________________
अनुत्पादहेतुनाऽसत्त्वम् ]
द्वादशारनयचक्रम् तथाऽनुत्पादादित्यादि, अयुक्तेः शून्यत्ववदनुत्पादादपि वस्तुनः शून्यत्वं प्राप्नोति वस्तुवादिनः, उत्पत्तिविनाशयोरसत्त्वेऽनुत्पन्नाविनष्टत्वात् खपुष्पवदित्युपसंहरिष्यमाणशून्यत्वात् , आद्यन्तयोर्जाताजातयोरनुत्पादादसदिति,-तत्रादिरुत्पत्तिः, अन्तः क्षयः, तावाद्यन्तौ विद्येयाताम् , न वेति द्वौ विकल्पौ च, तयोः कतरमिच्छसि ? यदि नाम नेतीच्छसि ततोऽसत्त्वे तयोः सर्वभावानामनाद्यन्तत्वाद्धटादीनां नित्यता स्यात् स्थितिरेव, सा च प्रत्यक्षादिविरुद्धा स्थितिः, उत्पत्तिविनाशदर्शनात्, प्रत्यक्षपूर्वकत्वादनुमानादीनामनु- 5 मानादि भिरपि विरुध्येत, किश्चान्यत्-स्थितवस्तुविपरीतत्वादवस्तु,-उत्पन्नमवस्तु प्राप्नोति, स्थितवस्तुविपरीतत्वात् , खपुष्पवत् , किश्चान्यत्-अनुत्पन्नमेव सर्वं वस्त्वित्यभ्युपगमे सर्वसिद्धान्तव्याघातश्च, वैशेषिकसिद्धान्ते तावदुत्पत्तिमभ्युपेत्योक्तं 'द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणन्तरम् ।' 'क्रियागुणव्यपदेशाभावादसत्' (वै० अ० १ ० १ सू० १०) इत्यादि प्रागसत्कार्योत्पत्तिव्याख्यानात् ।।
अत्राह त्वयोक्तः सर्वसिद्धान्तव्याघातोऽनुत्पादाभ्युपगमेनेति तदयुक्तम्-तिष्ठन्तु तावत् पुरुषादि- 10 वादाः, सांख्यानामेव तावत् सत्कार्यवादित्वादव्याघात इत्यत्र ब्रूमः यतस्तन्मतं तावत् प्रत्युचारयामः । तद्यथा
अथोच्येत सांख्यानामेव तावत् सत्कार्यवादित्वादव्याघात इति, नाव्याघातः, कथमसत्कार्यानभ्युपगमात्? प्रधानादीनां नित्यनिष्ठितत्वाभ्युपगमात् , अतस्तान्यारब्धान्येव, निष्ठितत्वात् , घटवत्, आरब्धत्वात् कृतकानि कृतकत्वात् पर्यवसानवन्त्यपि, यत्त्वेवं न 15 भवति तत् खपुष्पवदसत् स्यात् , अथ त्वेवमपि नैवाभ्युपगम्यत आरम्भादि तमुनिवृत्तमनिष्ठितमसत् स्यात् , आकाशवत् ।
अथोच्येत सांख्यानामेवेत्यादि, तस्योत्तरं-नाव्याघात इत्यादि, नाव्याघातो व्याघात एव, व्याचष्टे-अयुक्तेरिति, अयुक्त्या यथा घटपटादिबाह्यार्थानां शून्यता निरूपिता तथाऽनुत्पादादपि वस्तुवादिनः सांख्यादेः प्रधानादीनामाद्यन्तवत्त्वाभावे खपुष्पवदसत्त्वं स्यादित्यले उपसंहरिष्यते तथा शून्यत्वं प्राप्नोतीति भावः । तदेतन्निरूपणार्थ 20 प्रतिजानीते-आद्यन्तयोरिति । आद्यन्तशब्दार्थमुक्त्वा विचारार्थ विकल्पमुपस्थापयति-तत्रादिरिति, उत्पादविनाशयोः सत्त्वमसत्त्वं वेति विकल्पार्थः । उत्पादविनाशयोः सिद्ध्यर्थं प्रथमं तदसत्त्वपक्षं विचारयति-यदि नामेति । यदि सर्वभावानामुत्पादविनाशौ न स्तस्तदाऽनाद्यन्तत्वान्नित्यता सदावस्थानरूपा घटादीनां स्यात् सा चोत्पत्तिविनाशविषय प्रत्यक्षादिना विरुध्यत इत्याहततोऽसत्त्व इति । अनुमानादिविरोधमाह-प्रत्यक्षेति । उत्पादविनाशवद्धटादीनां नित्यत्वमापायेदानीं यद्यत् स्थितवस्तुविपरीतं तत्तदवस्तु दृष्टम् , यथा खपुष्पादि, स्थितवस्तुविपरीतश्चोत्पत्तिविनाशशालि घटादि, ततोऽवस्तु स्यादिति दोषान्तरमाह-25 स्थितवस्तुविपरीतत्वादिति, नित्यवस्तुन इत्यर्थः। उत्पादविनाशयोरनभ्युपगमे सर्व वस्तु अनुत्पन्नमिति स्यात्, तथा च सर्वसिद्धान्तव्याघातः स्यादित्याह-अनुत्पन्नमेवेति । वैशेषिकसिद्धान्तेऽसत्कार्यवादव्याख्याने उत्पत्तिमद्वस्तूनां निरूपणं 'द्रव्याणि द्रल्यान्तरमारभन्त' इत्यादिसूत्रैः प्रदर्शितमतस्तद्व्याघात इत्याह-वैशेषिकसिद्धान्त इति । अथ नित्यत्ववादी प्राहत्वयोक्तः सर्वसिद्धान्तव्याघातो नास्माकं दोषः, उत्पत्त्यनभ्युपगमादिति तन्मतं दर्शयति-अत्राहेति। तदेतत्पूर्वपक्षं स्वयमेव व्याचष्टे टीकाकारः-तिष्ठन्त्विति । अथ मूलकृदिमामेव शङ्कामुपनिबध्नाति-अथोच्येतेति । तच्छङ्को निराकरोति-30 नाव्याघात इति, युष्माकं सर्वसिद्धान्तैरव्याघात इति न, किन्तु व्याघात एवेत्यर्थः । कथमस्माकं व्याघातः,न हि वयमसत्कार्य
१सि.क्ष. छा. डे. वस्तुत्वाद्विपरीतमः । २ सि.क्ष. धा. डे. त्वयोक्तं ।
amerammam
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org