________________
शब्दा विज्ञानोत्पत्तिहेतवः ]
द्वादशारनयचक्रम्
१९४१
wwwww
नवाकाशमित्यादि, आकाशा सत्त्वासिद्धिप्रदर्शनार्थमनुमानम्, शुद्धपदवाच्यत्वान्निर्वृत्तं निष्ठितं सदेव तत्, प्रमाणज्ञानवदित्यत्रोच्यते - कुतोऽस्य शुद्धपदतेति हेत्वसिद्ध्यापादनम्, तस्य समासपदतां दर्शयति- आङीषदर्थ उपसर्गः काट दीप्ताविति धातुः, आकाशत इत्याकाशम् । 'कुगतिप्रादयः' ( पा० २२-१८) इति समासत्वात्, कोऽस्यार्थ इति तत्प्रदर्शनार्थमाह-मृगतृष्णिका वदाभासत इत्याकाशमिति - यथा मृगतृष्णिका जलार्थत्वेनासती तद्वदाभासते तथाऽऽकाशमप्यविद्यमानं विद्यमानवद्विज्ञानेन गृह्यते, विज्ञानस्यैव तथा तथोत्पादात्, स्यान्मतं खवियद्व्योमादिशुद्धपदवाच्यत्वान्नासिद्धिरिति एतच्चायुक्तम्, यदि च खादिशुद्धपदार्थेत्यादि, यदि वयं शुद्धपदवाच्यमपि शब्दार्थं प्रतिपद्येमहि ततो विज्ञनामात्रमेवेदं सर्वमिति नाभ्युपगच्छेम - न ब्रूयाम, अस्माकं हि वियद्गगनखांबर व्योममायाशून्यघटपटादिशब्दानामपि विज्ञानव्यतिरिक्तो नैवार्थोऽस्तीति सिद्धम्, तत्प्रतिपादनार्थञ्च यतिष्यामहे, अनेनेत्यादि, एतेन खादिशुद्धपदार्थापलापेन सर्वे शब्दाः क्रियाकारकसम्बन्धार्थवाचिन एवेति नैरुक्ताभिमतानां व्युत्पत्तिपक्षे यादृच्छिकशब्दानां 10 वाऽव्युत्पत्तिपक्षे डित्थादीनां नञादिप्रतिषेधसहितानां केवलानां वा न कैश्चिद्विद्यतेऽर्थस्तस्मात् विज्ञानाधाननिमित्तमात्रत्वादसदर्था एव सर्वशब्दा इति ।
शुद्धपदवाच्यत्वञ्चासमस्तपदवाच्यत्वं यथा प्रमाणभूतं ज्ञानं शुद्धपदवाच्यत्वान्निष्ठितं सत् एवमाकाशमपीत्याचष्टे - शुद्धपदवाच्यत्वादिति । अथissकाशस्य शुद्धपदवाच्यत्वमसिद्धमा काशपदस्यापि समस्तत्वादित्याह - कुतोऽस्येति । आकाशते ईषद्दीप्यते, दीप्तावीषत्त्वञ्च मृगतृष्णिकाबदाभासमानत्वमिति व्युत्पत्तिमाकाशपदस्य दर्शयति- आङीषदर्थ इति । कुगतिप्रादय इति सूत्रेणा - 15 च्प्रत्ययान्तकाशशब्देन गतिसमासः प्रादिसमासो वेत्याह- कुगतीति, कुशब्दो गतिसंज्ञकः शब्दः प्राद्युपसर्गश्च समर्थेन समस्यत इति तदर्थः । आकाशशब्दार्थमाह-मृगतृष्णि केति । तदेव घटयति-यथेति । मृगतृष्णिका जलरूपेणासती दोषवशाज्जलवनह्यते तथाऽवभासनात् तथैवाऽऽलयविज्ञानमान्तरमेव तथातथाविधानादिवासनापरिपाकतो नीलपीतादितत्तदाकारयोगतः प्रवृत्तिविज्ञानं नानाकारं जायते