________________
एतन्नयनिबन्धनोक्तिः] द्वादशारनयचक्रम्
११५३ स नयः, पर्यवोऽतीतः षट्प्रकारोऽपि, 'अस्तिनास्तिदिष्टं मतिः' (पाणि० अ० ४ पा० ४ सू० ६०) इतिठक्प्रत्ययान्तरूपसिद्धेः, पर्यव एवास्तीति मन्यमानः पर्यवास्तिकोऽयं नयः, स च भावः-अर्थः शब्दोवा, वाच्य[वाचक]ाभिमतं विज्ञानलक्षणमेव वस्त्वित्यत आह-भावोऽपि भाव एव-भवतीति भावो घटपटादि द्रव्यगुणकर्मादि वा इति माग्रहीदिति भाव एव उपयोगो भावो न द्रव्यादीति, स च भावः क्षायिकः क्षायोपशमिक औपशमिकः पारिणामिको वा, स चोपयोग एव साकारोऽनाकारो वा प्रमाणप्रमाणाभासा-5 दिविकल्पशून्यः, तस्मात् पर्यवास्तिकनयभेद एवम्भूतैकदेशोऽत्यन्तविशुद्धविज्ञानपर्यायमात्रग्राही नयोऽयमिति, यथा विध्यादिविकल्पेष्वाद्येषु षट्सु द्रव्यास्तिकेषु पर्यवशब्दो द्रव्यप्राधान्यात् तदर्थत्वेन व्याख्यातः तथेहाप्यारातीयेषूउभयोभयविकल्पेषु द्रव्यशब्दः पर्यवप्राधान्यात्तदर्थत्वेन गमयितव्यः, अत आहद्रव्यशब्दश्चैष षट्वपीत्यादि, दुर्गतिरिति, दु द्रु गतौ द्रुशब्दो गत्यर्थः तस्याः-गतेर्विकारे यत्प्रत्यये कृते द्रव्यमिति रूपं भवति, द्रव्यमेवार्थो द्रव्यार्थः, स पुनस्तथातथा-तेन तेन प्रकारेणातीतोभयोभयादिविकल्पेषु 10 नयेषु प्रागू व्याख्यातः यद्यद् दर्शनं-यथादर्शनं तेषां षण्णां स्वेन खेन दर्शनेन पर्यायार्थ एव स षडूविकल्पोऽपि, तथागतेः-तथातथा परितो गमनात् ।
___किमेतत् स्वाभिप्रायविवरणमात्रम् ? आहोखिदस्य दर्शनस्योपनिबन्धनमार्षमप्यस्तीत्यत्रोच्यते अस्तीदम्
निबन्धनमस्य ‘से किं तं भावक्खंधे ! २ दुविहे पण्णत्ते तं जहा-आगमतो अ, नो आग-15 मतो अ, से किं तं आगमतो भावक्खंघे! २ जाणये उवउत्ते सेत्तं आगमतो भावक्खंधे' (अनु० सू० ५४-५५) इति, आगमभावस्कन्धादेरुपयोगलक्षणस्य विज्ञानस्वरूपमात्रत्वात् सर्वमुपयोग एव, अयं नियमस्यापि क्षणिकवादस्य नियमः, तदपि क्षणिकं वस्तु विज्ञानमेवेति नियमनियमभङ्गो द्वादशः।
पर्यवा इत्याह-पर्यव इति । स पर्यवो भाव एव सर्वानुगत इत्याह-स चेति । एतन्नयाभिमतं भावमाह-अर्थ इति, शब्दो वा 20 भवत्वर्थो वा सर्व विज्ञानलक्षणमेव, तदेव विज्ञानं वाचकमपि वाच्यमपीति भावः । भावोऽपीति, पर्यवशब्दवाच्यामिमतोऽपि भावो भवतीति भाव इति व्युत्पत्त्या न घटपटादिर्द्रव्यगुणादिर्वा विवक्षितः किन्तु भाव एव-उपयोग एव ग्राह्य इति भावः । उपयोगप्रभेदानाह-स च भाव इति । स चोपयोग एवेति, विज्ञानरूप उपयोग एव साकारो वा स्यान्निराकारो वा स्यात् किन्तु प्रमाणप्रमाणाभासप्रत्यक्षपरोक्षादिप्रभेदशून्यो विशुद्ध एवेति भावः । नानाविधप्रभेदरहितविशुद्धविज्ञानमात्राभ्युपगमादेवायं नयः पर्यवास्तिकनयघटकैवम्भूतैकदेश उच्यत इत्याह-तस्मादिति । यथा षष्टनयपर्यन्तभागे षण्णां विध्यादिनयानामपि 25 पर्यवार्थिकनयत्वमुक्त्वा पर्यवशब्दस्य द्रव्यपरत्वं व्याख्यातं तथोभयोभयादिनयानामपि द्रव्यार्थिकनयत्वं द्रव्यशब्दस्य पर्यायपरत्वमुपपाद्य वक्तव्यमित्याह-यथेति । द्रव्यशब्दस्य पर्यायार्थतां दर्शयति-द्रव्यशब्दश्चैष इति, पर्यायार्थिकनयेषु प्रयुक्त. द्रव्यार्थिकनयशब्दघटकद्रव्यशब्दश्चेत्यर्थः, द्रव्यशब्दार्थश्चात्र गतिविकारः, विकाराश्च पर्याया एव, उभयोभयादिनयेषूक्ताः खखदर्शनानुसारेण व्याख्याताश्च तत्र तत्र पर्यायशब्दाः, तेन तेन प्रकारेण गमनादिति भावः । विज्ञानमात्रवस्तुत्वोपवर्णनमत्र केवलं वाभिप्रायमात्रवर्णनरूपं न भवति, अस्य मूलभूतमागमवचनमप्यस्तीत्याह-निबन्धनमस्येति । आगमतो भावस्कन्ध 30
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org