________________
सतम्
mmmmmunnawaniw
wwww
११४०
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः द्विःप्रतिषेधस्य प्रकृत्यापत्तेः, कथमसत्कार्यानभ्युपगमादिति, उच्यते, प्रधानादीनां नित्यनिष्ठितत्वाभ्युपगमात्-नित्यं निष्ठितमेव प्रधानमहदहंकारादिव्यक्ताव्यक्तज्ञाख्यं सर्वमित्यभ्युपगमादारम्भोऽभ्युपगतो भवत्यारम्भमन्तरेण क्रियाभावात् क्रियामन्तरेण च निष्ठानाभावात् , तदुपसंहृत्य साधनमाह-अतस्तानीत्यादि, तानि प्रधानादीन्यारब्धान्येव, निष्ठितत्वात् , घटवत्, घटनिष्ठानक्रियारम्भाणां लोकप्रसिद्धत्वा5 दुदाहरणसिद्धेः प्रधानादीनां तदुपनयसिद्धिः, एवमारब्धत्वात् कृतकत्वसिद्धिः, तथा कृतकत्वात् पर्यव
सानवन्त्यपि, तस्मादाद्यन्तवन्तः प्रधानादयः, यत्त्वेवं न भवतीति वैधर्म्यदृष्टान्तः, साधनान्तरं वा गतार्थमाद्यन्तवत्त्वाभावे खपुष्पवदसत्त्वापादनं प्रधानादीनाम् , आदिग्रहणात् पुरुषादिष्वपि प्रसङ्गः समानचर्चः, अनेनैव साधनेन गतार्थत्वेऽप्युपपत्त्यन्तरनिराकरणार्थमाकाशदृष्टान्तेनानिष्टापादनसाधनं-अथ त्वेव
मपि नैवाभ्युपगम्यत आरम्भादीत्यादि यावदाकाशवदिति । 10 आह
नन्वाकाशं शुद्धपदवाच्यत्वानिवृत्तं निष्ठितं सदेव प्रमाणज्ञानवदित्यत्रोच्यते कुतोऽस्य शुद्धपदता ? आङीषदर्थ उपसर्गः, काश दीप्ताविति धातुः, आकाशत इत्याकाशम् , 'कुगतिप्रादयः' (पा.२-२-१८) इति समासत्वात् मृगतृष्णिकावदाभासत इत्याकाशमिति विज्ञानस्यैव तथातथोत्पादः। यदि च खादिशुद्धपदार्थप्रतिपत्तिं कुर्मस्ततो विज्ञानमात्रमेवेदं 15 सर्वमिति नाभ्युपगच्छेम, अस्माकं हि वियद्गगनखाम्बरव्योममायाशून्यघटपटादिशब्दानामपि विज्ञानमात्रार्थतेति, अनेन सर्वे शब्दा विज्ञानाधाननिमित्तमात्रत्वादसदों एव । वादमभ्युपेमः, येनोत्पत्तिप्रसक्त्या व्याघातोऽनुत्पन्नवस्त्वभ्युपगमे स्यादित्याशङ्कते-कथमिति । प्रधानादीनामारब्धत्वं साधयतिप्रधानादीनामिति प्रधानेऽव्यक्ते महदहङ्कारादीनां सत्कार्यवादाभ्युपगमान्नित्यनिष्ठितत्वात् , प्रधानस्य प्रकृतित्वादेव नित्यनिष्ठितत्वम् , तस्य पुरुषस्य विभुत्वेनाक्रियत्वान्नित्यनिष्ठितत्वमिति भावः । एवञ्च व्यक्ताव्यक्तज्ञानां निष्ठितत्वेऽभ्युपगम्यमाने निष्ठानस्य 20 क्रियामन्तरेण क्रियायाश्चारम्भणमन्तरेणासम्भवात् सदारम्भोऽभ्युपगत एव भवतीत्याह-नित्यं निष्ठितमेवेति । इदमेव प्रयोगतः
साधयति-अतस्तानीत्यादीति, यस्य यस्य निष्ठितत्वं तस्य तस्यारम्भो दृष्टः, यथा घटादेः, यद्यदारब्धं तत्तत्कृतकम्, यद्यच्च कृतकं तत्तत्पर्यवसायि सर्वत्र घट एव निदर्शनम् , निष्ठानक्रियाऽऽरम्भाणां घटादेर्लोके सिद्धत्वादुदाहरणम् , एवञ्चाविनाभावसिद्धौ, हेतूनां तेषां प्रधानादावुपनयः सिद्ध इति भावः । कृतकत्वादिसिद्धिमाह-एवमारब्धत्वादिति । एवं प्रधानादीनामाद्यन्तवत्त्वं सिद्धमित्याह-तस्मादिति. निष्ठानक्रियारम्भकृतकपर्यवसायित्वादित्यर्थः । यत्त्वारम्भकृतकपयेवसायि न भवति तदसदेव, खपुष्प25 वदिति वैधर्म्यनिदर्शनमित्याह-यत्त्वेवमिति । नन्वाद्यन्तवत्त्वं हि साध्यमारम्भादिसाधनं साध्याभावेन हेत्वभावप्रदर्शनं यत्र क्रियते तद्वैधम्येदृष्टान्तः, उक्तसाध्याभावेन नित्यत्वमेव सिद्ध्येन्नासत्त्वमिति कर्थ वैधम्यदृष्टान्तोऽयमित्यस्वरसादाह-साधनान्त वेति, यदाद्यन्तशून्यं तदसदृष्टं यथा खपुष्पादि, आद्यन्तशून्यत्वञ्च प्रधानादीनामिष्यते त्वयेति सिद्ध्यत्यसत्त्वं तेषामिति भावः। एवं पुरुषस्याप्याद्यन्तशून्यत्वं सिद्धमिति सूचयति-आदिग्रहणादिति, प्रधानादीनामित्यत्रादिग्रहणादित्यर्थः । ननु सर्वास्तित्ववादिबौद्धमते यस्यारम्भादि भवति स संस्कृतः ते च रूपस्कन्धादयः, असंस्कृत आकाशादिः तस्यारम्भाद्यभावेऽपि सत्त्वमेव, एवं प्रधानादि 30 स्यादित्येवमुपपत्त्यन्तरं निराकर्तुमाह-अनेनैवेति, आद्यन्तवत्त्वाभावेन प्रधानादीनां खपुष्पवदसत्त्वसाधनेनैव सिद्धप्रयोजनत्वेऽ
। अनिष्टापादनमाह-अथ त्वेवमपीति. निष्ठितत्वादारम्भादिप्रधानादेः सिद्धावपि यदि तन्नेष्यते ताकाशवत् अनिवृत्तमनिष्ठितमसत् तत्स्यादित्यर्थः, आरम्भाद्यभावेन संस्कृतस्यासिद्धौ कथमसंस्कृतं सेत्स्यतीत्याकाशो दृष्टान्त इति भावः । नन्वाकाशेऽ सत्त्वमसिद्धमित्याशङ्कते-नन्वाकाशमिति। नन्वाकाशं निवृत्तं-निष्ठितं सदिति यावत् , शुद्धपदवाच्यत्वात् , प्रमाणज्ञानवत्
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org