________________
mwwwm
wwwwww
विशेषानुपपत्तिः] द्वादशारनयचक्रम्
११३३ व्याप्ता घटादयः यस्मात् , कुतस्तयोर्वैपरीत्यम् ? ततो व्यावृत्तः कल्प्यते घटादयस्तु परस्परविपरीताः स्युः व्यावृत्तात्मत्वादतो न निःस्वभावापत्तिरस्तित्वैकत्वव्याप्तेरिति, अत्र ब्रूमः ए[५] तावदेकत्वे कुत इदं यत्ते इत्यादि, ताभ्यामस्तित्वैकत्वाभ्यां 'घटत्वैकत्वेऽभ्युपगम्यमाने कुतोऽयं विशेष आयातः तयोरेवास्ति त्वैकत्वयोः सर्वगतत्वं न घट[त्व]स्य, घट[त्व] स्यैवासर्वगतता नास्तित्वैकत्वयोरिति ? अत्र साधनं नन्वेवमित्यादि-सर्वेषामस्तित्वैकत्वघट[व] नामप्येकरूपेण भवितव्यमिति पक्षः, अनन्यत्वादिति हेतुः, । प्रतिवस्तुतत्त्ववदिति दृष्टान्तः-यथा वस्तु वस्तु प्रति यदात्मस्वरूपं घटादौ तत्तदनन्यत्वादेकरूपमेव दृष्टम् , रूपरूपत्वमसाधारणं न तद्रसाद्यात्मकमपीत्यविशिष्टं तथाऽस्त्येकघटानामपीति नास्ति सर्वगतत्वासर्वगतत्वविशेष इति तदवस्था निःस्वभावता, अर्थतन्नेष्यते निःस्वभावत्वमनन्यत्वञ्चार्थान्तरत्वमेवास्त्येकघटानामिष्यते चेत् ततो घटबहुत्वं तर्हि प्राप्तमिति ब्रूमः, यस्मादस्त्यपि घटो भेदेन, एकोऽपि, घटो भेदेनेति वर्त्तते, तथा घटोऽपि घट इति त्रयो घटाः स्युरनिष्टश्चैतत् , अथ मा भूदेष दोष इति घट 10 एवैको घट इष्यते न त्वस्तित्वैकत्वे घट इति ततः सिद्धस्तर्हि नास्ति घट इति, कस्मात् ? अस्तित्वादर्थान्तरत्वात् खपुष्पवत्, नैक इति च, सिद्धस्तीति वर्त्तते, किश्चान्यत्-एकत्वास्तित्वत्यागाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तमेकत्वत्यागात् , एकैकत्वाच्च रूपादीनां रूपादिष्वभावे घटस्य 'रूपादि
विपरीताः किन्त्वनुवृत्ताः, परस्परेण तु विपरीताः घटत्वपटत्वादिलक्षणविभिन्नव्यावृत्तिमत्त्वात् , अस्तित्वैकत्वाभ्यामनुवृत्तत्वादेव च घटादयो न निःस्वभावा इति शङ्कार्थः । एवं तर्हि अस्तित्वैकत्वाभ्यां घटादेरनन्यत्वादस्तित्वैकत्वे सर्वगते घटत्वादि न सर्वगतमिति मेदो 15 न स्यादिति समाधत्ते-एवं तावदिति। यद्यस्तित्वैकत्वाभ्यामनन्तरत्वं घटत्वस्य यत्र यस्यानर्थान्तरत्वमित्युक्तव्याप्याऽभ्युपगम्यते तर्हि कथमस्तित्वमेकत्वञ्च सर्वभावेषु घटत्वन्तु घट एवेति विशेषस्तथा घटत्वं न सर्वभावेषु, अस्तित्वमेकत्वञ्च सर्वभावेष्टि ताभ्यामिति, अनान्यत्र च घटपदस्थाने घटत्वपदं चारु भासते । उक्तार्थमनुमानेन प्रकाशयति-अत्र साधनमिति, अस्तित्वैकत्वघटत्वानि अविशिष्टानि, अनन्यत्वात् , प्रतिवस्तुतत्त्ववत् , वस्तूनां हि स्वतत्त्वानि वस्तुतत्त्वयोरनन्यत्वादविशिष्टानि दृष्टानि यथा घटतत्स्वरूपे अनन्यत्वादविशिष्टे, तथा रूपस्य यद्रूपत्वं-तत्खरूपं तदपि नासाधारणम् , रूपरसादिसमुदाया-30 त्मकत्वाद्धटस्यावयवावयविनोरनन्यत्वेन रूपाभिन्नघटामिन्नरसादे रूपानन्यत्वात् रूपस्वरूपं रसाद्यात्मकमपीति रूपस्वरूपं नैकरूपमिति न शङ्कयम्, तदपि रसाद्यात्मकत्वादविशिष्टमेवेति भावः। तदेव व्यभिचारशङ्को निरस्यति-रूपरूपत्वमिति रूपस्य स्वरूपमित्यर्थः। एवमस्तित्वैकत्वघटत्वानामप्यनन्यत्वेनाविशिष्टत्वात् सर्वगतत्वासर्वगतत्वविशेषाभावप्रसङ्गादस्तित्वैकत्ववैपरीत्यस्य घटत्वादावसिद्धरस्त्यात्मकादेकात्मकात्तदनन्यात्मकाच्च पटाविपरीतत्वाद्धटात्मस्वरूपादपि विपरीतत्वात्तदवस्था निःस्वभावतेत्याह-तथाऽस्त्येकेति। इत्थं सिद्ध निःस्वभावत्वं सर्वभावानामनन्यत्वञ्चास्तित्वैकत्वघटत्वादीनां नेष्यते तेषामर्थान्तरत्वमेवेष्यते चेत्तदा दोषं वक्तुमाह-अर्थतन्नेष्यत इति। दोषमाह-ततो घटबहुत्वमिति, अस्तित्वस्यैकत्वस्य घटत्वस्य च परस्परं भिन्नत्वादस्तित्वावच्छिन्नो घटोऽन्यः एकत्वावच्छिन्नो घटोऽन्यो घटत्वावच्छिन्नश्च घटोऽन्य इत्येकस्यैव घटस्य बहुघटत्वप्रसङ्गः, अस्त्येकघटस्यैकत्वेष्टेरिति भावः । ननु नायं दोषः, घटत्वावच्छिन्नस्यैव घटत्वात् , अस्तित्वावच्छिन्नस्यैकत्वावच्छिन्नस्य चाघटत्वात्ततो न घटबहुत्वमित्याशङ्कतेअथ मा भूदिति । यदि घटस्या स्तित्वावच्छिन्नत्वमेकत्वावच्छिन्नत्वञ्च नेष्यते ततो घटोऽस्तीति एक इति च न स्यात्, अस्तित्वैकत्वानवच्छिन्नत्वात् , किन्तु नास्तित्वमनेकत्वमेव घटस्य स्यादित्युत्तरयति-सिद्धस्तीति । दोषान्तरमप्यत्र पक्षे प्रकाशयति-3 एकत्वास्तित्वत्यागाच्चेति, घटेऽस्तित्वस्यैकत्वस्य च परित्यागे रूपरसादिसमुदायो घट इति समुदायिवृत्तित्वात् समुदायस्य रूपनिरूपितमस्तित्वं घटे न स्यात्, घटेऽस्तित्वानभ्युपगमात्, एवं रसादिनिरूपितमपि, रूपादेरेकैकत्वेनामेदेन तत्र घटोन स्यात्,
१ सि. क्ष. छा. डे, यतो० कल्प्येत । २ सि.क्ष. छा. डे. घटैकत्वे । ३ सि.क्ष. डे. रूपादयोघरसं०, छा. रूपादयो समुदायो घटसं०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org