तस्मादाभ्यन्तरा एव नीलपीतादयो बहिर्वदवभासन्ते न तु ते धीभ्यो व्यतिरिक्ताः, तस्मादविद्यमानमेवाकाशादि वासनावैचित्र्याद्विद्यमानवद्गृह्यते ज्ञानेन, आलयविज्ञानात्तथाविधान्नानाकारप्रवृत्तिविज्ञानस्योदयादिति भावः । नन्वाकाश - 20 पदस्य समस्तपदत्वेऽपि खवियद्व्योमादिपदानां शुद्धपदत्वात्तद्वाच्यत्वेनाकाशः सन्निति शङ्कते - स्यान्मतमिति । समाधत्तेयदि चेति, यच्छुद्धपदवाच्यं तद्वस्तु सदित्येव नाभ्युपगच्छामः, येन खादिपदवाच्यतयाऽकाशादिसिद्धिः स्यात्, चेदभ्युपेमस्तथा नाभिदध्महे विज्ञानमात्रमिदं सर्वमिति, यदा चास्माकं शब्दार्थोऽपि विज्ञानमेव न तु कश्चित्तव्यतिरिक्तोऽर्थः प्रतिपादयिष्यते चाग्रे 'विज्ञानमेव शब्दार्थः, विज्ञानमेव हि शब्दो विज्ञानोत्थापितो रूपरसादिघटपटादिबाह्यो वाच्यो विज्ञानमेव' इति, तदा कथं खादिशब्दवाच्यं बाह्यं वस्तु सिद्ध्येदिति भावः । शब्दानामपि विज्ञानमेवार्थ इत्याह- अस्माकं हीति । शब्दविषये पक्षद्वयमस्ति, 25 सर्वे शब्दा व्युत्पन्ना एवेत्येकः पक्षः, अपरस्तु अव्युत्पन्ना अपीति, व्युत्पन्नत्वञ्च क्रियाकारकसम्बन्धवाचिप्रकृतिप्रत्यय समुदायत्वम्, यथा पाचकः कारक इत्यादि, अव्युत्पन्नत्वन्तु प्रकृतिप्रत्ययविभागपरिज्ञानाविषयत्वे सत्यनादिव्यवहारगोचरत्वम्, यथा रामो गौः शुक्लः कृष्ण इत्यादि, एवञ्च व्युत्पत्तिपक्षे सर्वशब्दानां निर्वचनयोग्यतया शुद्धपदवाच्यत्वं न कस्यापि पदार्थस्य, अव्युत्पत्तिपक्षेऽपि यदृच्छाप्रयुक्तशब्दानां डित्थादीनां न कश्चिदर्थः, अत एवाधुनिकसङ्केतिते न शक्तिरिति सम्प्रदायः, नजादिसहितेऽब्राह्मण इत्यादिसमस्तपदेऽपि नार्थप्रत्यायकता अत एव न समासे शक्तिरिति केचित्, केवलानामसमस्तपदानामपि अर्थेन साकं तादात्म्यकार्य - 30 कारणभावसम्बन्धासम्भवेन न वाचकत्वमपि तु विज्ञानजनननिमित्ततामात्रमेवेति न कश्चिदर्थः शब्दस्यति सर्वे शब्दा अवाचका एवेति भावः । एवञ्च निष्ठितत्वादारम्भादिप्रधानादीनामभ्युपेयम्, अन्यथा खपुष्पवद्वाऽऽकाशवद्वाऽसत्त्वमेव तेषां स्यात्, शुद्धपद-, वाच्यत्वादपि नाकाशादीनां सिद्धिः शुद्धपदाभावात् भावे वा सर्वपदानां विज्ञानव्यतिरिक्तार्थाभावाद्विज्ञानमात्रताप्रसङ्गः,
१ सि. क्ष. छा. डे. कश्चिद्विद्ध्यधास्तन्यत्र विज्ञाना० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org