________________
mama
११३८
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः रूपादिष्वनिष्टमापादयति-तथाऽस्तित्वैकत्वे सत्येव घटादीनां विपर्ययः पटादित्वेन प्रापितः, तथा रूपं लोके रूपमेव न रस इति सिद्धमपि रूपं न स्यात् , रसोऽपि रसो मा भूत् , रूपं स्यादिति, तद्विषयविज्ञानाभिधानविपर्ययो योज्य इति, बहुत्वप्रसङ्गो वा, अस्तित्वैकत्वघटत्वैकत्वपक्षदोषा एते मा भूवन्नित्य[नन्य]त्वपक्षाभ्युपगमे घटबहुत्वप्रसङ्ग उक्तवत् स्यात् , तस्मात् न सन्ति घटादय इति । 5 आह
नन्वेवमसत्त्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते, ननु तत्सर्वसिद्धान्तसिद्धमित्ययुक्तेघंटादीनां शून्यता।
(नन्वेवमिति) नन्वेवमसत्त्वे प्रत्यक्षसिद्धं तृप्तिसुखादि विरुध्यते–श्रमाऽऽतङ्कमयादिवेदनार्दितानां तत्प्रतिकारात्तदुपशमे सुखम् , बुभुक्षापिपासार्दितानाश्च तृप्तिः प्रत्यक्षतो दृश्यते, तस्मात् प्रत्यक्षविरोधाद10 युक्ता कल्पनेत्यत्रोच्यते-ननु तत्सर्वसिद्धान्तेत्यादि, अव्युत्पन्नाविशुद्धमहाजनप्रत्यक्षादिभ्रान्तिविज्ञानाप्रमाणी
करणेनैव रूपादिविषयजन्यतृप्तिसुखादिष्वनाश्वासाद्वितथत्वाच्च मृगतृष्णिकातोयानाश्वासवत् मोक्षायैव यतितव्यमिति प्रवृत्तमोक्षार्थशास्त्रेषु सिद्धत्वादिति-इत्थमयुक्तेर्घटादीनां शून्यता ।
तथाऽनुत्पादादपि, आद्यन्तयोर्जाताजातयोरनुत्पादादसत् , तत्र हि तो विधेयातां न वा ? यदि नाम न ततोऽसत्त्वे तयोः सर्वभावानामनाद्यन्तत्वान्नित्यस्थितिरेव स्यात् सा च 15 प्रत्यक्षादिविरुद्धा उत्पत्तिविनाशदर्शनात् , स्थितवस्तुविपरीतत्वादवस्तु प्रामोति, अनुत्पन्नमेव
सर्व वस्त्वित्यभ्युपगमे सर्वसिद्धान्तव्याघातश्च ।। अघट एव सन्नपि वाऽघटो घटः प्रसक्त एवमेव लोके रसादिभिन्नं रूपत्वेन प्रसिद्धमपि रूपं न स्यात् , रसादि स्यात् , रसोऽपि रसो न स्यात् , रूपं स्यादिति रूपादौ रूपादिविषयविज्ञानं रूपमित्यादि नाम च न स्यादिति भावः। अस्तित्वैकत्वानर्थान्तरत्वपक्षप्रसक्तदोषकूटनिर्मूलनार्थमर्थान्तरत्वपक्षाभ्युपगमे त्वेकस्यैव घटस्य घटबहुत्वं स्यात्, अस्त्येको घट इत्यत्रास्तित्वविशिष्ट एको घटः, 20 एकत्वविशिष्टोऽपरो घटः, घटत्वविशिष्टोऽन्यो घट इति घटबाहुल्यं भवेदित्याह-बहुत्वप्रसङ्गो वेति । व्याचष्टे-अस्तित्वेति,
अस्तित्वैकत्वघटत्वानामेकत्वपक्षदोषा इत्यर्थः । तदेवमेकत्वपक्षेऽन्यत्वपक्षे वा घटादिभावसिद्धौ युक्त्यभावात् खपरोभयाभावात् न स्वतो नापि परतो न द्वाभ्यां वा स्वभावसिद्धिरतो निःस्वभावमिदं सर्वमित्याशयेनोपसंहरति-तस्मादिति। नन्वेवं घटादि निखिलवस्तूनामभावे प्रत्यक्षप्रमाणसिद्धं तृप्तिसुखादि विरुध्यत इत्याशङ्कते-नन्वेवमिति । ननु प्रत्यक्षतः प्रसिद्धं हि बुभुक्षया पिपासय
चादितस्यान्नपानाद्यासेवनेन तृप्तिः, श्रमेणातङ्केन भयादिना पीडितानां तत्प्रतीकारेण तेषामुपशमे सुखम् , यदि तु घटादिवस्तुजातं 25 नास्ति किं भोक्तुं किंवा पातुमिच्छा भवति कस्य वाऽऽसेवनम्, श्रमाद्यपि कस्मात्, केन वा तत्प्रतीकारः स्यात्, वस्त्वभावात् ,
तस्माद्बाह्यवस्तुशून्यताकल्पनैव केवलमिति व्याकरोति-श्रमातङ्केति। समाधत्ते-नन तदिति. बाह्यार्थशून्यत्वं सर्वसिद्धान्तसिद्धमिति भावः । तदेव समर्थयति-अव्युत्पन्नेति, अव्युत्पन्नाः-शास्त्रवासनारहिताः अविशुद्धा-दानशीलक्षान्तिवीर्यध्यानपारमिताभिर्विशुद्धिभिः रहिता ये महाजनास्तेषां यानि प्रत्यक्षादिभ्रान्तिविज्ञानानि तेषामप्रमाणीकरणेनैवेत्यर्थः, अत्रायं भावो प्रत्यक्षादिभिदृश्यन्त एव घटपटादिपदार्थाः, ते सर्वे विकल्पकल्पिता एव, न हीन्द्रियादिभिः सिद्धा इत्येतावता तेषां परमार्थत्वम् , बालानामपि 30 तत्त्ववित्त्वापत्तेः, तत्त्वज्ञानवैयर्थ्याच्च, तस्मादविचारयतामापातसिद्धा एते, तत्त्वविदान्तु तत्र नाश्वार निःस्वभावताया एव सिद्धेः, स्कन्धायतनाद्युपदेशस्तु व्यवहाराश्रयणादेव, एते सांवृतसत्याः परमार्थसत्यस्य द्वारभूताः, न हि व्यवहारमनाश्रित्य परमार्थ उपदेष्टुं शक्यः, परमार्थविज्ञानाभावे तु कुतो निर्वाणम् , तस्मात्तत्त्वविचारनिपुणैर्विचार्यमाणाः सर्व एव भावा निःस्वभावा एव, तस्मात् सांवृतसिद्धपदार्थेषु मृगतृष्णिकायां जलप्रत्ययसिद्ध जले यथाऽऽनाश्वासस्तथाऽऽनाश्वासान्निर्वाणाय यतितव्यमिति । अयुक्तिमुपसंहरति-इत्थमिति।घटादिबाह्यवस्तुशून्यताऽनुत्पादादपि सिद्ध्यतीत्याह-तथाऽनुत्पादादपीति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org