________________
१९५२
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः पुत्र ! यदिदं त्रैधातुकम्' (बुद्धवचनम् ) इत्यादि, 'यदन्त यरूपं [तु] बहिर्वदवभासते । सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयाऽपि च' (आलम्बन० ६) इत्यादि, एवं तर्हि प्रमाणप्रमाणाभासाविशेष इति चेदिष्यत एतत् , यस्मात्तच्च विज्ञानं कल्पना-कल्पनामात्रमेव, अनियतदेशकालाकारनिमित्तनैमित्तिकत्वात् , जाग्रदा
द्यवस्थाभिमतविज्ञानस्यापि सुप्ततैमिरिकादिविज्ञानवदप्रामाण्यात्, एष पदार्थः, वाक्यार्थस्तर्हि कः ? 5 उच्यते-बुद्ध्यनुसंहृतिः वाक्यार्थः-विज्ञानस्यैव पौर्वापर्यार्थाभासविज्ञानानुसंहारेण सम्बन्धविज्ञानं वाक्यं वाक्यार्थश्चेति।
अयञ्च विकल्प एवम्भूतैकदेशः, तस्य च पर्यवास्तिकभेदत्वात् , परि समन्तादवगमः, नैःस्वाभाव्यात् परितोऽवगमः, सोऽस्यास्तीति मतिरस्य पर्यवास्तिकोऽयं नयः, स च भावः भावोऽपि भाव एव साकारोऽनाकारो वा प्रमाणप्रमाणाभासादिविकल्पशून्यः, द्रव्यशब्दश्चैष 10 षट्स्वपि दुर्गतिः, तस्या विकारे यत्प्रत्यये द्रव्यमिति, द्रव्यमेवार्थः द्रव्यार्थः, स पुनस्तथातथा प्राग्व्याख्यातो यथादर्शनं पर्यायार्थ एव स पविकल्पोऽपि, तथागतेः।
(अयञ्चेति) अयञ्च विकल्प एवम्भूतैकदेशः-शतधा भिन्नस्यैवम्भूतस्यैकदेशोऽयं नयः, तस्य चएवम्भूतस्य पर्यवास्तिकभेदत्वात्, अक्षरार्थो गमयितव्यः पर्यवास्तिक इत्यत आह-परि समन्तादव
गमः,-परिरुपसर्गः समन्तादर्थे, अवतिर्धातुरवगमार्थः, यथाह-'अवै रक्षणगतिप्रीतितृप्त्यवगमनप्रवेशश्रवण18 स्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादहनभाववृद्धिषु' (धातुपाठे भ्वादिगणे ६०१) अत्राव
गमस्य विवक्षितत्वात् , नैःस्वाभाव्यात् परितोऽवगमः-परीक्ष्यमाणस्य बाह्यार्थस्य विज्ञानव्यतिरिक्तस्य सर्वयुक्तिरिक्तस्वभावाभावादवगममात्र विज्ञानमात्रमेवेत्यर्थः, सोऽस्यास्तीति मतिरस्येति-स पर्यवो यस्यास्तीति मतिः
युक्तं भवति, विज्ञानं विषयाकारं विज्ञानजनकञ्चेति भावार्थः। बाह्यार्थवस्तुनिबन्धनं यदि न विज्ञानं तर्हि प्रमाणप्रमाणाभासयोरविशेषः, विज्ञानस्याविशिष्टत्वात्तद्यतिरिक्तार्थाभावाच्चेत्याशङ्कते-एवं तहीति । इष्टापत्तिमाह-यस्मात्तच्चेति, विज्ञानमिदं कल्पनामात्रमेव, 20 विज्ञाने बाह्यविकल्पो विषयत्वेन स्थापितो हि गृह्यते बाह्यविकल्पश्च सञ्चितालम्बनः, सञ्चयश्च काल्पनिकोऽसन्निति तद्विज्ञानं कल्प
नामात्रमेव, विज्ञाने हि देशकालाकारादीनां नियतानां निमित्तताऽसम्भवादनियतनिमित्तकत्वात् स्वप्नज्ञानवदप्रमाणमेव काल्पनिकत्वात् , वितथविकल्पाभ्यासवासनावशादभूतमेवार्थ जानाति, तस्मादप्रमाणमेवेति भावः । एवं वाक्यं किं तदर्थश्च क इत्यत्राहबुद्ध्यनुसंहृतिरिति, बुद्धीनां-शब्दाकारोल्लेखिबुद्धीनामाकारोल्लेखिबुद्धीनाञ्चानुक्रमेण पौर्वापर्यभावेन संहृतिः-बहीरूपतयाऽ
ध्यस्तो निर्विभागः शब्दाकारोऽर्थाकारो वा वाक्यं वाक्यार्थश्च, उभौ चानादिवासनायाः शब्दविकल्पसम्भूताया अर्थविकल्पसम्भूताया 25 वा प्रबोधाज्जायते इति भावः। अस्य नयस्य सप्तविधनयेषु कुत्रान्तर्भाव इत्यत्राह-अयश्चेति । शतधा भिन्नस्यैवम्भूतनयस्यैक
देश इत्याह-शतधेति । द्रव्यार्थपर्यायार्थयोः पर्यायार्थोऽयमित्याह-तस्येति । एतन्नयानुसारेण पर्यवास्तिकशब्दार्थ वक्तुमाह परीति, परिशब्दः समन्तादर्थे, अवधातुरवगमार्थे वर्तत इति भावः । अवतेरवगमार्थत्वे मानमाह-अव रक्षणेत्यादि । कथं परितोऽवगम इत्यत्राह-नैःस्वाभाव्यादिति, विचार्यमाणे सति विज्ञानव्यतिरिक्त बाह्यवस्तुनि सर्वयुक्तिभिः स्वभावशून्य
तैवावगम्यते, तस्य सर्वयुक्तिरिक्तखभावस्याभावाद्वाह्यार्थाभावेनावगममात्रमेव सेत्स्यति, स एव पर्यवोऽस्तीति मतिर्यस्येति व्युत्पत्ती 30 'अस्तिनास्तिदिष्टं मतिः' इति सूत्रेण ठक्प्रत्यये पर्यवास्तिक इति नयोऽयमुच्यत इति भावः। पूर्वमुभयोभयादिनयविषया अपि
१सि० क्ष० छा० डे । यदन्तर्ज्ञान ।
२ भागेति वोपदेवः, भद्दोजीदीक्षितश्च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org