Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 276
________________ एतन्नयनिबन्धनोक्तिः] द्वादशारनयचक्रम् ११५३ स नयः, पर्यवोऽतीतः षट्प्रकारोऽपि, 'अस्तिनास्तिदिष्टं मतिः' (पाणि० अ० ४ पा० ४ सू० ६०) इतिठक्प्रत्ययान्तरूपसिद्धेः, पर्यव एवास्तीति मन्यमानः पर्यवास्तिकोऽयं नयः, स च भावः-अर्थः शब्दोवा, वाच्य[वाचक]ाभिमतं विज्ञानलक्षणमेव वस्त्वित्यत आह-भावोऽपि भाव एव-भवतीति भावो घटपटादि द्रव्यगुणकर्मादि वा इति माग्रहीदिति भाव एव उपयोगो भावो न द्रव्यादीति, स च भावः क्षायिकः क्षायोपशमिक औपशमिकः पारिणामिको वा, स चोपयोग एव साकारोऽनाकारो वा प्रमाणप्रमाणाभासा-5 दिविकल्पशून्यः, तस्मात् पर्यवास्तिकनयभेद एवम्भूतैकदेशोऽत्यन्तविशुद्धविज्ञानपर्यायमात्रग्राही नयोऽयमिति, यथा विध्यादिविकल्पेष्वाद्येषु षट्सु द्रव्यास्तिकेषु पर्यवशब्दो द्रव्यप्राधान्यात् तदर्थत्वेन व्याख्यातः तथेहाप्यारातीयेषूउभयोभयविकल्पेषु द्रव्यशब्दः पर्यवप्राधान्यात्तदर्थत्वेन गमयितव्यः, अत आहद्रव्यशब्दश्चैष षट्वपीत्यादि, दुर्गतिरिति, दु द्रु गतौ द्रुशब्दो गत्यर्थः तस्याः-गतेर्विकारे यत्प्रत्यये कृते द्रव्यमिति रूपं भवति, द्रव्यमेवार्थो द्रव्यार्थः, स पुनस्तथातथा-तेन तेन प्रकारेणातीतोभयोभयादिविकल्पेषु 10 नयेषु प्रागू व्याख्यातः यद्यद् दर्शनं-यथादर्शनं तेषां षण्णां स्वेन खेन दर्शनेन पर्यायार्थ एव स षडूविकल्पोऽपि, तथागतेः-तथातथा परितो गमनात् । ___किमेतत् स्वाभिप्रायविवरणमात्रम् ? आहोखिदस्य दर्शनस्योपनिबन्धनमार्षमप्यस्तीत्यत्रोच्यते अस्तीदम् निबन्धनमस्य ‘से किं तं भावक्खंधे ! २ दुविहे पण्णत्ते तं जहा-आगमतो अ, नो आग-15 मतो अ, से किं तं आगमतो भावक्खंघे! २ जाणये उवउत्ते सेत्तं आगमतो भावक्खंधे' (अनु० सू० ५४-५५) इति, आगमभावस्कन्धादेरुपयोगलक्षणस्य विज्ञानस्वरूपमात्रत्वात् सर्वमुपयोग एव, अयं नियमस्यापि क्षणिकवादस्य नियमः, तदपि क्षणिकं वस्तु विज्ञानमेवेति नियमनियमभङ्गो द्वादशः। पर्यवा इत्याह-पर्यव इति । स पर्यवो भाव एव सर्वानुगत इत्याह-स चेति । एतन्नयाभिमतं भावमाह-अर्थ इति, शब्दो वा 20 भवत्वर्थो वा सर्व विज्ञानलक्षणमेव, तदेव विज्ञानं वाचकमपि वाच्यमपीति भावः । भावोऽपीति, पर्यवशब्दवाच्यामिमतोऽपि भावो भवतीति भाव इति व्युत्पत्त्या न घटपटादिर्द्रव्यगुणादिर्वा विवक्षितः किन्तु भाव एव-उपयोग एव ग्राह्य इति भावः । उपयोगप्रभेदानाह-स च भाव इति । स चोपयोग एवेति, विज्ञानरूप उपयोग एव साकारो वा स्यान्निराकारो वा स्यात् किन्तु प्रमाणप्रमाणाभासप्रत्यक्षपरोक्षादिप्रभेदशून्यो विशुद्ध एवेति भावः । नानाविधप्रभेदरहितविशुद्धविज्ञानमात्राभ्युपगमादेवायं नयः पर्यवास्तिकनयघटकैवम्भूतैकदेश उच्यत इत्याह-तस्मादिति । यथा षष्टनयपर्यन्तभागे षण्णां विध्यादिनयानामपि 25 पर्यवार्थिकनयत्वमुक्त्वा पर्यवशब्दस्य द्रव्यपरत्वं व्याख्यातं तथोभयोभयादिनयानामपि द्रव्यार्थिकनयत्वं द्रव्यशब्दस्य पर्यायपरत्वमुपपाद्य वक्तव्यमित्याह-यथेति । द्रव्यशब्दस्य पर्यायार्थतां दर्शयति-द्रव्यशब्दश्चैष इति, पर्यायार्थिकनयेषु प्रयुक्त. द्रव्यार्थिकनयशब्दघटकद्रव्यशब्दश्चेत्यर्थः, द्रव्यशब्दार्थश्चात्र गतिविकारः, विकाराश्च पर्याया एव, उभयोभयादिनयेषूक्ताः खखदर्शनानुसारेण व्याख्याताश्च तत्र तत्र पर्यायशब्दाः, तेन तेन प्रकारेण गमनादिति भावः । विज्ञानमात्रवस्तुत्वोपवर्णनमत्र केवलं वाभिप्रायमात्रवर्णनरूपं न भवति, अस्य मूलभूतमागमवचनमप्यस्तीत्याह-निबन्धनमस्येति । आगमतो भावस्कन्ध 30 ___Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364