________________
भ्यायागमानुसारिणीव्याख्यासमैतम् [नियमनियमनयः गमानं भागः तन्मात्रं गृह्यत इति चेन्मन्यसे ततश्च तेऽनिष्टमिदं-परमाणवस्तर्हि गृह्यताम् , न हि परमाणवोऽतीन्द्रियाः सन्तः कस्यचिद् दृश्या इतीष्टाः, तेष्वदृश्यमानेषु निर्भागेषु भागवद् दृश्यत इति का कथा ? भागान्तरादृश्यत्वात् , सिकतातैलवद्वा प्रत्येकं दर्शनाभावे तत्समुदायेऽपि दर्शनाभावात् , भागवति वा परमाणुसंघाते परमध्यभागाग्रहणादगृह्यमाणे तदंशो निर्भागपरमाणुर्द्रक्ष्यत इति का कथा इत्यदर्शनान्नास्ति 5 दर्शनम् , अस्यार्थद्वयस्य व्याख्या-यदा च परमाणुरित्यादि ग्रहीष्यन्त इति गतार्थम् , कुत इत्यनुवर्त्तनात् ।
दृश्यदर्शनव्यवहारस्तर्हि कथमसति दृश्ये सम्भवतीति चेदुच्यते, अयन्तु व्यवहारो विज्ञानोत्थापित एव, विज्ञानञ्चासत्यपि बाह्येऽर्थे तथा तथा विपरिवर्त्तमानं बाह्यार्थवदवभासते, वस्तुत्वात् स्वप्नवत् , तत्रापि जाग्रहीतोऽर्थः कारणमिति चेत्तत्र च तत्र च विज्ञानमेव कारणम् स्वमजागरणकारणेन विज्ञानेनैवोत्थापितोर्थोऽर्थ इति प्रतिपत्तुं शक्यो नान्यथा, यदि 10 वाऽविज्ञानोऽर्थः कश्चिदस्ति स दर्यतां त्वया, मया पुनः शक्यतेऽर्थेन बाह्येन विज्ञानमेवार्थ इति दर्शयितुम् , तद्यथा-स्वमे त्वनर्थकं विज्ञानमेवार्थ इति ।
(दृश्येति) दृश्यदर्शनव्यवहारस्तर्हि कथमसति दृश्ये सम्भवतीति चेदुच्यते अयन्तु व्यवहारो विज्ञानोत्थापित एव, विज्ञानञ्च []सत्यपि बाह्येऽर्थे तेन तेनाकारेण विपरिवर्त्तमानम[]न्तरे च बाह्यार्थवद[व]
भासते वस्तुत्वात्-विज्ञानत्वात् , किमिव ? स्वप्नवत्-स्वप्न इव स्वप्नवत् , यथा सुप्तः संवृतेऽवकाशेऽप्य15 सम्भविनं हस्तियूथपर्वताद्याकारं पश्यत्यसत्येव हस्तियूथादिबाह्येऽर्थे तथाप्यन्तर्विज्ञानपरिणामादेवं जाप्रदर्वस्थरूपादिविज्ञानान्यप्यन्तर्वर्तिबहिरर्थाभासानि, न कश्चित्तद्व्यतिरिक्तोऽर्थ इति, यथोक्तं 'द्यौः क्षमा
निर्विभागो भागः परमाणुरुच्यते यदि निर्विभागभागस्य प्रत्यक्षतेष्यते तदा परमाणोाह्यताप्रसङ्गः स च नेष्ट इत्याहपरमाणव इति । एवञ्च परमाणोरतीन्द्रियत्वेनाप्रत्यक्षत्वात् तत्समुदायरूपस्य भागिनः प्रत्यक्षता न स्यादेव, एकस्याप्रत्य
क्षत्वे तत्समूहस्याप्यप्रत्यक्षत्वादित्याह-नहीति । अदृश्यत्वे हेतुमाह-भागान्तरेति, आराद्भागरूपपरमाणुवद्भागान्तरयो. 20 मध्यपरभागयोरपि परमाणुत्वेनादृश्यत्वादित्यर्थः । निदर्शनमाह-सिकतेति, प्रत्येकं सिकतासु तैलादर्शने सिकतासमूहेऽपि तददर्शनवत् भागत्रयभूतानां परमाणूनामदर्शने तत्समुदायात्मकभागवतोऽप्यदर्शनमेवेति भावः । भागवति वेति भागिनः परमाणुसंघातस्यैव यदाऽदर्शनं तदा तद्भागानां परमाणूनामदशने किमु वक्तव्यं भागिनश्चादर्शनं मध्यपरभागाग्रहणादिति भावः । भागस्याग्रहणे भागिनोऽदर्शनम् , भागिनोऽदर्शने सुतरां भागस्याग्रहणमित्यर्थद्वयस्य व्याख्यामाहेत्याह-अस्यार्थद्वयस्येति।
एवं दर्शनाद् दृश्यं वस्तु नास्तीत्युक्तम् , एवञ्च दृश्यस्याभावे दर्शनस्यापि दृश्यबललभ्यस्याभावाद् दृश्यदर्शनव्यवहारो 25 लोके परिदृश्यमानः कथं स्यादित्याशङ्कते-दृश्यदर्शनेति । व्याचष्टे-दृश्येति । प्रोक्तव्यवहारो विज्ञानमात्रोत्थापितो न बाह्य
वस्तुनिबन्धन इत्युत्तरयति-अयन्त्विति, आलयविज्ञानोत्थापिताः सर्वे व्यवहाराः,आलयविज्ञानस्यैवार्य धर्मो बाह्यानपेक्षोऽनादिवासनावशात्तत्तदाकारेण खभावभूतोऽवभासो बहिर्वदध्यवसीयत इत्याह-विज्ञानश्चेति, इन्द्रियाख्यां शक्तिमान्तरं रूपञ्चोपादाय विज्ञानमर्थावभासि रूपाद्यविभक्तमुत्पद्यते बहिर्वदवभासते च, विज्ञानव्यतिरिक्तस्यावस्तुत्वात्तस्यैव वस्तुत्वादिति भावः । तत्र दृष्टान्तमाह-स्वप्नवदिति । दृष्टान्तं प्रकाशयति-यथा सुप्त इति, अन्तर्विज्ञानपरिणामात्खप्ने सुप्तपुरुषस्याल्पे हृदयाकाशे 30 महान्ति हस्तियूथपर्वतादीनि बाह्यार्थभूतहस्त्याद्यभावेऽपि पश्यति तथैव जाग्रद्दशायामपि रूपादिविज्ञानानि अन्तर्वर्त्यर्थावभासान्येव,
न ततोऽतिरिक्तो बाह्योऽर्थः कश्चिदस्तीति भावः। तस्यैवान्तर्विज्ञानस्य धर्मो बाह्यार्थनिरपेक्षवभावभूतावभासतेत्यत्र वाक्यपदीयं वचनमाह-द्यौः क्षमेति, एते सर्वेऽन्तःकरणस्यैव भागाः प्रतिबिम्बकाः बहिरवस्थिताः, अन्तरवस्थितस्यैव बहीरूपतयाऽव
सि. . छा. डे. संवृत्ते । २ सि. क्ष. छा. डे. जाग्रत्स्वस्थरूपा०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org