________________
१९४८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमनियमनयः
कस्मात् ? आ रूपादिभ्योऽवयविनश्चासत्त्वस्योक्तत्वात् - तद्यथा तन्तवोंऽशुषु, अंशवस्त्रुटिषु त्रुटयः पक्ष्मसु पक्ष्मादि स्वावयवेषु न सन्तीत्यादि यावत् परमाणुशो विभागस्तावदवयव्येव, परमाणुरविभागत्वान्निरवयवः सन्निति चेत्, सोऽपि रूपरसगन्धस्पर्शभेदेनावयव्येव, एवं तर्हि रूपादयोऽवयवा एव नावयविन इति चेत् तेऽपि न स्वतो रूपादित्वं लभन्ते यस्माद्रूपादयस्तु रूपणादिनिरूपितविज्ञानसारा :- रूप्यत इति रूपं रस्यत 5 इति रस इत्यादिविज्ञानेनैव निरूप्यन्ते रूपादयः तत्स्वरूपविज्ञानेन प्रकल्प्यन्ते तत्र रूपादीनां परस्परतः पृथक्त्वं हेतुत्व बुद्धौ वृत्तेः संघटते, न तस्यामवृत्तेः स्वात्मनैव तस्माद्वहिर स्तित्वं [न] जनयितुमर्हतः ते हेतुपृथक्त्वे, बुद्धिव्यतिरेकेण स्वरूपाभावात्, तदुपसंहृत्याह - हेत्वाद्यभावे सामग्र्यभावात् - हेतु प्रत्ययस्वरूपपृथक्त्वानामभावे रूपादीनां का सामग्री ? सामग्र्यभावे का द्रव्यतेति ? द्रव्याभावे सर्वाभावप्रसिद्धिः, तस्मादयुक्तमुक्तमवयवी सामग्री विद्यते अवयवा एव वा सन्तीति, किञ्चान्यत् - इतरेतराश्रयदोषाच्च - अवयव - 10 सद्भावेऽवयवास्तदवयवत्वात् सिद्ध्यन्ति हेतुत्वाच्च तेषु वाऽवयवेषु सत्सु तदवयवित्वात् कार्यत्वादवयवीसिद्ध्यतीति तदिदमितरेतराश्रयत्वम्, इतरेतराश्रयाणि च न प्रकल्पन्ते तद्यथा - नौर्नावि बद्धा नेतरत्राणायेति, एवं सामग्रीदर्शनादपि न सन्ति सर्वभावाः ।
www
इतश्च न सन्ति तथाऽदशनात्, 'सर्वथाऽप्ययुक्तयो दर्शनावगृही तसद्भावाः सन्तोऽर्थाः कल्पयितव्याः, तथापि न सन्ति तस्य दर्शनस्यासम्भवात् तदपि च दर्शनं नास्त्येव यतो यावद् 10 दृश्यं तावदारान्मध्यपरभागम् तत्र यद्याराद्भागो दृश्यते इति प्रत्यक्षमिष्यत परमध्यभागयोरदर्शनादप्रत्यक्षता तस्य किं नेष्यते १ तस्माददर्शनमेव वस्तुनः ।
(इतश्चेति) इतश्च न सन्ति तथाऽदर्शनात् - अदर्शनादपि तेनैव प्रकारेण न सन्ति तत्र परमताऽऽशङ्कातन्तोरपि खावयवं प्रति तदवयवोऽपि स्वावयवं प्रतीत्येवं यावत्परमाणुरूपं सामग्रीत्वेन प्रोक्तरीत्या तासां तन्त्वादिसामग्रीणामभावसिद्धेरिति समाधत्ते आ रूपादिभ्य इति, आन्त्र मर्यादायां न त्वभिविधौ, रूपादेरनवयवित्वादिति तद्यतिरिक्तानां सर्वेषा - 20 मवयवित्वेनाभावः सिद्ध एवेति भावः । तदेव साधनं व्याचष्टे - तद्यथेति । ननु तन्त्वादीनां सावयवत्वेनाभावे सिद्धेऽपि निरवयवस्य परमाणोः कथमभाव इत्याशङ्कते - परमाणुरिति । परमाणोः निरवयवत्वमसिद्धम्, रूपरसगन्धस्पर्शसमुदायात्मकत्वादित्याहसोऽपीति परमाणुरपीत्यर्थः । एवं तर्हि रूपादेर्निरवयवत्वादस्तित्वं स्यादित्याशङ्कते एवं तर्हीति । रूपादिनामपि न खरूपतोऽस्तित्वम्, किन्तु विज्ञानेन रूप्यमाणत्वाद्रूपं रस्यमानत्वाद्रसः प्रायमाणत्वाद्गन्धः स्पृश्यमानत्वात् स्पर्श इत्येवं रूपादयो विज्ञानेनैव निरूप्यन्तेऽतो विज्ञानसाराः रूपणादिस्वरूपविज्ञान प्रकल्पितत्वादिति समाधत्ते - तेऽपीति, रूपादयोऽपि न स्वतो रूपादिभावं 25 लभन्ते किन्तु विज्ञानेनेति भावः । रूपमिति बुद्धौ रस इति बुद्धौ गन्ध इति बुद्धौ स्पर्श इति बुद्धौ च प्रतिभासमानत्वादेव तत्तद्बुद्धि
प्रति तेषां हेतुत्वम्, विभिन्नबुद्धिनिरूप्यत्वादेव च तेषां परस्परं भेदः तस्मात्ते बुद्ध्यधीन सत्ताकत्वे बुद्धिवृत्तयः, न तु बुद्ध्यत्त्या स्वरूपं तेषां हेतुत्वं पार्थक्यञ्च सम्भवन्तीत्याह यस्माद्रूपादयस्त्विति । तस्मादिति, यस्माद्रूपादीनां हेतुत्वतत्स्वरूप पृथक्त्वे विज्ञानायत्ते तस्मात्ते रूपादीनां बुद्ध्यविनाभावि त्वरूपाणां बहिरस्तित्वं न सम्पादयत इति भावः । रूपादिनां स्वरूपं बुद्धिरेव न ततो व्यतिरिक्तं स्वरूपमस्तीत्याह-बुद्धिव्यतिरेकेणेति । एवञ्च रूपादीनां हेतुत्वस्य स्वरूपपृथक्त्वस्य चाभावात् काचित् सामथ्र्यपि 30 नास्ति, यया द्रव्यता सिद्धयेदिति नास्ति कश्चिदवयवी अवयवो वेयाह- हेत्वाद्यभाव इति । व्याचष्टे - हेतुप्रत्ययेति । अवयविसिद्धौ तत्कारणतयाऽवयवसिद्धिः स्यात्, अवयवसिद्धौ च तत्कार्यतयाऽवयविसिद्धिः स्यादिति परस्परापेक्षत्वादुभयोरसिद्धिरिति दोषान्तरमाह- इतरेतरेति । व्याकरोति- अवयवीति । सामग्री दर्शनमुपसंदरति- एवमिति । एवमदर्शनादपि नास्ति वस्त्वित्याह- इतश्चेति । यथा सामग्री दर्शनादिभ्यो वस्तुनः शून्यता तथाऽदर्शनादपि शून्यता सर्वभावानामिति व्याचष्टे - अदर्शना
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org