________________
mmmmmmmm
mam
११३४
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः समुदायो घट[:]संवृत्तिसन्नित्येतन्निवर्त्तते, तथा क्षणिक इत्येकक्षणावलम्बिनोऽस्तित्वं क्षणिकवादेऽभ्युपगतं भूतिर्येषां क्रिया सैवेति, भूतेरस्तित्वत्यागात् न भूतमात्रमिति च प्राप्तम् , अनिष्टश्चैतदुभयमपीति, ततः किं ? ततश्चानस्तित्वो घट इति प्राप्तम्-नास्ति अस्तित्वं यस्य सोऽनस्तित्वो यो घट इत्युच्यते सोऽनस्तित्वः, तञ्च विज्ञानमात्रमिदं सर्वं बाह्यार्थशून्यमिति वक्ष्यमाणः पक्षोऽभ्युपगतो भवतीति । 5 अथोच्येत बढेवास्ति प्रत्येकवृत्तेरस्तित्वस्य, बढेव नास्ति परस्परव्यावृत्तस्वरूपत्वात् , तच्च क्वचिदर्थे न सर्वत्र, पटाद्विशेषणार्थमस्ति घट इत्युच्यते, एकमपि व्यादिविशेषणार्थमुच्यते तत्रात्येको घट इति, सर्वैकत्वप्रसङ्गो घटबहुत्वप्रसङ्गश्च कुत आयातौ ? इति, एतन्न, सर्वसमयाप्रसिद्धेः, अस्तितत्त्वं न कस्यचित् समयसिद्धं बह्निति, अस्तित्वस्य रूपान्तराभावात् ।
अथोच्येतेत्यादि, अत्र यदि परिहारः परेणोच्यते, तद्यथा-बह्वेवास्ति घटपटादिः प्रत्येकवृत्ते10 रस्तित्वस्य, तथा बढेव नास्ति घटपटाद्येव, परस्परव्यावृत्तस्वरूपत्वात् , तच्च कचिदेकैकस्मिन्नर्थे, न सर्व
त्रास्तित्वमेव नास्तित्वमेव वा, तस्मात् घटस्य पटाद्विशेषणार्थमस्ति घट' इति घटस्यैवास्तित्वमुच्यते, तथैकमपि बढेव घटपटादि, तदेव हि द्वित्रिचतुरादिसंख्यमपि, तस्मादेकमिति द्यादेविशेषणार्थमुच्यते तत्रैव विधिवस्तुनि अस्त्येको घट' इति, अत्येकघटानां त्रयाणामनन्यत्वात् सर्वैक[त्व]प्रसङ्गः, अन्यत्वे वाऽस्त्यप्येकोऽपि घटोऽपि घट इति घटबहुत्वप्रसङ्गश्च कुत आयातावेतौ प्रसङ्गाविति परिहारः, अत्र ब्रूमः, एतन्न
wow
15 घटस्यैकत्वाभावात् , तथा च रूपादिसमुदायो घटः स च संवृतिसन्निति सिद्धान्तो निवर्त्तत इति भावः । एवं क्षणमात्रास्तित्वं
घटादेरभ्युपगतं तदपि निवर्तत इत्याह-तथा क्षणिक इति । क्षणिकस्यास्तित्वं कुतोऽभ्युपगतमित्यत्राह-भूतिर्येषामिति, भवनमेव क्षणिकाणां क्रियोक्तेत्यर्थः, एवञ्च भवनमेवास्तित्वं तत्त्यागाद्धटादयो न भूतमात्रमिति भावः । एवञ्च घटादीनां नास्तित्वं प्राप्यत इत्याह-ततश्चेति । अनस्तित्वशब्दव्युत्पत्तिमाह-नास्तीति, अस्तीति विभक्तिप्रतिरूपकमव्ययम्, न तु क्रियापदं ततस्त्वप्रत्ययानुत्पत्तेः अस्ति भावोऽस्तित्वम्, ततो नास्ति अस्तित्वं यस्य घटादेः सोऽनस्तित्वः, नत्वस्तित्वं न भवतीति 20 तत्पुरुषः, अजहल्लिङ्गत्वादिति भावः । घटस्य नास्तित्वे किं स्यादित्यत्राह-तच्चेति, इत्थं बाह्यार्थशून्यत्वाद्विज्ञानमात्रमेवेदं सर्वमिति निरूप्स्यमाणपक्ष आपन्न इति भावः । ननु सर्वभावनिष्ठमस्तित्वं न खसजातीयनिष्ठभेदाप्रतियोगित्वरूपम् , स्वसजातीय द्वितीयराहित्यरूपं वा यतोऽर्थान्तरत्वानर्थान्तरत्वाभ्यामनस्तित्वाविशिष्टत्वादिदोषाः स्युः किन्तु प्रतिव्यक्ति अस्तित्वं विभिन्नमेव, तस्माद्धटपटादि बहुत्ववदस्तित्ववदित्याह-अथोच्येतेति । व्याचष्टे-बह्वेवास्तीति, बहुत्वमस्तित्ववदेकदेशेऽस्तित्वेऽन्वेति, बहुत्ववदस्तित्ववदित्यर्थः, सम्पन्नो व्रीहिरित्यादिवत् , एवं नास्तित्वमपि नानैव, घटपटादीनां परस्परं व्यावृत्तखरूपत्वादिति भावः । तच्चास्तित्वं 25 नास्तित्वच्च प्रत्येकव्यक्तिनियतम्, न तु सर्वत्वव्यापकास्तित्ववत्त्वं नापि सर्वत्वव्यापकनास्त्वित्ववत्त्वं वेत्याह-तच्चेति ।
एवञ्चास्तीत्युक्तौ किं घटोऽस्ति पटो वेति संशयः स्यात्, पटादिव्यावर्तनाय च घटोऽस्तीत्युच्यते; इदमस्तित्वं घटस्य, न तु पटस्येति पटादिव्यावर्त्तनाय घटपदप्रयोग इत्याह-तस्मादिति । एवमेव घटपटादौ नैकमेकत्वम्, किन्तु प्रतिव्यक्तिभिन्नमेकत्वम्, तथा सर्वत्रैकत्वमेव, अनेकत्वमेव वेति न नियमः, घटपटाविति द्वित्वस्य घटपटकटा इति त्रित्वस्य घटपटकटरथा इत्येवं चतुष्ट्वादेः
प्रत्येक घटादौ सत्त्वात् , प्रत्येकावृत्तेः समुदायावृत्तित्वनियमात् , एवञ्च घटे एकत्वानभ्युपगमे यादेरविशिष्टता स्यात्तन्मा भूदिति 30 एको घट इत्युच्यत इत्याह-तथैकमपीति । एवमस्त्यात्मके एकात्मके घटादौ अस्तित्वैकत्वघटत्वेभ्यो भेदाभेदाभ्यां सर्वैकत्वघट
बहुत्वप्रसङ्गौ न सम्भवत इत्याह-तत्रैवेति। तदेतन्मतं शून्यवादी पराकरोति-एतन्नेति । नानास्तित्वाभ्युपगमेन यत्परिहार
१ सि.क्ष. छा. डे. घटपरादेः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org