________________
न्यायगमानुसारिणीव्याख्यासमेतम्
[ नियमनियमनयः
कुतः
रणात्मलाभादिदेशकालाकारनिमित्तादिभेदेन तदिदं प्रतिज्ञायते भिन्नभवनः - भिन्नास्तित्व एव घट इति, ? आत्मलाभे भिन्नप्रकारत्वात् - आत्मलाभे जन्मनि उत्पत्तौ घटस्य घटान्तरात् पटादिभ्यश्च देशकालाकारनिमित्तादिप्रकारो भिन्न एव, व्यावृत्त्यात्मरूपत्वात् किमिव ? पटकटधीवत्, तद्व्याख्याकोहि नास्ति पट इत्यादि, यथा कट इति बुद्धिः पटबुद्धेर्भिन्नेन प्रकारेणात्मानं लभते, पटबुद्धिश्च कट5 बुद्धेः, ते च कटपटधियौ परस्परतो भिन्नास्तित्वे दृष्टे तथा घटोऽपि भिन्नप्रकारात्मलाभत्वात् पटादिभ्यो भिन्नास्तित्व इति एतदपि न, उक्तसत्त्वतुल्यत्वात् - इदमप्यनन्तरोक्तपटादिव्यतिरिक्ताभिमतघटा स्तित्वेन तुल्यं घटभिन्नास्तित्त्वम्, तस्मादुक्तसत्त्वतुल्यत्वादसत्त्वमेवेत्यर्थः, भिन्नप्रकारत्वादित्यस्य वा हेतोरभिन्नप्रकारत्वादिति प्रयोगेऽप्यस्तित्वव्याप्तिसाधनत्वे तुल्यत्वञ्चेति द्विधाप्युक्तसत्त्व तुल्यत्वात्, न त्वदभिमतभिन्नास्त्वित्वो घट इति सम्बन्धः, तस्य व्याख्यानं समानमर्थद्वयेऽप्यत आह-येन प्रकारेणैकस्यात्मलाभस्तेन 10 प्रकारेण सर्वभावानामप्यात्मलाभोऽस्तित्वेन भवनाविशेषात्, नानारूप्ये [ ऽस्तित्वं ] नास्तित्वमस्तित्वनास्तित्वं वा स्यादित्युक्तम्, तस्मादात्मलाभस्याभिन्नरूपत्वादभिन्नास्तित्वो घटः, विरुद्धो व्यभिचारी वाऽयम्, अभिन्नास्तित्वोऽसौ नत्र सहित एव हेतुरिति - अभिन्नप्रकारात्मलाभत्वादिति प्रयोक्तव्य इत्यभिप्रायः, एवं घटवदिति दृष्टान्तः यथैत्र हि घट आत्मलाभक्षणेऽत्यन्तमभिन्नास्तित्वः तथा घटान्तराणि पटादयश्चेति, तथैकत्वमपि यम, एवमेकत्वास्तित्वाभ्यामभिन्नो घटः ।
११३६
"
15 लाभस्यासाधारणत्वात्, सोऽपि भिन्न एवात्मलाभः, देशकालाऽऽकारनिमित्तादिभेदात्, घटस्य हि देशो मृत्, पटस्य तन्तवः इति देशभेदः, यदैव घटस्यात्मलाभस्तदैव पटस्येत्यनियमात् कालभेदः, कम्बुग्रीवादिमदाकारो घटः, आतानवितानाद्याकारः पटः, इत्याकारभेदः, दण्डचकादयो घटस्य निमित्तं तुरीवेमादिकन्तु पटस्येति निमित्तभेदस्तस्मान्न साधारणमात्मलाभः, आत्मलाभे भिन्नप्रकारत्वाच्च घटपटादीनां भिन्नभिन्नास्तित्वमिति भावः । इदमेवानुमानेन साधयति तदिदमिति, भिन्नं भवनमअस्तित्वं न त्वात्मलाभः साध्यसाधनयोरविशिष्टत्वाद्यस्य घटस्य स घटो भिन्नभवन इति प्रतिज्ञार्थः । हेतुमाह-आत्मलाभ इति, भिन्नः प्रकारो यस्य तस्य 20 भावस्तस्मात् एतद्घटस्याऽऽत्मलाभे जन्मनि खव्यतिरिक्तेभ्यो यावद्भ्यः सजातीयेभ्यो विजातीयेभ्यश्च देशकालाकारनिमित्तादिप्रकारो भिन्न एवेत्यर्थः । आत्मलाभे भिन्नप्रकारत्वादित्यस्यैव फलितार्थमाह-व्यावृत्तात्मरूपत्वादिति, सजातीयविजातीयव्यावृत्तस्वरूपवादित्यर्थः । निदर्शनमाह-पटकटधीवदिति । पटबुद्धेः कटाविषयकत्वात् कटबुद्धेश्च पटा विषयकत्वात्तद्बुद्ध्योः परस्परव्यावृत्तात्मरूपत्वात् तयोरात्मलाभे भिन्न प्रकारत्वात् तयोर्भिन्नास्तित्ववत्त्वमित्याशयेन निदर्शनं व्याख्याति-कटो हीति, कटस्य पटरूपत्वाभावात् पटस्य च कटरूपत्वाभावात् पटकट धियौ भिन्नास्तित्ववत्यौ दृष्टे, विभिन्न प्रकारेणात्मलाभत्वात्, तथा घटोsपि भिन्नास्तित्वः 25 पटादिभ्यो भिन्नप्रकारात्मलाभत्वादिति भावः । व्याख्यामेव व्याचष्टे - यथा कट इतीति । यदि स्याद्रूपान्तरमित्यादिग्रन्थेन सर्वसमयाप्रसिद्धस्यापि अस्तित्वानां रूपान्तरस्याभ्युपगमे यो नानारूपताsपत्तिदोष उक्तः सोऽत्रापि तुल्य इति मतमिदं निराकरोतिउक्तसत्त्वेति । व्याचष्टे - इदमपीति । किञ्चाभिन्नास्तित्ववान् घटः, आत्मलाभेऽभिन्न प्रकारत्वादिति प्रयोगेण सर्वत्र व्याप्ता स्तित्वसाधनस्य तुल्यत्वात् साधनमिदमकार प्रश्लषा प्रश्लेषाभ्यामुक्तसत्त्वतुल्यमित्याह-भिन्नप्रकारत्वादित्यस्येति, तस्य उक्तसत्त्व तुल्यस्वादित्यस्य व्याख्यानम्, आत्मला मेऽभिन्नप्रकारत्वादिति हेतुरुक्तसत्त्वे सर्वत्रैकास्तित्वे तुल्य इति दर्शयति येन प्रकारेणेति, 30 अस्तित्वप्रकारेणैकस्य यथाऽऽत्मलाभस्तथा सर्वेषाऽमिति भावः । आत्मलाभे भिन्नप्रकारत्वादिति हेतोरुक्तसत्त्वतुल्यतां दर्शयतिनानारूप्य इति, अस्तित्वनानात्मकतायामाकाश। देरस्तित्वमेव खपुष्पादेर्नास्तित्वमेव घटपटादेररितत्वनास्तित्वे एवेति स्यात्, सर्वास्तित्ववादिनः सांख्यस्य सर्वनास्तित्ववादिनो बौद्धस्य चानिष्टेषा कल्पनेति भावः । एवञ्चात्मलाभेऽभिन्न प्रकारत्वादभिन्नास्तित्व एव घटः, तवोदितो हेतुर्नन् सहितस्त्वदीयसाध्यस्य भिन्नास्तित्वस्य विरुद्धेनाभिन्नास्तित्वेनाव्यभिचारित्वाद्विरुद्धाव्यभिचारी हेतुरि त्याह-तस्मादिति । विरुद्धानुमानमेव दर्शयति-अभिनेति । दृष्टान्तं घटयति-यथैव हीति । एवमेवाभिन्नैकत्वमपि साधनीयम्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org