत्रजन्मादिभयहर्षादिसुखदुःखादिविज्ञानवत्कल्पनामात्रत्वादेवञ्च विज्ञानमेव सत्, एवञ्च यत् सत्तद्विज्ञानमिति ज्ञानव्याप्यत्वात् सत्त्वस्य सर्व विज्ञानमेव, अन्यथा सत्त्वासम्भव एव स्यात् , एवञ्च सर्व यदि विज्ञानमेव तर्हि ज्ञानमयः पुरुष एव ज्ञवभावो विज्ञानं भवेत् तन्मयच्चेदं वर्तमानं, अतीतानागताभिमतमपि वर्तमानमेव, निश्चलकासारकीलालस्य तरङ्गबुद्धदादेरवस्थाविशेषवत् तस्यैव पुरुषस्य सुप्तसुषुप्तजाग्रत्तुरीयाख्याश्चतस्रोऽवस्थाः तन्मात्रभेदभिन्नमभिन्नमेव विज्ञानाख्यं पुरुषतत्त्वमभ्युपगतं भवतीति भावः । पुरुष एवेदं सर्वमित्येतत् विधिविधिभङ्गे पुरुषवादे निरूपितं नेह पुनर्निरूप्यत इत्याह-यथोक्तमिति । ननु 20 पुरुष एव सर्वमिदमित्यपि न युक्तमिदंशब्दवाच्यजाग्रदादिविज्ञानस्य कल्पनामात्रत्वस्योक्तत्वात्तत् केवलं विज्ञानशब्देनोत्प्रेक्ष्यते, यतस्तद्वाह्यस्य सिंहपुत्रभयहर्षादेनिःस्वभावत्वेनासत्त्वात्तद्वाहकस्यापि तद्विज्ञानस्याभावात् , केवलं यदि स्वाप्नविज्ञानवत्तत् स्यात्तर्हि विज्ञानमेव स्यादित्युत्प्रेक्ष्यते, तस्मान्न पुरुषवादप्रसङ्गः तत्रावस्थावस्थावतोः सत्त्वादित्याशङ्कते-ननु विज्ञानशब्देनेति । ग्राह्याभाव इति, खव्यतिरिक्तस्य पृथिव्यादेाह्यस्याभावोऽसियादिभिरुक्तः, सन्तानस्यापि ग्राह्यरूपेणाभावः, ग्राह्याकारशून्य तदपेक्ष्य विज्ञानस्य विजानातीति विज्ञानमिति प्राहकाकारता प्रकल्पिता यदा च ग्राह्यरूपेण सन्तानस्याभावस्तदा विज्ञानस्य 25 यद्दाहकत्वं-ग्राहकाकारस्तच्छून्यत्वमेव न तु विज्ञानखलक्षणस्यापीति भावः । तत्र प्रमाणमाह-तदभाव इति प्राह्यरूपेण प्राथाभावे तदपि ग्राहकत्वमपि प्राहकाकारोऽपि ग्राहकाकारतया वा ग्राहकमप्यसदित्यर्थः । समाधत्ते-एतदपीति, यदि विज्ञानमेव सर्व तर्हि स्वप्नस्योदाहरणत्वेनोपदर्शनमयुक्तं तस्यापि सर्वान्तर्गतत्वेन दृष्टान्तत्वासम्भवात्, पक्षाभिन्नत्वात्, यदि सर्वपदेन जापद्विज्ञानमेव गृह्यते तर्हि तथ्यतिरिक्तस्वनोदाहरणात् तत्रैव जाग्रद्विज्ञाने विज्ञानमात्रत्वं सेत्स्यति, स्वप्नस्य तद्व्यतिरिक्तत्वाद्विशानमात्रतायाः व्यावृत्तिरिति भावः। ननु स्वप्नोऽपि विज्ञानमेवेत्यत्राह-सप्रतिपक्षत्वाच्चेति, भावमात्रं प्रतिपक्षव्याप्यम् , यथा 30 प्रमाणे प्रतिपक्षभूतेन प्रमाणाभासेन भावोऽभावेन घटोऽघटेन साध्यं दृष्टान्तेन च व्याप्यमतो जाग्रतो विज्ञानत्वं स्वप्नस्य च तत्प्रतिपक्षत्वं विज्ञानाभासत्वमतो न विज्ञानमात्रतासिद्धिरिति भावः। यदि विज्ञानमात्रमेव तर्हि स्वप्नजागरयोविशिष्टता न स्यादित्याहयदि तन्मात्रमिति । व्याचष्टे-स्वप्न इति । यदि विज्ञानमात्रमेव तर्हि स्वप्नजागरणयोर्भेदो न स्यात्, स्वप्नो हि जागरणादिरूपोऽखमो न भवतीति प्रसिद्धम् , यतः स्वप्नेऽसदेव सिंहदर्शनं भयहेतुर्भवति तस्माजागृतस्य पुरुषस्य खप्नसिंहदर्शनासत्त्वे भयमपगच्छति, तथा जाग्रत्सिंहदर्शन सत्यमेव मृत्युनिमित्तं भवति जाग्रत्पुत्रदर्शनमपि सदेव प्रीतिहेतुर्भवति, जाग्रदपेक्षयाऽविशुद्धे खप्ने Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364