________________
११३५
mmmmmmm
नानास्तित्वप्रतिक्षेपः] द्वादशारनयचक्रम् परिहारवचनम् , कस्मात् ? सर्वसमयाप्रसिद्धेः, अस्तीत्यस्य तद्भावोऽस्तित्वं तन्न कस्यचित्-सांख्यादीनां समयसिद्धं बह्निति, कस्मात् ? अस्तित्वस्य रूपान्तराभावात् ।
यदि स्याद्रूपान्तरं ततो नानारूपमेव स्यात् किश्चिदस्ति किञ्चिन्नास्ति किञ्चिदस्ति नास्ति चेति, अनिष्टश्चैतत् , तस्मादभेद एवास्तित्वस्य, तसिंश्च तदभेदे तु सर्वेषामैक्यम् , भेदे वा घटबहुत्वमिति तदवस्थौ प्रसङ्गौ, तथापि च नास्तित्वमेव, अस्तित्वैकत्वशून्यत्वात् खपुष्पवत् । । इतरेतरासत्त्वाभ्युपगमाञ्च कुतोऽस्तित्वं तेषामिति ।
_(यदि स्यादिति) यदि स्याद्रूपान्तरं-घटेऽन्यत् पटेऽन्यदस्तित्वं रथादिषु च शेषेष्वन्यदन्यत् स्यात् ततो नानारूपमेव स्यात् किश्चिदस्ति किञ्चिन्नास्ति किञ्चिदस्ति नास्ति चेति, अनिष्टश्चैतत्, तस्मादयुक्ता कल्पना-घटान्तरपटान्तराद्यस्तित्वेभ्यो विशेषणार्थमस्ति घट इति तथैको घट इत्यपि ज्ञेयम् , तस्मादभेद एवास्तित्वस्य, तस्मिंश्च तदभेदे तु-घटादीनामस्तित्वादनन्यत्वपक्षे सर्वेषामैक्यम् , अन्यत्वपक्षे वा घट- 10 बहुत्वमिति तदवस्थौ प्रसङ्गो, किञ्चान्यत्-तथापि च नास्तित्वमेव--एवमस्तित्वसामान्यशून्यत्वादेकत्वविशेषशून्यत्वाच्च नास्तित्वमर्थान्तरतायां खपुष्पवत् , इतरेतरासत्त्वाभ्युपगमाञ्चेत्यतो हेतोः कुतोऽस्ति[त्वं] तेषां घटादीनामिति, अनन्यत्वेऽपि प्रत्यक्षादिविरोधसत्त्वैक्यदोषापादनद्वारेणासत्त्वमुक्तवदिति ।
अथोच्येत भिन्नास्तित्व एव घटः, आत्मलामे भिन्नप्रकारत्वात् , पटकटधीवत् , कटो हि नास्ति पटः पटश्च नास्ति कट इति कटपटधियौ भिन्नास्तित्वे दृष्टे तथा घटोऽपि भिन्न-15 प्रकारात्मलाभत्वात् पटादिभ्यो भिन्नास्तित्वः, एतदपि न, उक्तसत्त्वतुल्यत्वात् , अस्य वा हेतोरभिन्नप्रकारत्वादिति प्रयोगेऽपि, येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामप्यात्मलाभः, अस्तित्वेन भवनाविशेषात् , नानारूप्येऽस्तित्वं नास्तित्वमस्तिनास्तित्वं वा स्यादित्युक्तम् , तस्मादभिन्नास्तित्वोऽसौ नसहित एव हेतुः, घटवदिति दृष्टान्तः, तथैकत्वमपि।
अथोच्येत भिन्नास्तित्व एवेत्यादि, भिन्नमेवास्तित्वं घटस्य पटाद्यस्तित्वात् , प्रत्येकमसाधा- 20 वचनमुच्यते तन्न युक्तम् , कस्मिन्नपि दर्शने नानास्तित्वानभ्युपगमादस्तित्वमेकरूपमेव न रूपान्तरमसिद्धेरिति भावः । अस्तीत्यस्येति । अस्तेर्योऽसौ तद्भावः तत्त्वरूपः प्रसिद्धो भावोऽस्तित्वं तन्न कस्यचित्समये बह्विति सिद्धमिति भावः। हेतुमाहअस्तित्वस्येति, अस्तित्वमेकरूपमेव, नास्त्यस्य रूपान्तरम् , यदि नाना स्यात्, तर्हि अस्यास्तित्वस्येदं रूपम् , एतदस्तित्वस्यान्यद्रूपं तदस्तित्वस्यापरं रूपमित्येवं रूपान्तरं स्यान्न चैवमिति भावः । यदि स्याद्रूपान्तरं कानुपपत्तिरित्यत्राह-यदि स्यादिति । घटपटादिप्रतिव्यक्तिभिन्नत्वेऽस्तित्वस्य किञ्चिद्वस्तु आकाशादि अस्तित्ववदेव, किञ्चिन्नास्तित्ववदेव खपुष्पादि, किञ्चिच घटपटाद्यस्तित्वनास्ति-26 स्वोभयवदिति नानारूपं स्याद्वस्तु न तु प्रतिनियतैकरूपम् , अनिष्टा च नानारूपतेति व्याकरोति-घटेऽन्यदिति। अत एवास्ति घट इति पटास्तित्वविलक्षणास्तित्वप्रकाशनाय, अन्यथा पटास्तित्वाभावान्नास्तित्वमेव घटस्य स्यात् , अस्तित्वे वा घटपटयोर्विशेषता न स्यादेवमेको घट इत्यपीति कल्पनाप्ययुक्तैवेत्याह-तस्मादयुक्ता कल्पनेति । एवञ्चास्तित्वस्य नास्ति मेदः, तथाचास्तित्वैकत्वादीनाममेदे प्राग्वत्सर्वेक्यस्य भेदे च घटबहुत्वस्य प्रसङ्गस्तदवस्थ एवेत्याह-तदमेदे विति, अस्तित्वामेदे त्वित्यर्थः, घटाभिन्नास्तित्वाभिन्नपटादीनां घटत्वप्रसङ्गात्, प्रागुदितरूपाद्वेति भावः । अस्तित्वैकत्वयोर्घटाद्यर्थान्तरतायामस्तित्वसामान्येनैकत्वविशेषेण च 30 घटादि शून्यं स्यात्ताभ्यां तस्य सम्बन्धाभावादित्याह-तथापि चेति। एवं घटस्य निरपेक्षास्तित्वं न सिद्ध्यति, परस्परापेक्षमस्ति. त्वमपि नाभ्युपगम्यतेऽतः कुतो घटादीनामस्तित्वं स्यादित्याह-इतरेतरेति । अस्त्येकघटानामनन्यत्वे च सर्वसर्वात्मकताप्रसङ्गात् प्रत्यक्षादिविरोधा उक्तवदित्याह-अनन्यत्वेऽपीति। पुनरपि वादी घटपटादीनामस्तित्वं परस्परं विभिन्नमेवेति प्रकारान्तरेण वर्णयति-अथोच्येतेति। व्याचष्टे-भिन्नमेवेति, पटादिनिष्ठास्तित्वापेक्षया घटनिष्ठमस्तित्वं विलक्षणम् , घटपटादीनामात्म
द्वा० न०१८ (१४३)
Amrammam
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org