Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 279
________________ ११५६ 10 [ द्वादशनयस्यान्तरम् M निःस्वभावमित्युक्तत्वात्, विज्ञानतत्त्वाच्चातिप्रसक्तविज्ञानवचसी निःस्वभावे इत्येतद्वरमनिष्टञ्चैतद्विज्ञा नवचसोरप्रत्यायनप्रसङ्गात् यदा हि विज्ञानमसत् तदा निःस्वभावमिदं सर्वमित्यनिश्चितं स्वयमनिश्चित्यास्मान् प्रतिपि - पादयिषतस्ते पक्षादिसाधनवचनासत्त्वञ्च, तस्मात् परप्रत्यायनमयुक्तम्, विज्ञानवच सोर्निश्चितपक्षादित्वेनाभूतत्वादुन्मत्तप्रलापविज्ञानवदिति निःस्वभावविकल्पो ज्ञानवचसो: सर्ववस्तुनैः स्वाभाव्यं व्यावर्त्तयतीति दोषः, 5 अथ मा भूदित्यादि, एतदोषभयात् सस्वभावे विज्ञानवचसी त्वदीये एव [म] भ्युपगच्छसि सर्वं निःस्वभावमित्यस्याभ्युपगमस्य विरोध[ : ] केन ? ज्ञानवचनस्वभावत्वाभ्युपगमेनेत्यभ्युपगमविरोधः प्रतिज्ञादोषः, न केवलमभ्युपगमविरोध एव, ज्ञानविषर्यवचसोऽपि पक्षादिलक्षणस्यै ते [न] स्वभाव wwwwww प्रागुक्तं तन्न तर्हि सर्वं निःस्वभावम् इदानीं सस्वभावत्वाभ्युपगमादिति, स्ववचनविरोधश्च दोषः, इति शब्दस्य हेत्वर्थत्वात् । इत्थं साधनदूषणप्रतिपाद्यप्रतिपादनव्यवहारमार्गानुपातिनः सतस्तेऽनुमानलोकविरोधा[ व ] पीत्यत आह न्यायागमानुसारिणीव्याख्यासमेतम् एवञ्च घटाद्यपि सत्, व्यवहारवृत्तत्वात्, तद्वाक्यवत्, उभयविरोधादिविकल्पतस्तच्छ्रन्यत्वे तु प्रत्यक्षादिविरोधाः, लोकविरोधस्तु सर्वलोकमवमत्य प्रवृत्तत्वात् । ( एवञ्चेति ) एवञ्च घटाद्यपि सदिति प्रतिज्ञायते त्वां प्रत्यसिद्धत्वात् सर्वलोकप्रसिद्धमपि, www 15 च लाभात् तयोरपि विज्ञानवचसोः सर्वान्तर्गतत्वम्, सर्वं निःस्वभावमित्यविशेष्य व्यावर्त्तनम विधायोक्तत्वादिति भावः । तयोः सर्वान्तःपातित्वादेव विज्ञानतत्त्वव्यतिरिक्ते विज्ञानवचसी निःस्वभावे न्याय्ये, तयोश्च निःस्वाभाव्येऽर्थप्रत्यायकत्वं न स्यादित्यनिष्टञ्च भवेदि - त्याह-विज्ञानतत्त्वाच्चेति, त्वदभ्युपगतविज्ञानतत्त्वात्तयोः रूपादिवदतिप्रसक्तत्वादित्यर्थः । अप्रत्यायनमेव तावदाह-यदा हीति सर्वनिःस्वभावताविषयविज्ञानस्य सर्वान्तर्गतत्वेन निःस्वभावत्वादसत्त्वेन त्वया सर्वं निःस्वभावमिति न निश्चितम् स्वयमनिश्चिन् भवान् कथमस्मान् प्रतिपिपादयिषति, तथापि खपक्षप्रतिपादनार्थं सर्वमिदं निःखभावमिति यदि ब्रूयात्, तदपि वचनं सर्वान्तः20 पातित्वेन निःखभावतयाऽसत्त्वादप्रत्यायकमेवेति परप्रत्यायनमसम्भवीति भावः । हेतुमाह - विज्ञानवचसोरिति, एतयोर्निःस्वभावत्वेन निश्चितपक्षादिविषयत्वेनाभूतत्वम्, उन्मत्तस्य वचनविज्ञानयोरिवेति भावः । अप्रत्यायकत्वे को दोष इत्यत्राह - निःस्वभावविकल्प इति, निःस्वभावमिदं सर्वमिति विज्ञानवचसोर्निःस्वभावता सर्वेषां वस्तूनां घटपटादिरूपादीनां निःस्वभावतां दूरीकरोतीत्येष दोष इति भावः । प्रोक्तदोषपरिहाराय विज्ञानवचनयोः सस्वभावत्वाभ्युपगमेऽनेनैवाभ्युपगमेन सर्व निःस्वभावमित्यभ्युपगमस्य विरोधः, सर्वस्य निःस्वभावत्वाभावात् तव प्रतिज्ञायां विरोधः प्राप्त इत्याह- एतद्दोषभयादिति। अभ्युपगममात्रमत्र 25 न दोषोऽपि तु स्ववचनादिविरोधोऽपीत्याह-न केवलमिति, सर्वं निःखभावमिति सर्वनिःस्वभावताविषयक बोधजनकप्रतिज्ञावाक्यस्य पक्षादिलक्षणस्य सस्वभावत्वे सर्वं निःस्वभावमिति यत् प्राग्व्यावर्णितं तन्न स्यात्, इदानीं सस्वभावत्वाभ्युपगमात् हेतोरस्मात् स्ववचनविरोध इति भावः । एवं सर्वनिःस्वभावतासाधनाय तद्व्यतिरिक्तताबाधनाय च साधनदूषणवाच्यवाचकादिव्यवहारमनुवर्त्तमानस्य तवानुमानलोकविरोधावपि स्त इत्याह-एवश्चेति, विज्ञानवचसोः प्रागुक्तयोः सस्वभावत्वाभ्युपगमे चेत्यर्थः । ननु घटादीनां सत्त्वं लोकप्रसिद्धं तत् किमिति प्रतिज्ञायते सिद्धसाधनतापत्तेरित्याशङ्कायामाह त्वां प्रतीति । एवंशब्दाभिधेय १ सि.क्ष. छा. डे. इत्येतद्वरोनिष्टञ्चतद्वि० । २ सि. क्ष. डे. छा. विषयोवचसोऽपि । ३ सि. क्ष. डे. छा. 'स्याते सस्व० । ४ सि. क्ष. छा. डे. लोकेविरोधापीत्य ताह । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364