________________
Nam
११३२
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः एव, तस्मान्न सर्वात्मदोषोऽस्त्येकघटानामित्यत्र[ब्रूमः] ततो घटः पटादस्यात्मकाद्विपरीतोऽधुनाऽभ्युपगतः, एवमभ्युपगते पुनर यं दोष आपद्यते यथा घटः पटादस्त्यात्मकादेकात्मकादनन्यात्मकाच्च विपरीतः संवृत्तः, एवं हि वैपरीत्यं, नान्यथा, ततश्च तथा घटो घटात्मस्वरूपादपि विपरीतः पटास्तित्वैकत्ववत्ति]दनन्यत्वलक्षणात् प्राप्नोति, अस्तित्वैकत्वाभ्यां विपरीतत्वात् , घटविपरीतपटात्मवदिति घटात्मनैवाभावात् पुनरपि 5 नास्ति घटः, एवं सर्वभावा अपीत्यतिदेशादेकैको भावः कटरथादिरभावः स्यात् , कस्मात् पटादनन्यत्वैकत्वास्तित्वविपरीतता सिद्ध्यति ? सर्वगतत्वाद्व्याप्तेः ।
नन्वस्तित्वैकयोर्विपरीतता कस्मात् सर्वगतत्वाव्याप्तेः, ततो व्यावृत्तिः कल्प्यते घटादयः परस्परविपरीता इति, अत्र ब्रूमः, एवं तावदेकत्वे कुत इदं यत्ते सर्वगते न घटत्वम् , घटत्व
मेवासर्वगतं न ते इति, नन्वेवं सर्वेषामप्येकरूपेण भवितव्यम् , अनन्यत्वात् , प्रतिवस्तुतत्त्व10 वदिति नास्ति सर्वगतत्वासर्वगतत्वविशेषः, अर्थतन्नेष्यते घटबहुत्वं तर्हि प्राप्तम् , यस्मादस्त्यपि
घटो भेदेन, एकोऽपि, घटोऽपीति त्रयो घटाः स्युः, अथ घट एवैको घट इष्यते, न त्वस्तित्वैकत्वे सिद्धस्तर्हि नास्ति घट इति, अस्तित्वार्थान्तरत्वात् खपुष्पवत् , नैक इति च, एकत्वास्तित्वत्यागाच्च रूपादिषु घटैकदेशेष्वपि न घट इति प्राप्तम् , एकत्वत्यागात् , एकैकत्वाच्च
रूपादीनां रूपादिष्वभावे घटस्य रूपादयो घटः संवृतिसन्निति निवर्त्तते, क्षणिक इति च न 16 क्षणिकमात्रम् , अस्तित्वत्यागात् ततश्चानस्तित्वो घट इति प्राप्तम् , तच्च विज्ञानमात्रमिदं सर्व इति वक्ष्यमाणपक्षोऽभ्युपगतो भवति ।।
(नन्विति) नन्वस्तित्वैकत्वयोर्विपरीतता, कस्मात् सर्वगतत्वाद्व्याप्तेः ? इति, अस्तित्वैकत्वाभ्यां हि
प्रभेदरूपेण भवति, तस्मात्ते भेदप्रमेदाः परस्परं विलक्षणस्वभावा इति भावः । तस्मान्न सर्वात्मकत्वदोषो घटादीनामित्याह
तस्मान्नेति । तदेतन्मतं शून्यवादी प्रतिक्षिपति-ततो घटः पटादिति, घटो घटात्मखरूपाद्विपरीतः, अस्त्याद्यात्मकविपरीत20 त्वात् , घट विपरीतपटात्मवत् , योऽस्त्याद्यात्मकविपरीतः स घटस्वरूपादपि विपरीतो यथा पटोऽस्त्यात्मकादेकात्मकात् घटाद्विपरीत
स्तथा घटस्वरूपाद्विपरीतः तथा घटोऽप्यस्त्यात्मकादेकात्मकादस्तित्वैकत्वाभ्यामनन्यात्मकात् पटाद्विपरीत इति घटस्वरूपादपि विपरीतः संवृत्तः, घटपटादीनाञ्च विपरीतखरूपताभ्युपगमादस्त्याद्यात्मकात् पटादेविपरीतताऽभ्युपगतैवेति नासिद्धिरिति भावः । हेतोः सिद्धत्वे चानुमानमाह-एवमभ्युपगत इति । अस्तित्वाद्यात्मकयत्किञ्चित्प्रतियोगिकवैपरीत्यमेव त्वयाऽपि वाच्यं नान्यथा
वैपरीत्यं सम्भवतीत्याह-एवं हीति । भवतु ततः किमित्यत्राह-तथा घट इति । यथा पटस्यास्तित्वैकत्वाभ्यां घटस्य 25 विपरीतता तथा घटानन्यात्मकात् घटात्मखरूपादपि विपरीतो घटः स्यादित्याह-पटास्तित्वेति, पटास्तित्वैकत्वयोर्घटस्य विपरीतत्वमिति भावः । भवतु घटस्य घटात्मखरूपविपरीतत्वं किं नः छिन्नमित्यत्राह-घटात्मनैवेति, खस्वरूपाद्वैपरीत्ये प्रागिव घटो नैव स्यादिति भावः । एवं सर्वभावानां कटरथादीनामप्यभावः, उक्तन्यायादित्याह-एवमिति। उक्तन्यायस्य सर्वत्र समानत्वात् सोऽत्रापि योज्य इति हेतुं दर्शयति-कस्मादिति । ननु यत्रैकत्वमस्तित्वं वा तत्रास्तित्वमेकत्वं निष्कलं खेनैव तत्त्वेन भवितुमर्हतीति व्याप्तेः सर्वगतत्वात् कथमस्तित्वैकत्वाभ्यां विपरीतता घटादेरिति शङ्कते-नन्विति, अस्तित्वैकत्वाभ्यां घटादयो न
१ सि.क्ष. छा. डे. घटा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org