________________
येऽत्रशब्दार्थः द्वादशारनयचक्रम
२२५१ वायुराकाशं सागरः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः' ॥ (वाक्य० का० ३ श्लो. ४१) इति, तत्रापि जासद्गृहीतोऽर्थः कारणमिति चेत् स्वप्ने हि दृष्टश्रुतानुभूतपरिकल्पितसुखदुःखादिरूपरसाद्याकारमेव विज्ञानमुत्पद्यते नात्यन्तानुपलब्धखपुष्पाद्याकारम् , तस्माद्वाह्यार्थमेव कारणमिति चेन्मन्यसे, अत्र वयं ब्रूमः, तत्र च तत्र च विज्ञानमेव कारणम् , स्वप्नजागरणकारणेन विज्ञानेनैवोत्थापितोऽर्थोऽर्थ इति शक्यते प्रतिपत्तुम् , नान्यथा, विज्ञानेनाविनाभावितस्यार्थस्य जागरणेऽपि स्वरूपाभावादनुपलम्भे कुतः पुनः । खनकारणत्वम् ? तत आह-यदि वाऽविज्ञानोऽर्थः कश्चिदस्ति स दर्यतां त्वया-ज्ञानेन[1] प्रकल्पितो न शक्यो दर्शयितुमर्थ इत्यभिप्रायः, मया पुनः शक्यतेऽर्थेन बाह्येन [विना] विज्ञानमेवार्थ इति, तद्यथास्वप्ने त्वनर्थकं विज्ञानमेवार्थ इति दर्यते, तस्मात् स्वपज्जाप्रदवस्थयोरप्यव्यभिचारिविज्ञानमेवार्थ इति न्याय्या कल्पना।
अत्र नये कः शब्दार्थः ? ब्रूमः
अत्र च विज्ञानं शब्दार्थः, विज्ञानमेव हि शब्दो विज्ञानोत्थापितो रूपरसादिघटपटादिबाह्यो वाच्यो विज्ञानमेव, एवं तर्हि प्रमाणप्रमाणाभासाविशेष इति चेदिष्यत एतत्, तच्च विज्ञानं कल्पना, अनियतदेशकालाकारनिमित्तनैमित्तिकत्वात् सुप्ततैमिरिकादिविज्ञानवत् , बुद्ध्यनुसंहृतिवाक्यार्थः।
(अत्र चेति) अत्र च विज्ञानं शब्दार्थः, विज्ञानमेव हि शब्दो वाचकाभिमतो विज्ञानोत्थापितः 15 सदुपलक्ष्योऽपि रूपरसादिघटपटादिबाह्यो वाच्यो विज्ञानमेव, यथोक्तं 'विज्ञप्तिमात्रमेवेदं भो जिन
10
भासन्त इति भावः । ननु खप्नज्ञाने हस्त्यादीनां तदैवावभासः स्याद्यदा जाग्रद्दशायां सोऽर्थों गृहीतो भवेन्नान्यथा तस्माज्जाप्रद्विशानप्राह्योऽर्थस्तत्र कारणम्, अन्यथाऽत्यन्तादृष्टानां स्वर्गनरकादीनामत्यन्तासतां शशविषाणखपुष्पादीनामपि कुतो नावभासः खने इत्याशङ्कते-तत्रापीति, खप्नीयविज्ञानावभासेऽपीत्यर्थः । व्याचष्टे-स्वने हीति, जाप्रद्दशायां दृष्टाः श्रुता अनुभूताः परिकल्पिता वा ये सुखदुःखादयस्तदाकारमेव विज्ञानं खप्न उदेतीति भावः। खप्ने जाप्रति वा सर्वत्र कारणेनैकेन विज्ञानेनोत्थापितोऽर्थ एव 20 प्रतिभासते, न तु स्वप्नविज्ञाने जागरणविज्ञानविषयः कारणमित्याह-तत्र च तत्र चेति, स्वप्ने च जागरणे चेत्यर्थः । ननु जागरणेऽपि विज्ञानेनार्थस्याविनामावेनाभेदात् तद्यतिरिक्तवरूपाभावेनार्थस्यानुपलब्धौ खनकारणत्वं तस्य कुत इत्याह-विज्ञानेनेति । विज्ञानव्यतिरिक्तमर्थमभ्युपगच्छता त्वया तत्वरूपं प्रदर्यतां विज्ञानव्यतिरिक्तेन हेतुना ! यदा तु तथाविधो हेतुर्नास्ति किन्तु विज्ञानेनैव निरूप्योऽर्थः, तदा सोऽर्थो विज्ञानव्यतिरिक्तः कथं भवेत् , मया तु विषयीभूतार्थव्यतिरेकेणापि विज्ञानमेवार्थ इति निरूपयितुं शक्यते तस्माद्विज्ञानमेव खतंत्रत्वाद्वस्तु, अर्थस्तु विज्ञानपरतंत्रत्वाद्विज्ञानमेव नातिरिक्त इत्याशयेनाह-यदि वेति 25 नास्ति विज्ञानं यस्य एवंभूतोऽर्थः । अविज्ञानोऽर्थः । कुत्र निरूपयितुं शक्यते त्वयेत्यत्राह-स्वमे विति। उपसंहरति-तस्मादिति विज्ञानमात्रवस्तुवादिनये विज्ञानमेव शब्दस्यार्थो नान्यः कश्चिदित्याशयेन वक्ति-अत्र चेति, विज्ञानमात्रवस्तुवाद्येतनय इत्यर्थः । वाचक शब्दो विज्ञानरूप एव वाच्योऽपि विज्ञानमेव रूपरसादीनां घटपटादीनाञ्च बाह्यवस्तूनां विज्ञानत्वस्य प्रतिपादितत्वात् , विज्ञानव्यतिरिकवस्त्वभावाच्चेत्याह-विज्ञानमेव हीति । विज्ञानमात्रमेवेदं सर्वमित्यत्र बुद्धवचनं दिङ्नागवचनच्च प्रमाणयति विज्ञप्तिमात्रमेवेदमिति । यदन्तईयेति, विज्ञानं विनान्यदालम्बनं नास्ति प्रायशिश्च विज्ञानपरिणामो विषयाकारोऽर्थो भवति, 30 तस्माद्विज्ञाने बाह्यविकल्पो विषयत्वेन स्थापितो गृह्यते, स एव बहिर्वेदवभासते, अयं विकल्पो यथा बहिर्वर्तते तथाऽवभासते, अयं विज्ञानालम्बनप्रत्यय उच्यते विज्ञानरूपत्वाद्विशानजननाच, इदं हि विज्ञानमन्तर्विषयरूपं भवति, अन्तर्विषयाच जायत इति धर्मद्वय
१सि.क्ष. छा. डे. स्वमे जागरणकारणेनैव वि०।
. द्वा० न० २० (१४५) Jain Education International 2010_04
www.jainelibrary.org
For Private & Personal Use Only