________________
ww
११४२
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः __ अथ मा भूद्विज्ञानमात्रताप्रसङ्ग इत्यन्यथाऽऽदिः प्रधानादिरिष्यते पूर्वप्रत्युपसंहारसमाहितत्वादिति स सोपसंहारः किं नित्यः ? उतानित्यः ? अथादिनित्यतायां दोषान्नित्यनिष्ठितमिष्यते ततः पूर्वोक्त एव दोषो यावद्विज्ञानमात्रार्थता, अन्तनित्यतायान्त्वसत्त्वमेव ।
अथ मा भूदित्यादि, स्यान्मतं निष्ठितत्वादेर्विज्ञानमात्रताप्रसङ्गः, स मा भूदित्यन्यथाऽऽदिरिष्यते, । कः ? प्रधानादिः प्रधानपुरुषकालस्वभावादि, तदेव च कारणं तन्मात्रञ्चेदं घटपटादिकार्यम् , कस्मात् ? पूर्वप्रत्युपसंहारसमाहितत्वात्-कार्यात् प्रागपि तस्मिन्नेव प्रधानाद्यन्यतमकारणमात्रे समाहिता एव विकारा उत्तरकालमपि तत्रैवान्तर्लीनाः ततो भूतानां विद्यमानानामेव घटादीनां नित्यत्वमादिः, नारम्भादित्यत्र पृच्छयसे-स सोपसंहार इत्यादि, स आदिः प्रधानादिकारणाख्यः सहोपसंहारेण किं नित्यः ? उत-आहोस्विदनित्यः ? इति निर्धार्यः, तत्र यदि नित्यस्तत आदिरेव न भवति, अकृतकत्वात्-अनारब्धत्वात् , ततः किं ? 10 ततश्चानिष्ठितः, अनिष्ठितत्वादसन् खपुष्पवत् , अथादिनित्यतायामित्यादि , एतद्दोषभयान्नित्यनिष्ठितं पूर्वोत्तरतुल्यकालवृत्तीष्यतेऽतः पूर्वोक्त एव दोषो-नित्यवृत्तत्वादनारब्धत्वादकृतकत्वादनिष्ठितं खपुष्पवदाकाशवद्वेत्यादीति तदेवातिदिशति यावद्विज्ञानमात्रार्थता, पूर्ववदेव सत्त्वानुपपपत्तिरिति, एवमुत्पत्तिनित्यत्वे स्थितिनित्यत्वे चासत्त्वमुक्तम् , अन्तनित्यत्वं विनाशनित्यता तस्यान्त्वन्तनित्यतायामसत्त्वमेव, एवन्तावदादेर्नित्यत्वे दोषः ।
अथानित्यत्वे स किं जातः? किमजातो वा ? यदि जातोऽनुत्पादस्तर्हि, जातत्वात 15 निवृत्तघटवदनुत्पन्नत्वादसन्, यद्यजातस्ततोऽप्यनुत्पादः, अजातत्वात् , अनिवृत्तघटवत्
जाताजातश्चेद्विरोधादुभयपक्षदोषसम्बन्धाच्च, निष्ठायामपि किं निष्ठितोऽनिष्ठितो वा? यदि निष्ठितः, अनुत्पादस्तर्हि निष्ठितत्वात् , निष्ठितघटवत् , यद्यनिष्ठितस्तथाप्यनुत्पाद एवानिष्ठितत्वात् , तद्वारणार्थ यद्यन्यप्रकार आदिरिष्यते तदापि दोषापादनार्थ शङ्कते-अथ मा भूदिति। व्याचष्टे-स्यान्मतमिति। स चादिः
कारणरूपः प्रधानं पुरुषः कालः खभावादि वा भवतु दृश्यमानन्तु घटपटादिसर्व प्रधानादिमात्रमेवेत्याह-प्रधानादिरिति । 20 प्रधानादिमात्रमेव सर्व कार्यजातमित्यत्र हेतुमाह-पूर्वप्रत्युपसंहारेति । पूर्व प्राक्कार्यप्रादुर्भावात् प्रत्युपसंहारे-उपसंहारदशायां
सृष्टिप्राकाले प्रलयकाले च सर्वेषां विकाराणां महदहंकारादीनां तत्रैव कारणमात्रे समाहितत्वात्-अन्तर्लीनत्वाद्विद्यमानानामेव महदादीनाभाविर्भावात् प्रधानादि नित्यं वस्तु आदिर्भवति न त्वसत आरम्भणादिति भावः । हेतुं व्याचष्टे-कार्यादिति। उपसंहृतः प्रधानादिः किं नित्य उतानित्य इति प्रश्नः, महदहङ्कारादिविशिष्टप्रधानादेनित्यत्वे कारणत्वमेव न स्यात्, महदाद्यारम्भकत्वे हि तस्य कारणता स्यात् , महदादि च प्रकृत्यन्तर्गतत्वेन तद्विशिष्ट प्रधानादेर्नित्यत्वाभ्युपगमाच्च नारम्भकत्वम् , अन्तर्लीन25 महदादेराविर्भावकत्वमपि न घटते, अन्तर्लीढमहदादित्वव्याघातात् , आविर्भूतमहदादिविशिष्टप्रधानादेनित्यत्वे सृष्टिकाल इव सर्वदाऽऽरम्भः स्यात् , यच्चानारम्भकं तदनिष्ठितमपि, अनिष्ठितञ्च खपुष्पवदसदेवेत्याह-तत्र यदीति। नन्वारम्भकत्वव्याप्यं निष्ठितत्वं मा भूत्, नित्यनिष्ठितत्वं पूर्वोत्तरकालतुल्यवृत्तित्व-सदावस्थानरूपं प्रधानादीनामभ्युपगच्छाम इत्याशय समाधत्तेऽतिदेशेनएतदोषमयादिति, स्थित्यविनाभाविनामारम्भादिक्रियाविशेषाणामनभ्युपगमे कारणमात्रनित्यताभ्युपगमे नित्यवृत्तस्याकिश्चित्करत्वादसत्त्वमेव खपुष्पवदाकाशवद्वेति प्रागुक्तमेवेति भावः । सृष्टिकालवत्प्रधानादेर्महादिविशिष्टस्य नित्यत्वे उत्पत्तिनित्यता, कारणमात्र30 नित्यत्वे स्थितिनित्यतेत्युभयथाऽप्यकिञ्चित्करत्वात् प्रधानादीनामसत्त्वमेवेति दर्शयति-एवमिति । विनाशस्य नित्यत्वे तु प्रधानादीनामसत्त्वं स्फुटमेवेत्याह-अन्तनित्यत्वमिति । सोपसंहृतस्य प्रधानादेरनित्यत्वपक्षे दोषमाह-अथानित्यत्व इति। व्याकरोति
१ सि. क्षा. डे. उताहोकश्चिदनित्यः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org