________________
Mmmmm
mmmmammmmm
wmmmmmmmmm
वैपरीत्यबहुत्वप्रसङ्गः] द्वादशारनयचक्रम्
११३७ यदि तु ताभ्यामप्यन्यस्ततो घटस्य शून्यत्वम् , अस्तित्वैकत्वशून्यत्वात् खपुष्पवदिति प्रागुक्तो दोषः, अनन्यत्वे तु सर्वमेव घटः, अस्तित्वैकत्वानर्थान्रत्तवात् घटस्वतत्त्वानर्थान्तरघटवदिति, अथैवं नेष्यतेऽनन्तरत्वञ्च न त्यज्यते ततो घटोऽपि घटो मा भूद्भवनविशेषहेत्वभावात् , एवमनभ्युपगमे वा तुल्ययोरस्तित्वैकत्वयोः सतोघंटो घट एव नियतरूपो न तु पटो घट इष्टः, अस्तित्वैकत्वाविशेषात् , एवमघट एव घटः स्यात् , तस्मादेव हेतोः, नन्वयमेव विपर्ययः-रूपं लोके रूपमेव न रस इति सिद्धमपि रूपं न स्याद्रसोऽपि रसो मा 5 भूद्रूपं स्यात् , बहुत्वप्रसङ्गो वोक्तवत् , तस्मान्न सन्ति घटादयः। ... यदि त्वित्यादि, यदि तु ताभ्यामपि घटोऽस्तित्वैकत्वाभ्यामन्यस्ततो घटस्य शून्यत्वम् , अस्तिवैकत्वशून्यत्वात्-सामान्यविशेषवत्त्वासत्त्वात् असत्त्वमेव खपुष्पवदिति प्रागुक्त इत्यर्थान्तरदोषोपसंहारः, अनन्यत्वे त्वित्यादिनाऽनर्थान्तरपक्षदोषोपसंहारो गतार्थो यावद्धटवदिति, तस्मात् स्थितमेतदाद्युक्तं घटवत् पटाद्यपि घट इति, अथैवमित्यादि, अथैवं न्यायापादितमपि घटादिसर्वभावघटत्वं नेष्यते प्रसिद्धयादिवलेन 10 केनचित् , अनर्थान्तरत्वं च न त्यज्यते ततो घटोऽपि घटो मा भूद्भवनविशेषहेत्वभावात् , अस्तित्वैकत्वानर्थान्तरत्वे घटभवनात् पटादिभवनानां न कश्चिद्विशेषोऽस्ति, न च तत्कारणम् , तस्माद्भवनविशेषहेत्वभावात् पटवद्धटोऽपि घटो मा भूदिति घटस्याप्यभावः, एवमनभ्युपगमे वा तुल्ययोरस्तित्वैकत्वयोः सतोः सर्वत्रवर्तिनोः घटो घट' एव नियतरूपो ने तु पटो घट इष्टः, कस्मात् ? अस्तित्वैकत्वाविशेषात्, एव [म घट एव घटः स्यात् तस्मादेव हेतोर्घटवदघट एव सन्नपि, नन्वयमेवेत्यादि, तदेवानुज्ञापयन् 15 एवञ्चास्तित्वैकत्वाभ्यां घटोऽभिन्नः सिद्ध्यतीत्याह-तथैकत्वमपीति । अस्तित्वैकत्वाभ्यां घटस्य भेदे दोषमाह-यदि तु ताभ्यामिति, अस्तित्वैकत्वाभ्यान्तु भिन्नश्चेद्धट इत्यर्थः । घटस्यास्तित्वैकत्वाभ्यां सामान्यविशेषात्मकाभ्यां व्यतिरिक्तत्वे सामान्यशून्य त्वाद्विशेषशून्यत्वाच्च खपुष्पवदसत्त्वमेव घटादेरित्याह-यदि त्विति । अथाप्यर्थान्तरं ततो घटस्य सामान्यविशेषो न स्त इत्येवं प्रागुक्तमेव दोषमुपसंहरतीत्याह-प्रागुक्त इति । एवमस्तित्वैकत्वाभ्यामनन्तरत्वपक्षेऽपि घट खतत्त्वानन्तरत्वाद्धटो घट . एव तथा घटाभिन्नास्तित्वैकत्वानर्थान्तरत्वात् सर्वभावानां पटकटरथादीनामपि घटत्वप्रसङ्ग इत्याशयेनाह-अनन्यत्वे विति, 20 ताभ्यां घटस्यानन्यत्वे त्वित्यर्थः । एवञ्च प्रथमं यत्रैकत्वं तत्रास्तित्वमपीत्यादि ग्रंथं पटादिसर्वभावानां घटत्वापादकं स्मारयतितस्मात स्थितमेतदिति । तदेवं न्यायसिद्धं सर्वभावानां घटत्वं नेष्यते तदा दोषमाह-अथैवमित्यादीति । अनिष्यमाणत्वे निमित्तमुट्टयति-प्रसिद्यादिबलेनेति. घटस्यैव घटत्वेन प्रसिद्धिलाके, न तु पटादेः, विभिन्नाऽर्थक्रियादर्शनाद्धटपटादे देशकालाकारनिमित्तादिभेदाच सर्वभावानां पटादीनां घटत्वं नेष्यत इति भावः । तथा सर्वभावानामस्तित्वैकत्वाभ्यामभेद इष्यत इत्याह-अनथोन्तरत्वञ्चेति। एवं तहि सर्वभावानां पटादीनां यथा घटत्वाभावः तथा घटस्यापि घटत्वाभाववत्ता स्यादित्याहतत इति । हेतुमाह-भवनविशेषेति, भवन विशेषाभावात् हेत्वभावादित्यर्थः । भवनविशेषाभावमाचष्टे-अस्तित्वैकत्वेति, अस्तित्वस्य सर्वेषामेकरूपत्वादिति भावः । हेत्वभावमाह-न च तत्कारणमिति, अस्तित्वैकत्वानर्थान्तरत्वं न सर्वेषां घटभवने हेतुः येन तदनन्तरत्वात् सर्व घटो भवेत् , एवं सर्वभावघटत्वानङ्गीकारात् घटस्यापि घटत्वं न स्यादिति भावः । अथास्तित्वैकत्वानन्तरत्वे सर्वभावघटत्वानभ्युपगमे घटस्य घटत्वाभावप्रसङ्गं प्राप्तमपि यदि नाभ्युपगम्यते घट एव घटोऽभ्युपगम्यते तर्हि घटवदघट एव घटः स्यात् अघटः सन्नपि, अस्तित्वैकत्वाविशेषादित्याह-एवमनभ्युपगमे वेति । अमुमेव न्यायं रूपादावति- 30 दिशति-नन्वयमेवेत्यादीति. यथाऽस्तित्वैकत्वानर्थान्तरत्वे सर्वभावघटत्वानगीकारे प्रसिद्ध्यादितो घट एव सन्नपि अघटः प्रसक्तः
१ सि. क्ष. छा. डे. घटस्य घटभावः । २ सि. क्ष. छा. डे. न त्वपटो ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org