Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 278
________________ अथ द्वादशभङ्गस्यान्तरम् विध्यादिसर्वभङ्गात्मकैकवृत्तिसम्यग्दर्शनाधिकारे प्रत्येकवृत्तिमिथ्यादर्शनत्वापादनाथ प्रवृत्तत्वादाह एतदपि पूर्ववदेवैकान्तत्वादयुक्तम् , सम्भविविकल्पानुपपत्तेः, एवं सर्व निःस्वभावमित्येवं ब्रुवतस्तव विज्ञानवचसोरपि सर्वान्तःपातित्वान्निःस्वभावत्वेऽप्रत्यायनप्रसङ्गात् परप्रत्यायनमयुक्तम् , विज्ञानवचसोनिश्चितपक्षादित्वेनाभूतत्वादुन्मत्तप्रलापविज्ञानवत् , अथ मा भूदेष दोष । इति सस्वभावे विज्ञानवचसी अभ्युपगच्छसि ज्ञानवंचनस्वभावत्वाभ्युपगमेनाभ्युपगमविरोधः, इदानीं सस्वभावत्वाभ्युपगमादिति स्ववचनविरोधश्च ।। (एतदपीति) एतदपि पूर्ववदेवैकान्तत्वादयुक्तम्-यथा क्षणिकमेव रूपादिसमुदाय एव सामान्यविशेष[कत्वा]न्यत्वादीनीत्येकान्तवादानामयुक्तत्वमेकान्तत्वात् , युक्तत्वे वा जैनेन्द्रत्वम्, अनेकान्तप्रतिष्ठागतित्वाद्वेत्युक्तम् , तथैतदपि सर्व निःस्वभावमिति मतम् , कस्मात् ? सम्भविविकल्पानुपपत्तेः-अस्मिन्नपि 10 मते ये विकल्पाः सम्भवन्ति संग्रहेण विज्ञानवचसोः नःस्वाभाव्यं स्वाभाव्यं वेत्यनयोरेव भेदा वक्ष्यमाणास्ते सर्वथा नोपपद्यन्ते, तदनुपपत्तेरस्यापि मतस्यायुक्तिरेतो जिनकल्पितानेकान्तरूपत्वं वस्तुनः श्रेय इत्युपसंहारो भविष्यति, तद्यथा एवं सर्व निःस्वभावमिति ब्रुवतोऽतीतासिद्ध्यादिप्रकारेण तवेति प्रत्युञ्चारणं प्रथमैवंशब्दात्, द्वितीयैवंशब्दाद्विज्ञानवचसोरपि त्वयोक्तयोः सर्वान्तःपातित्वादविशेष्य सर्व wmwww wwwm ननु विध्यादिनिखिलभङ्गात्मिकैका वृत्तिः सम्यग्दर्शनं प्रत्येकभनवृत्तिस्तु मिथ्यादर्शनम् , तस्मानियमनियमभङ्गस्यापि मिथ्या-16 दर्शनत्वमापाद्यमतो द्रव्यार्थनयाश्रयेण तदापादयितुमुपक्रमते-एतदपीति, एवन्तु गृह्यतां निःस्वभावमिदं सर्वमेतदतदाकारप्रकल्पनानुपातिविज्ञानत्वात् सुप्तोन्मत्तादिवदिति मतमपीत्यर्थः । अपिशब्दसमुचितं दर्शयति-यथा क्षणिकमेवेति, नियमोभयनये एकादशे क्षणे क्षणेऽत्यन्तभिन्नरूपाद्यसाधारणानिर्देश्यपरमार्थत्वं दशमे नियमविधावुत्पादादिनिरपेक्षं रूपरसाद्यत्यन्तविविक्तदेशभिनविशेषसमुदायमात्रं वस्तु, नियमनये नवमे सामान्यविशेषयोरेकत्वान्यत्वोभयत्वानुभयत्वान्यतरोभयप्रधानोपसर्जनपक्षाणां त्यागादवक्तव्यं वस्तु, इत्येवंवादा यथाऽयुक्ताः, एकान्तत्वात्तथा विज्ञानमात्रमेवेदं त्रिभुवनं त्रैधातुकं वा, न बाह्य रूपादिवस्तु वर्त-20 तेऽसियादिहेतुभ्यस्तेषां शून्यतासिद्धेरिति द्वादशोऽपि नियमनियमनयोऽयुक्तः, एकान्तत्वादिति भावः । यद्येषां वादानां युक्तत्वमिष्यते तर्हि वादानामेषां वस्तुवाद्युाहत्वाजिनेन्द्रीयत्वं स्यात्, अनेकान्तप्रतिष्ठापनानुकूलोद्ाहत्वादित्याह-युक्तत्वे वेति, आईतीयत्वञ्च तत्र तत्र नयेषु योजितमेवेति भावः । एवं निःस्वभावमिदं सर्वमिति नियमनियममतमप्ययुक्तमित्याह-तथैतद पीति । हेतुमाह-सम्भवीति, सम्भविनो ये विकल्पाः तेषामनुपपत्तेरित्यर्थः, सर्वमिदं निःखभावमिति विज्ञानं निःखभावं सखभावं वा, सर्वमिदं निःस्वभावमिति वचनं निःखभावं सखभावं वेति विज्ञानवचनयोराश्रयेण द्वौ द्वौ विकल्पो तथाऽनयोरेव 25 विकल्पयोर्भेदभूता अग्रे वक्ष्यमाणा विकल्पाश्च नोपपद्यन्त इति मतस्यैतस्यायुक्तत्वमिति भावः । अस्याप्ययुक्तत्वे किंभूतं वस्तु स्यादित्यत्राह-अतो जिनकल्पितेति। एतन्मतस्यायुक्तितामादर्शयति-तद्यथेति । प्रथमैवंशब्दादिति, एवं सर्व निःखभावमितीत्यत्र प्रथमोक्तैवंशब्दादुक्कासिद्ध्ययुक्त्यादिप्रकारेण सर्व वस्तु निस्वभावमिति विज्ञानं प्रतिपाद्यते, द्वितीयैवंशब्दात्एवं सर्वं निःखभावमित्येवं ब्रुवत इत्यत्रेतिशब्दसमभिव्याहृतैवंशब्दादित्याकारकानुपूर्वी वदत इत्यर्थात् सर्व निःखभावमिति वचनस्य सि. क्ष. छा. मेव। २सि.क्ष. छा. रेतो। ३. सि.क्ष. इत्यापिसं। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364