SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमनियमनयः (निबन्धनमिति ) निबन्धनमस्य 'से किं तं भावक्खंचे इति प्रश्नोपक्रमो प्रन्थो यावत् 'सेत्तं आगमतो भावक्खंचे' (अनु० सू० ५४-५५ ) इति व्याकरणोपसंहारः आगमभावस्कन्धस्योपयोगलक्षणस्य विज्ञान - स्वरूपमात्रत्वा[दा ]दिग्रहणाच्छ्रुतमावश्यकं सामायिकमअन्यद्वा-नामादिनिक्षेपानुक्रमेणाधिगमनीयं यत्किचित् तत्सर्वमागमत उपयोग एव-ज्ञानमेवेत्यर्थः, अयं नियमस्यापि क्षणिकवादस्य - क्षणिकमेव वस्तु इत्यस्यापि 5 दर्शनस्य नियम: - तदपि क्षणिकं वस्तु विज्ञानमेव-न रूपादि तद्व्यतिरिक्तं बाह्यमस्ति, किं तर्हि ? विज्ञानान्तर्विपरिणामविजृम्भितमात्रमेवेति, नियमनियमभङ्गो नामाऽऽदितो विधिभङ्गादारभ्य गण्यमानो द्वादशो भङ्गः । wwwwwwwwwww ११५४ द्वादशारनयचक्रस्य श्रीमन्मल्लवादिकृतस्य टीकायां श्रीमत्सिंहसूरिगणिविरचितायां समाप्तः ॥ उपयोग उच्यते स च विज्ञानमात्रखरूप एवेत्याह-आगमभावस्कन्धस्येति । भावस्कन्धादेरित्यत्र । दिग्रहणग्राह्माणामपि 10 विज्ञानरूपत्वमाह - आदिग्रहणादिति । सर्वमागमत उपयोग एवेति योऽयं नियमोऽत्र क्रियते स नियमस्यापि-क्षणिक वस्तुवादस्यापि भवति, क्षणिकवस्तुवादाभिमतं क्षणिकं वस्त्वपि विज्ञानमेव, न ततो व्यतिरिक्तं रूपादीति दर्शयति- अयं नियमस्यापीति । उपसंहरति-नियमनियमभङ्ग इति । इति विजयलब्धिसूरिविरचिते विषमपदविवेचने नयचक्रस्य द्वादशो नियमनियमभङ्गः समाप्तः ॥ १ सि० क्ष० छा० डे० तेस्त्ययं निबं० । Jain Education International 2010_04 २ सि० श० छा० डे० गम्यमाने । For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy