Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 265
________________ ww ११४२ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः __ अथ मा भूद्विज्ञानमात्रताप्रसङ्ग इत्यन्यथाऽऽदिः प्रधानादिरिष्यते पूर्वप्रत्युपसंहारसमाहितत्वादिति स सोपसंहारः किं नित्यः ? उतानित्यः ? अथादिनित्यतायां दोषान्नित्यनिष्ठितमिष्यते ततः पूर्वोक्त एव दोषो यावद्विज्ञानमात्रार्थता, अन्तनित्यतायान्त्वसत्त्वमेव । अथ मा भूदित्यादि, स्यान्मतं निष्ठितत्वादेर्विज्ञानमात्रताप्रसङ्गः, स मा भूदित्यन्यथाऽऽदिरिष्यते, । कः ? प्रधानादिः प्रधानपुरुषकालस्वभावादि, तदेव च कारणं तन्मात्रञ्चेदं घटपटादिकार्यम् , कस्मात् ? पूर्वप्रत्युपसंहारसमाहितत्वात्-कार्यात् प्रागपि तस्मिन्नेव प्रधानाद्यन्यतमकारणमात्रे समाहिता एव विकारा उत्तरकालमपि तत्रैवान्तर्लीनाः ततो भूतानां विद्यमानानामेव घटादीनां नित्यत्वमादिः, नारम्भादित्यत्र पृच्छयसे-स सोपसंहार इत्यादि, स आदिः प्रधानादिकारणाख्यः सहोपसंहारेण किं नित्यः ? उत-आहोस्विदनित्यः ? इति निर्धार्यः, तत्र यदि नित्यस्तत आदिरेव न भवति, अकृतकत्वात्-अनारब्धत्वात् , ततः किं ? 10 ततश्चानिष्ठितः, अनिष्ठितत्वादसन् खपुष्पवत् , अथादिनित्यतायामित्यादि , एतद्दोषभयान्नित्यनिष्ठितं पूर्वोत्तरतुल्यकालवृत्तीष्यतेऽतः पूर्वोक्त एव दोषो-नित्यवृत्तत्वादनारब्धत्वादकृतकत्वादनिष्ठितं खपुष्पवदाकाशवद्वेत्यादीति तदेवातिदिशति यावद्विज्ञानमात्रार्थता, पूर्ववदेव सत्त्वानुपपपत्तिरिति, एवमुत्पत्तिनित्यत्वे स्थितिनित्यत्वे चासत्त्वमुक्तम् , अन्तनित्यत्वं विनाशनित्यता तस्यान्त्वन्तनित्यतायामसत्त्वमेव, एवन्तावदादेर्नित्यत्वे दोषः । अथानित्यत्वे स किं जातः? किमजातो वा ? यदि जातोऽनुत्पादस्तर्हि, जातत्वात 15 निवृत्तघटवदनुत्पन्नत्वादसन्, यद्यजातस्ततोऽप्यनुत्पादः, अजातत्वात् , अनिवृत्तघटवत् जाताजातश्चेद्विरोधादुभयपक्षदोषसम्बन्धाच्च, निष्ठायामपि किं निष्ठितोऽनिष्ठितो वा? यदि निष्ठितः, अनुत्पादस्तर्हि निष्ठितत्वात् , निष्ठितघटवत् , यद्यनिष्ठितस्तथाप्यनुत्पाद एवानिष्ठितत्वात् , तद्वारणार्थ यद्यन्यप्रकार आदिरिष्यते तदापि दोषापादनार्थ शङ्कते-अथ मा भूदिति। व्याचष्टे-स्यान्मतमिति। स चादिः कारणरूपः प्रधानं पुरुषः कालः खभावादि वा भवतु दृश्यमानन्तु घटपटादिसर्व प्रधानादिमात्रमेवेत्याह-प्रधानादिरिति । 20 प्रधानादिमात्रमेव सर्व कार्यजातमित्यत्र हेतुमाह-पूर्वप्रत्युपसंहारेति । पूर्व प्राक्कार्यप्रादुर्भावात् प्रत्युपसंहारे-उपसंहारदशायां सृष्टिप्राकाले प्रलयकाले च सर्वेषां विकाराणां महदहंकारादीनां तत्रैव कारणमात्रे समाहितत्वात्-अन्तर्लीनत्वाद्विद्यमानानामेव महदादीनाभाविर्भावात् प्रधानादि नित्यं वस्तु आदिर्भवति न त्वसत आरम्भणादिति भावः । हेतुं व्याचष्टे-कार्यादिति। उपसंहृतः प्रधानादिः किं नित्य उतानित्य इति प्रश्नः, महदहङ्कारादिविशिष्टप्रधानादेनित्यत्वे कारणत्वमेव न स्यात्, महदाद्यारम्भकत्वे हि तस्य कारणता स्यात् , महदादि च प्रकृत्यन्तर्गतत्वेन तद्विशिष्ट प्रधानादेर्नित्यत्वाभ्युपगमाच्च नारम्भकत्वम् , अन्तर्लीन25 महदादेराविर्भावकत्वमपि न घटते, अन्तर्लीढमहदादित्वव्याघातात् , आविर्भूतमहदादिविशिष्टप्रधानादेनित्यत्वे सृष्टिकाल इव सर्वदाऽऽरम्भः स्यात् , यच्चानारम्भकं तदनिष्ठितमपि, अनिष्ठितञ्च खपुष्पवदसदेवेत्याह-तत्र यदीति। नन्वारम्भकत्वव्याप्यं निष्ठितत्वं मा भूत्, नित्यनिष्ठितत्वं पूर्वोत्तरकालतुल्यवृत्तित्व-सदावस्थानरूपं प्रधानादीनामभ्युपगच्छाम इत्याशय समाधत्तेऽतिदेशेनएतदोषमयादिति, स्थित्यविनाभाविनामारम्भादिक्रियाविशेषाणामनभ्युपगमे कारणमात्रनित्यताभ्युपगमे नित्यवृत्तस्याकिश्चित्करत्वादसत्त्वमेव खपुष्पवदाकाशवद्वेति प्रागुक्तमेवेति भावः । सृष्टिकालवत्प्रधानादेर्महादिविशिष्टस्य नित्यत्वे उत्पत्तिनित्यता, कारणमात्र30 नित्यत्वे स्थितिनित्यतेत्युभयथाऽप्यकिञ्चित्करत्वात् प्रधानादीनामसत्त्वमेवेति दर्शयति-एवमिति । विनाशस्य नित्यत्वे तु प्रधानादीनामसत्त्वं स्फुटमेवेत्याह-अन्तनित्यत्वमिति । सोपसंहृतस्य प्रधानादेरनित्यत्वपक्षे दोषमाह-अथानित्यत्व इति। व्याकरोति १ सि. क्षा. डे. उताहोकश्चिदनित्यः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364