SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ स्वरूपवैपरीत्यप्रसञ्जनम् ] ११३१ www wwwwwww यथा घटस्यायुक्त्या नास्तित्वं प्रतिपादितमस्त्येकत्रयाणामनन्यत्वे तथा प्रदरथादिसर्वभावानां प्रतिपाद्यमतोऽतीतन्यायेन योजयितुमुपायं प्रदर्शयन्नाह - यत्र घटस्यावृत्तिः तत्र सर्वभावानामवृत्तिरेव, कस्मात् ? घटानर्थान्तरत्वात्, घटादनर्थान्तरत्वं सर्वभावानां भावितमेव, क्क ? अस्तित्वैकत्वयोरर्थान्तरत्वे घटस्य पटादीनामप्यस्तित्वैकत्वानर्थान्तरत्वात् घटानर्थान्तरत्वमतश्च घटानर्थान्तरत्वात् सर्वभावानां घटावृत्ताववृत्तिरेवेत्यस्त्येकघटानामनर्थान्तरत्वे दोष:, अथाप्यर्थान्तरमिति - अस्त्येकत्वाभ्यां घटस्यार्थान्तरतायां वा सामान्य- 5 मस्तित्वं विशेष एकत्वं घटस्य, ततस्तौ सामान्यविशेषौ न स्तः, निःसामान्यत्वान्निर्विशेषत्वाच्चासत्त्वमेव घटस्य खपुष्पवत् स्यादिति । ww द्वादशारनयचक्रम् अत्राह - " www.www अथ भावाः परस्परविपरीतस्वभावा एव सत्यप्यस्तित्वैकत्वाभेदे भेदार्थ प्रधानादिप्रवृत्तेः, तस्मान्न सर्वात्मदोषः, अत्र ब्रूमः घटः पटादस्त्यात्मकादेकात्मकादनन्यात्मकाच्च 10 विपरीतः संवृत्तः ततश्च घटो घटात्मस्वरूपादपि विपरीतः प्राप्नोति, अस्तित्वैकत्वाभ्यां विपरीतत्वात्, घटविपरीतपटात्मवदिति पुनरपि नास्ति घटः, एवं सर्वभावा अपि, सर्वगतत्वाद्व्याप्तेः । WA अथेत्यादि, घटपटादयो भावाः परस्परविपरीतस्वभावा एव सत्यप्यस्तित्वैकत्वाभेदे, किमर्थं किं कारणं वा ? उच्यते भेदार्थं प्रधानादिप्रवृत्तेः प्रधानं हि प्रकृति बहुधान कादिपर्यायं पुरुषोपभोगं शब्दाद्युपलब्धि- 15 रूपमाद्यं गुणपुरुषान्तरोपलब्धिरूपञ्चान्त्यमुद्दिश्य पुरुषं प्रवर्त्त [य]मानं शब्दादिपृथिव्यादिगवादिघटादिभेदानन्तरेण न शक्नोति पुरुषार्थं कर्तुम्, अतो भेदार्थं प्रधानादिप्रवृत्तेः घटपटादयः परस्परविभिन्नस्वभावा त्यतिदिशति-तथा च सर्वे भावा इति, यत्रैकत्वमस्ति तत्रास्तित्वमपि निष्कलं स्वेनैव तत्त्वेन भवितुमर्हति, अनर्थान्तरत्वादिति हि युक्तिः, तत्र सर्वसर्वात्मकतावारणायास्तित्वं निष्कलं स्वेनैव तत्त्वेन भवितुमर्हतीत्यंशानभ्युपगमे घटस्य नास्तित्वं प्रतिपादितं भवति, अस्तित्वादीनामवृत्तेः, एवं घटानन्यैकत्वास्तित्वानन्यत्वात् सर्वभावानां घटवदेवावृत्तित्वं स्यादिति भावः । तत्र प्रोक्तन्याय 20 संघटयितुमुपायमाह-यत्र घटस्येति । अस्तित्वैकत्वयोर्घटस्यावृत्तित्वात् सर्वभावानामप्यवृत्तित्वम्, सर्वभावानां घटानर्थान्तरत्वस्य भावितत्वादित्यर्थः । कुत्र भावितमित्यत्राह - अस्तित्वैकत्वयोरिति, घटादनर्थान्तरे ह्येकत्वास्तित्वे ताभ्यामनर्थान्तराणि सर्वभावा इति घटादनर्थान्तरत्वं सर्वभावानां पटादीनाम्, तदभिन्नाभिन्नत्वस्य तदभिन्नत्वव्याप्तेरिति भावितमिति भावः । ततः किमित्यत्राह-सर्वभावानामिति । अस्तित्वैकत्वाभ्यां घटस्यार्थान्तरत्वे तु सामान्य विशेषशून्यत्वाद्धटस्य खपुष्पवदभाव एव स्यादित्याह-अस्त्येकत्वाभ्यामिति, सम्बन्धाभावादिति भावः । अथ सन्तोऽप्येकरूपा अपि भावाः परस्पर विलक्षणा इति 25 सामान्यविशेषात्मकत्वेऽपि भावानां घटपटादीनां परस्परतो नाभेद इत्याशङ्कते - अथ भावा इति । घटपटादीनामस्तित्वेनैकत्वेन चामेदे सत्यपि ते परस्परं भेदाद्विपरीतस्वभावा एव न त्वभिन्नस्वभावा अत एव च न सर्वसर्वात्मका इति व्याचष्टेघटपटादय इति । घटादीनां सर्वात्मकत्वे प्रतिनियतार्थक्रियाप्रवृत्तिर्न स्यात्, तथाविधार्थक्रियायोग्य विशेषतासम्पादनार्थं विशेषस्वभावता तेषां वाच्या, किव ते यदि सर्वात्मका न तदर्थं प्रधानप्रवृत्तिः स्यात् प्रधानवत्तेषामपि सर्वात्मकत्वात्, प्रवर्त्तते च प्रधानम्, तस्मात्ते तद्विपरीतस्वभावा असर्वात्मकाः प्रतिनियतस्वभावा इति यावदित्याशयेन पृच्छति - किमर्थं किं 30 कारणं वेति, कस्मै प्रयोजनाय केन हेतुना च परस्पर विपरीत स्वभावतेत्यर्थः । समाधत्ते -भेदार्थमिति । व्याचष्टेप्रधानं हीति, प्रकरोतीति प्रकृतिः प्रकर्षेण धीयन्तेऽस्मिन्निति प्रधानं प्रकर्षश्च प्राचुर्य बहुप्रमेदाधारं बहुधानकम्, एतेषां पर्यायता, ईदृक् प्रधानं पुरुषोपभोगं जनयितुं प्रवर्त्तते स चोपभोगो द्विविधः, शब्दादिविषयोपलब्धिरूपः गुणपुरुषान्तरोपलब्धिरूपश्चाद्यन्तशब्दवाच्यावेतौ, तं च पुरुषोपभोगं साक्षाद्विधातुमशक्नुवन्ती महदहङ्कारतन्मात्रशब्दादिपृथिव्यादिघटादिभेद Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy