________________
वस्तुदर्शनाभावसाधनम् ]
द्वादशारिनयचक्रम्
११४९
www ww
सर्वथाप्ययुक्तय इत्यादि - न सन्ति युक्तयो येषामर्थानामयुक्तयस्ते, यद्यपि युक्तितो नोपलभ्यन्ते प्रत्यक्षत उपलभ्यन्ते दृश्यन्ते दृश्यमानाश्च निराकर्तुं न शक्यन्ते, अतो दर्शनावगृहीत सद्भावाः सन्तोऽर्थाः कल्पयितव्या इति, यदि कल्पयेरन् तथापि न सन्ति, तस्य दर्शनस्यासम्भवात् तद्व्याख्या - तदपि च दर्शनं नास्त्येव, कथं दर्शनं नास्ति ? उच्यते - यतो यावदित्यादि - यावद् दृश्यं तावत्, [ आरान्मध्य ] परभागम्, दृश्याभिमतस्य हि वस्तुन आराद्भाग एव दृश्यते न परमध्यभागौ दृश्येते तैश्चावश्यमारान्मध्यपरभागैर्भवितव्यं वस्तुनः, 6 तत्र यद्याराद्भागो दृश्यत इति प्रत्यक्षमिष्यते परमध्यभागयोरदर्शनादप्रत्यक्षता तस्य किं नेष्यते ? तस्माददर्शनमेव वस्तुनः, न हि आराद्भागमेव वस्त्विति ।
www
अथ मतमाराद्भागो नियमात् प्रत्यक्षतो ग्रहीष्यते परमध्यभागावप्यनुमानात् कालान्तरे च प्रत्यक्षतो ग्रहीष्येते इति, न तत्रापि त्रिभागत्वतुल्यत्वाददर्शनमेव सावयवत्वात् समस्तवस्त्वदर्शनवत् अथ मतं भागो द्रक्ष्यत इति परमाणवस्तर्हि गृह्यताम्, तेष्वदृश्यमानेषु 10 निर्भागेषु भागवद् दृश्यत इति का कथा ? भागान्तरादृश्यत्वात्, सिकता तैलवद्वा प्रत्येक दर्शनाभावे तत्समुदायेऽपि दर्शनाभावात्, यदा च परमाणुर्न कस्यचिद् दृश्यस्तदा कुतः परमाणु संघातो भागवान् द्रक्ष्यते ? भागवति वा परमध्याग्रहणादगृह्यमाणे तदंशा निर्विभागाः परमाणवो ग्रहीष्यन्ते ? इति ।
www
अथ मतमित्यादि, स्यादियं ते मतिराराद्भागस्तावग्रहीष्यते नियमात् प्रत्यक्षतः तथा मध्यपर- 15 भागानप्यनुमानात् कालान्तरे प्रत्यक्षतो ग्रहीष्येते, तस्मान्नादर्शनतेति, अत्र ब्रूमः - न तत्रापि त्रिभागत्वतुल्यत्वात्-आराद्भागेऽपि दृश्याभिमते त्रयो भागाः सम्भवन्त्येव, आरान्मध्यपरभागाख्याः सावयवत्वात्, विभज्यमानं हि सावयवं त्रिधा व्यवतिष्ठते ततस्तवात्रापि परमध्यभागा दर्शनम् त्रिभागतुल्यत्वात् समस्तवस्त्वदर्शनवदिति, एवं तावत् सावयवस्य त्रिभागस्य दर्शनासम्भवः, अथ मतं भागो द्रक्ष्यत इति-यन्निर्विभा
दपीति । यद्यपि भावा युक्तिभिर्न सिद्ध्यन्ति प्रत्यक्षतस्तूपलभ्यन्ते, उपलभ्यमानाश्च प्रतिषेद्धुं न शक्याः, तस्माद्दर्शनबलेन 20 सिद्धसत्ताका भावा अभ्युपेया एवेति कथं शून्यतेत्याशङ्कते - तत्र परमताऽऽशङ्केति । एवं स्यात् कल्पना तेषां परन्तु भावानां दर्शनमेव तावन्न सम्भवतीत्याह-यदि कल्पयेरन्निति । कथं दर्शनं न सम्भवतीत्यत्राह - तदपि चेति । यद्दृश्यत्वेनाभिमतं तत् सभागम्, आरान्मध्यपरभागम्, तत्र दृश्यत्वेनाभिमतं वस्तु चक्षुषा न पूर्ण गृह्यते किन्त्वाराद्भाग एव तस्य गृह्यते, न तु मध्यपरभागौ, सन्निकर्षासम्भवात् न चाराद्भागमात्रमेव वस्तु भवितुमर्हति भागत्रयव्याप्यत्वाद्वस्तुन इति वस्तु न दर्शनविषय इत्याह- यावद् दृश्यमिति । भागत्रयव्याप्यत्वं वस्तुन आह - तैश्चेति । तत्राराद्भागमात्रदर्शनादेव यदि वस्तुनः 25 प्रत्यक्षत्वमिष्यते तर्हि विनिगमकाभावान्मध्यपरभागयोरदर्शनाद्वस्तुनोऽप्रत्यक्षत्वमेव कुतो नेष्यते ? तस्मादाराद्भागमात्रस्यावस्तुत्वाद्वस्तुनोऽदर्शनमेव युक्तमित्याह-यत्र यदीति । नन्विदानीमाराद्भागस्य प्रत्यक्षनैयत्ये मध्यपरभागयोरनुमानाद्वहः कालान्तरे वा प्रत्यक्षत इति वस्तुनो दर्शनं स्यान्नादर्शनमिति शङ्कते - अथ मतमिति । व्याख्याति - स्यादियमिति, आराद्भागेणेन्द्रियसन्निकर्षस्यावश्यं सद्भावात् स गृह्यतां नाम, मध्यपरभागौ तु तदानीमनुमानतः कालान्तरे वा प्रत्यक्षतो गृह्येते इत्येवं वस्तुप्रत्यक्षतेति भावः । घटादेरिव आराद्भागस्यापि भागत्रयव्याप्यत्वात्तस्यापि भाग एव गृह्यते नाराद्भागस्य पूर्णस्येत्युत्तरयति - न 30 तत्रापीति, आराद्भागेऽपीत्यर्थः । व्याचष्टे - आराद्भागेऽपीति भागत्रयाणामपि सावयवत्वात्तेऽपि त्रित्रिभागाः तेषु भागत्रयेष्वपि आराद्भाग एव गृह्येत न मध्यपरभागौ, तस्मान्न परिपूर्णवस्तुदर्शनं तत्रापीति भावः । एवं भागानां विभज्य - मानानां योऽयमन्तिमो भागो निर्विभागरूपः स तु गृह्यत एवेत्याशङ्कते - अथ मतमिति । व्याचष्टे - यदिति । स हि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org